________________
चतुर्थोऽङ्कः ।।
a
जनस्याक्ष्णां तीक्ष्णं तिमिरमिव संरोधि तिमिरं प्रमार्जन्नूर्जस्वी प्रभृत इव सार्जेन रजसा। समुत्सर्पज्ज्वालाशतकबलितव्योमपरिधिविना काष्ठाभेदं पतति शर एतानधिरुहन् ॥ ७० ॥ रत्नमाली--निर्मुक्तमाग्नेयमस्त्रं मेघप्रभेण । अत्र हि। जनयत्यनेकपानां पाकल इव पावकः परं दवधुम् । .
सूकल इव दुष्टहयः सर्वोस्माद्विभ्यदुभ्रमति ॥ ७१ ॥ मंथरकः-देख देव कत्थइ चलपडाआवलिवीजिओ हत्थिदग्धजालाजालआपुक्खिओ कत्थइ करिकएण आलचालणुत्ताओ घोलरिफुलिंगआलिंगिओ कत्थइ चलंतजालासिहुट्टामरो कत्थइ बलंतधूमग्गमंधारिओ करितुरअरहिमणुअणिवहविद्दावणो दहइ दहणो इमो पोरवाणं बलं । मंदरः-देव पश्य पश्य ।
उत्पुष्यन्नलकास्थिनालविगलन्मज्जाद्रवोद्रेचितज्वालाजाल जटाललोलदनलव्यासंगपीडांगकाः । प्लोषोत्पिडितकंदराविलुठनाकांडस्फुटोत्थापिताः
संत्रासं पिशिताशिनां च विदधत्यद्धा कबंधा अमी॥७२॥ रत्नमाली-अहो विश्वमश्नाति वैश्वानरः । एष हि।
१ पश्य देव कुत्रचिच्चलपताकावलीवाजितः हस्तिदन्नज्वालाजालपुंजितः कुत्रचित् करिकर्णचालनोत्थापितः घूर्णमानस्फुलिंगकालिंगितः कुंत्रचिच्चलज्ज्वालाशिखोहामरः कुत्रचित् बलमोद्मांधकारितः करितुरगरथमनुजनिवहविद्रावणः दहति दहनः अयं पौरवाणां बलम् ।