________________
विक्रांतकौरवे
वायुर्ददाति विरहन् कमपि प्रमोदमामोदमानकुमुदाकरसौरभाः ॥५८॥ राजा
च्यातन्मधुलवनिकरा निकारसहकारिणोत्र सहकाराः। प्रमदाविरहार्तानां
प्रमदवनमिदं प्रमादाय ॥ ५९॥ ( स्पर्श रूपयित्वा ) कथमसावपि परितापहेतुरपर एव चंद्रातपो मातरिश्वा । अथवा ।
अंगानि काशिदुहितुर्नवचंद्रकांतनिष्यंदघृष्टहरिचंदनशीतलानि । स्पृष्टानि नैव भवता पवमान नूनं नोचेदसौ तव कथं परितापभारः ॥६०॥ इत्थं च मे विकल्पयति चेतः ।
इयं तु तप्ता विनिपत्यचंद्रिका वहत्यमुष्मिन् पवने घनोष्मणि। अयं तु तप्तः सहसावगाहना
दिहैव चंद्रातपमुर्मरानले ॥ ६१ ॥ अयं च मे तर्कः। केवलं लोकविख्यातां वायोरग्निरिति श्रुतिम् ।
वायुरुष्णो वमन्नग्निं सत्यं सत्यापयत्यसौ ॥ ६२ ॥ अथवा साधु वेदितम् ।
असौ वहन्नेव सुदुस्सहं दहन देहिनां श्रांतिहरः समीरणः ।