________________
१३२
विक्रांतकौरवे
दुस्सहोपचितमन्मथव्यथानर्थशून्यशिशिरांशुशब्दनः । चंद्रपादपतितान प्रवासिनः ह्रेपयस्यकरुणः खरैः करैः ॥ ५० ॥
किंच रे
तपन्ममांगानि शशांक शंके नावाप्स्यसि त्वं न पुराप्यवापः । सुलोचनाया वदनस्य साम्यं विलोचनैकांतविलोभनस्य ॥ ५१ ॥
अहो कठोरता चंद्रातपस्य ।
तपसि मम किमंगान्यंग चंद्रातप त्वं प्रकृतितपन यद्वा का कथा मद्विधेषु । ननु वहति कलंकाशंकर्मतः शशांकः स्वयमपि भवतैव प्रत्यहं तप्तविंबः ॥ ५२ ॥
नंद्यावर्तः - देव पश्य पश्य ।
तुलयति सुदृशामसौ शशी कुचकलशं घनचंदनार्चितम् । प्रियविरहविनिर्यंजनद्रवकलुषाश्रुनिपातकर्बुरम् ॥ ५३ ॥
अपर्यनुयोज्याश्च स्वभावा भावानां । कुतः । किमपकृतममुष्य चक्रवाकैः किमुपकृतं तुहिनार्चिषश्चकोरैः ।
व्यथयति विघटय्य चक्रवाकान् तृषमपहृत्य धिनोति यच्चकोरान् ॥ ५४ ॥