________________
द्वितीयोऽङ्कः।
. वार्हदिदुव्वंदीकदव्व तेण जणेण चिंतावराई । अह अ अत्थदो एसा णिसग्गबला चिंता । अहं चेअ खु तेण तुलग्गामेत्तदसणसुहदाइणा महावाहुणा आभिजाइविरुद्धं कण्णआणं आभद्दवं अगणअंतेण दक्खंतस्सवि लोअणस्स कदम्हि करग्गहेण एक्कपदेकमरिआ एसो अ तस्स आदिक्कमो जं अहं चेअ स वरिदुकामा पडमं चेअ तेण णअणाणंददाणपुण्णचंदेण
१. विहतिदुवेदीकृतेव तेन जनेन चिंतावराकी । अथ च अर्थत एषा निसर्गबला चिंता अहमेव खलु तेन यदृच्छामात्रदर्शनसुखदायिना महाबाहुनाभिजातविरुद्धं कन्यानामभिद्रवमगणयता पश्यतोपि लोचनस्य कृतास्मि करग्रहेणैकपदे कमरिका । एष च तस्यातिक्रमो यदहमेव स्वयं वरितुकामा प्रथममेव तेन नयनानंददानपूर्णचंद्रेणोत्फुल्लपुंडरीकसदृक्षः स्निग्धपक्ष्मलधवलदीधैः स्वयं वृतास्मि चक्षुभिः । एष च मे विवेकमूढो मनोरथो यत् स एव भवतु सर्वोपि दिवसः, सैव भवतु सकलापि वेला, स एव भवतु सर्वोप्युद्देशः, सा एव भवतुं सकलापि दिशा यस्मिन् क्षणमात्रे दर्शनसुखमासीत् । किं पुनः यदि अन्येपि अलीकलज्जाव्यसनेऽवधीरितसाध्वसेऽवगाहिते यथेच्छप्रेक्षणसाहसे द्वे लोचने लभेयेति। को वा तस्य प्रत्युपकारो दर्पणस्य येन प्रतिच्छता तस्य प्रतिच्छंदं दत्तं मे यथेच्छदर्शनसुखं लोचनयोः । अथवा लुब्धः खलु स दर्पणो येन क्षणांतर एव गोपितं तस्य प्रतिच्छंदकम् । निदाक्षिण्यश्च स जनो येन मुहूर्तमात्रात्तिरोभवता प्रतिच्छंदकदर्शनमपि आत्मनो न सोढं । अथवा अहमेवात्रापराध्यामि याहं संपूर्णदर्शनमात्रेणापि तं जनमसंभाव्य पश्यत एव तस्य यथापुरं हि प्रस्थिता । कथं वा अत्र आत्मनोपि न प्रभवति लज्जेमि । याहं तद्दर्शनरमणीया भूमिमावर्त्य पुनर्देष्टुमपि न लभे । श्रूयते च मया सयौवनस्य जनस्याभिमतजनदर्शने उत्खंडितधैर्यार्गल उद्वासितविनयव्यसनेऽपनीतलजातिरस्करणीको दुःसहारभकर्कशो मदना नाम कोपि अंतःकरणमधिक्षिपतीति। तत् किलैतत् मयेदानीमनुभाव्यते येन मे अपर इव ततः प्रभृतिचिंता, अन्य एव संतापगर्भो मनसो विकारः । इतश्च मे अद्य प्रवर्तते वैलक्ष्यं यत्तदर्शनसमये संमुखासीनया एतया नवमालिकया तत्क्षणधैर्यस्खलनविलक्षो मे भावो लक्षितो न वेति ।