________________
विक्रांतकौरवे
धूमैः शामलयन् प्रलिप्य गगनं निष्ठापयन्नातपं ज्वाला संततिभिर्नवान् विरचयन् धूम्याभिरंभोधरान् । उत्पातोपनकोपरागबहलव्यादेहसंदेहदः । सप्तार्चिः कवलीकरोति विलिहन् विंबं सहस्रार्चिषः ॥७३॥
मंदरः
१००
मेघप्रभस्यैष जयं ब्रवीति धूमध्वजः पौरवसैन्यघाती ।
नमेः सुतस्यापि पराजयाय पतन् ध्वजस्योपरि धूम एषः ॥ ७४ ॥
रत्नमाली — कथमकांडवृष्ट्या विधाप्यते सहसा विभावसुः । नूनमुत्सृष्टं
वारुणमस्त्रं नमिसूनुना ।
मंदारमाला - अह्नो अच्छेरं ।
रत्नमाली
प्रावृट् प्रवर्तयति चारुचलत्कलापानुच्चैश्शिखानतितरां शिखिनः सुखार्द्रान् । निर्मूल निर्दलितधूमशिखाकलापः प्रावृष्ययत्विह शिखी प्रलयं प्रयातः ॥ ७५ ॥
मंथरकः - केहें एसरुप्पदंडधवलसलिललद्विसहस्ससंसइद णिस्से सजलणिहिणिपडणब्भुदो पज्जलंतजं बूणदथोर भासुरविज्जुलिजालजलिलो कज्जल
१ अहो आश्चर्य । २ कथमेष रौप्यदंडधवलसलिलय ष्टिसहस्रसंशयित निश्शेषजलनिधिनिपतनाद्भुतः प्रज्वलज्जांबूनदस्थूलभासुरविद्युज्जालजटिलः कज्जलम षिकृष्णसजलजलधरनिवहभ्रीयमाणसिद्धपथध्वांत: संतत चरत्स्तनितनिर्घोषभीषणो बज्रपतनमाटितविकटमहीधरशिखरप्राग्भारो निर्भरोद्भ्रांताभिसारिकामनोरथसंभाव्यमान संतमसः प्रवसनमिथुन हृदयविदारणकरपत्रः प्रवृत्तः वर्षरात्रः ।