________________
पश्चमोऽङ्कः ।
१४१
नवमालिका-ऐसा उण अहं ण णिवारेमि सो एव्व आअदुअ तुमं
णिवारेदु।
- राजा-सखे अयमवसरः यावदुपसर्पावः ।
(उपसर्पतः) नवमालिका-( दृष्ट्वा ) भट्ट एसा खु पिअसही चिराइदं तुम्हेहिति कुविदा णिग्गच्छेदि । ता णिवारीअदु ।
सुलोचना- ( सलज्जं सहर्ष च ) अम्हो अज्जउत्तो। राजा-सरले कृतं कुपितेन । ( हस्ते गृह्णाति )
(सुलोचना सलजं मोचयितुमिच्छति) विदूषकः-कहं वअस्सेण गहिदं वि हत्थं मोएदुं इच्छसि । इमस्स उण बाहुसारं तुम्हाणं विअ तुए जामातुणो अक्काकत्तिणो हत्था. पुच्छिअंतु। राजा-अयि मुग्धे कुतो हस्तमाक्षिपसि । कृतं वीडितेन ।
इयं परिम्लानमृणालकोमला तवांगयष्टि शमद्य ताम्यति । तदेव लज्जाव्यसनं विमुंचती
ममावलम्बस्व करं नितंबिनि ॥ ७४॥ विदूषकः-लेद्धं मणोरहाणं फलं वअस्सेण अ अत्तहोदीए अमए उण एक्केण एत्तिअंमि भूइडमिटफले वणे एकवि फलं ण लद्धं ।
१ एषा पुनरहं न निवारयामि स एवागत्य त्वां निवारयतु । २ भर्तः एषा खलु प्रियसखी चिरायितं युष्माभिरिति कुपिता निर्गच्छति । ३ अहो आर्यपुत्रः । ४ कथं वयस्येन गृहीतमपि हस्तं मोचयितुमिच्छसि अस्य पुनर्बाहुसारं युष्माकमिव त्वया जामातुः अर्ककीर्तेः हस्ता पृच्छेताम्. ५ लब्धं मनोरथानां फलं वयस्येन च अत्रभवत्या च मया पुनरेकेन एतावन्मात्रे भूयिष्ठमृष्टफले उपवने एकमपि फलं न लब्धं ।