________________
चतुथाऽङ्कः।
मासकसणसजलजलहरणिवहभरिजंतसिद्धपहलुतो संतदुच्चरंतथणिदणिग्घोसभीसणवज्जपडणमूडिदविअडमहीहरसिहरपब्भारो णिब्भरुन्भंतझग्गुलीमण. रहसंभावणिज्जसंतमसोपसंतमिहुणहिअआविदारणकरपत्तो पउत्तो वारिसारंतो। रत्नमाली
नभसोऽयं कालत्वं रचयति बहलो बलाहकव्यूहः ।
जठरशिखिकंठकालः कालिमपि करोति नभ एव ॥७॥ अपि च । सौदामिन्य इमा विभांति शिखिनः पूर्व निगीशिशखा रोमंथायितुमिच्छया मुहुरथोद्गीर्णा इवांभोधरेः । किंचांतःकवलीकृतो जलधरैर्वैश्वानरो दुर्जर- . स्तत्क्रोडानि विपाट्य बाढमशनिच्छद्मा विनिर्गच्छति ॥ ७७ ॥ मंदरः कथं प्रावृषमप्यतिशेते वांतरविहितसृष्टिरियं वृष्टिः । अय हि
निर्यत्कुरंगनिकुरम्बकरंबितानि चुंबति संप्रति कदंबकदंबकानि । कादंबिनीनिबिडनिष्पतदंबुपूराः
कूलंकषोमिभरिताः सरितः सरंत्यः ॥ ७८॥ रत्नमाली-कथम्।
रत्याडंबरसोष्मणस्सपुलकं निर्ममवशेष्वमी __ यूनः सोष्मसु कामिनीस्तनतटेष्वासज्जयंतः सदा ।
व्योम्नः सीमसु केतकीसुमनसामच्छाः परागच्छटाः नुष्यत्मोषितधैर्यभस्मधवलाः प्रोज्झति झंझानिलाः ॥ ७९ ॥