SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः। राजा - हंत भोः रोहिणीजीवितेश्वर । प्रियाविश्लेषार्ते स्मरविशिखसंपातविधुरे १३३ न नाम त्वं कामं मयि कुरु घृणां मन्मथसख । विना हेतोरक्तान्यथ किमिति चक्राह्वमिथुना -- नुदस्यन् विस्रंसाद झटिति विघटय्य व्यथयसि ॥ ५५ ॥ ( अन्यतो विलोक्य ) निष्टापद्दतराजतद्रवखरांचंद्रातपान्नीरसान् किं यूयं पिबथ प्रसारितगलाः स्वैरं चकोरार्भकाः । यद्वा तापितरूप्यपिंडपरुषं विंबं गिलन्नैदवं युष्माकं सपरं निसर्गकठिनः स्वर्भानुरेवोपमः ॥ ५६ ॥ यद्वा रूप्यद्रव इत्यपि न पर्याप्तिस्तापस्य । कुतः । रूप्यद्रवो भवति नायमितः प्रसर्पनूष्मायते स पतितः कियतो मुहूर्तात् । इंदुर्विलीनतनुरात्मन एव तापात् ज्योत्स्नी भवत्यपरथा कृत ईदृमौषधम् ॥ ५७ ॥ नंद्यावर्तः– देव पश्य पश्य । परिभ्रश्यदवश्यायलेशग्रथितःपल्लवाग्रस्य संफुल्लमल्लिकावल्लीवेल्लित कंकेलिस्कंधस्य केलिदो हलविलासिनीविभ्रमपरिरंभरससमुज्जृंभमाणकुरबकस्तबक कदंबकस्य लंबमानसरससहकारकिसलयविडंबितवनिताललितकरतलसौकुमार्यस्य विक्रीयमाणबहलसौरभसंभावित - समीरणस्य रणरणकविवृद्धिकदर्थ्यमानमानिनीसंतानस्य वसंतवासभवनस्य निरालस्यवर्धितमन्मथप्रमदस्य प्रमदवनस्य परा लक्ष्मीः । अत्र हि ज्योत्स्नावगाहशिशिरः सहकारगांधनिष्यंदमानव कुला सववासितोसौ ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy