SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ८. विक्रांत कौरवे सरलिका-तदो तदो। प्रतीहारः-ततश्चार्ककीर्तिः ससंरंभमवोचत् । यथा आर्य अस्त्येवैतत्। किं तु। नाहं सुलोचनार्थ्यस्मि क्षात्रो धर्मस्तु पाल्यते। तातस्यापि न विद्वेषो निग्रहे कूटकारिणाम् ॥ २३ ॥ अथ च । द्वैधीभावं भजतु सहसा संहतो राजवर्गः कामं वासौ पततु निखिलः शात्रवे पक्ष एव । किं नश्छिन्नं ननु रिपुशतोन्माथकीनाशदण्डौ सन्नद्धौ मे समितिषु भुजावेव साहाय्यकाय ॥ २४ ॥ ततश्च जयावाप्त्युद्भूतप्रमदभरसंवर्धितमदं मदीयं पादांतं सपदि समरे पश्यतु भवान् । कुरूणां तत्सैन्यं जयविरहदैन्यप्रतिहतं । . जनः स्वैरं शोचत्वविनयफलास्वादचकितम् ॥ २५ ॥ सरलिका-अहो कक्कसदा सहावस्स । तदो तदो।। प्रतीहारः ततश्च निरवद्यः सानुशयविशादमेवमवादीत् । धिक्कष्टं । लघुकृतोस्मि दुर्विनीते मामटीकुर्वता चक्रवर्तिना । यदमुना बहुधापि शिक्षितेन जितकाशिता केवलं प्रकाशितेति । अर्ककीर्तिना पुनर्दत्तमुत्तरं न केवलं मे जितकाशितैव, कुरूनपि जितानेव विद्धि इति । सरलिका-हं चक्कवट्टितणओ एव्वं कुप्पेदित्ति जं सच्चं अच्चहिदं संकेदि मे हिअअं। १ ततस्ततः । २ अहो कर्कशता स्वभावस्य । ततस्ततः । ३ हंत चक्रवर्तितनय एवं कुप्यतीति यत्सत्यमत्याहितं शंकते मे हृदयं ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy