SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ग्रंथकारस्य प्रशस्तिः । e:श्रीमूलसंघव्योमेंदुर्भारते भावितीर्थकृत् । देशे समंतभद्राख्यो मुनिर्जीयात्पदर्धिकः ॥१॥ तत्त्वार्थसूत्रव्याख्यानगंधहस्तिप्रवर्तकः। स्वामी समंतभद्रोऽभूद्देवागमनिदेशकः ॥२॥ अवदुतटमटति झटिति स्फुटपदुवाचाटधूर्जटेर्जिह्वा । वादिनि समंतभद्रे स्थितवति सति का कथान्येषाम् ॥ ३॥ शिष्यौ तदीयौ शिवकोटिनामा शिवायनः शास्त्रविदां वरेण्यौ। कृत्स्नश्रुतं श्रीगुणपादमूले ह्यधीतवंतौ भवतः कृतार्थों ॥ ४॥ तदन्वयेऽभूद्विदुषां वरिष्टः स्याद्वादनिष्ठः सकलागमज्ञः । श्रीवीरसेनोऽजनि तार्किकश्रीः प्रध्वस्तरागादिसमस्तदोषः ॥५॥ यस्य वाचां प्रसादेन हमेयं भुवनत्रयम् । तच्छिष्यप्रवरो जातो जिनसेनमुनीश्वरः ॥६॥ यद्वाङ्मयं पुरोरासीत्पुराणं प्रथमं भुवि । तदीयप्रियशिष्योऽभूद्गुणभद्रमुनीश्वरः ॥७॥ शलाकाः पुरुषा यस्य सूक्तिभिभूषिताः सदा । गुणभद्रगरोस्तस्य माहात्म्यं केन वर्ण्यते ॥८॥
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy