________________
पञ्चमोऽङ्कः।
१३१
यदि वा तिष्ठतु वराकाः प्रवासिनः स्वशरीरे तु दत्तप्रवेशं तमः किमस्य शोभायै कल्पते । अथवा भवतु विज्ञातं ।
सजलजलदनीलविषि पिंषन्मयूखैरुडुपतिरमृतांभःपूरगौरैस्तमांसि । स्ववपुषि तम एतल्लग्नमुन्मार्टि नासौ
शरणमुपगतानां हिंसिताको नृशंसः ॥ ४६ ॥ नंद्यावर्तः– (विलोक्य )
अयमरालमरालशिशुच्छदच्छविरपाकुरुते परितो नभः । शशिकरप्रकरः प्रसरन् जगत्
गवलकंठकलालमिदं तमः ॥४७॥ ( निर्वण्य ) अहो सांद्रता चंद्रातपस्य । संप्रति
रजनिसुरभिभूरिक्षीरनिष्यंदशुभ्रः किरणपरिकरोसौ रोहिणीवल्लभस्य ।
प्रसृत इव विभाति स्पर्शमात्रेण विघ्नन् ---विधुरविरहिदेहान् पारदासारपूरः॥४८॥ राजा
प्रतिफलनमहार्घाः कामिनीनां कुचेषु । प्रतिनवधनसारक्षोदसंदोहसांद्राः। किमपि हृदि विकारं कुर्वते सर्वतोऽमी
तरलतुहिनबिंदुस्यंदिनश्चंद्रपादाः ॥ ४९ ॥ कथं प्रत्यासन्ने प्रियादर्शने मुहूर्तमात्रमपि विरहमसहमानस्तपत्येव नः शिशिरांशुः । अयि भोः।