________________
चतुर्थोऽङ्कः।
८१
प्रतीहारः-अलमत्र तावत् शंकया सोपि मेघेश्वर एव । सरलिका-णे आणामि दुव्वंचिआ अत्थ संधी करोढुं। प्रतीहारः-इत्थं च विग्रहैकरुचौ प्रत्यवस्थिते चक्रवर्तिसुते मिरवयः सनिर्वेदनिश्वासमुत्थाय चिंतावेगमूक एव निरगमत् ।
सरलिका-तदो' तदो . प्रतीहारः-अहं च तूष्णीक एव निर्गच्छंतं निरवद्यमन्वयाशिषम् ।
सरलिका-तदो तदो
प्रतीहारः-निर्गत्य च निरवद्येन लेखार्पितेनैतदृत्तांतेन त्वरितवियल्लंधनजंघालं विद्याधरदूतद्वयं तत्क्षणमेव चक्रवर्तिनः पार्श्व प्रस्थापितम् । मयाप्यागत्य यथा वृत्तं सर्वमेतन्महाराजं निवेदितम् ।।
सरलिका-तदो तदो।
प्रतीहारः-श्रुत्वा च महाराजः क्षणमिव स्तिमितःस्थित्वा सनिर्वेदमवादीत् । कष्ट भो संकटे पतिताः स्मः।
सुतः कुरोरेकतरस्तयोर्द्वयोः परः पुरोरेव सुतस्य नंदनः। द्विषद्भवेयं कतरस्य वत्सयो
वरं तदत्राप्रतिपत्तिरेव नः॥ २६ ॥ सरलिका-तोरिसं खु तारिसाणं हिअअं। प्रतीहारः-आज्ञापितश्चाहं महाराजेन । भो महेंद्रदत्त किंबहुना। दैवमेवात्र स्वमनीषितमाचरतु । तदिदानी मद्वचनाद्वत्सं हेमांगदं ब्रूहि । निष्क्रांतेषु संग्रामाय विग्रहव्यग्रेषु राजपुत्रेषु सार्यतां पुरमार्गेषु दुर्गरोधप्रतिहतारिप्रपंचाः पांचालिकाः। रक्ष्यतामारक्षिकैः स्थिरावस्थानानि गुल्मकस्थानानि । निखिलीक्रियतां निखिलानि पुरद्वाराणि । दुर्विभेदा व्यतिकीर्य
१न जानामि दुवैचिता अत्र संधीःकर्तुम् । २ ततस्ततः । ३ ततस्ततः । ४ ततस्ततः। ५ तादृशं खलु तादृशानां हृदयम् ।