________________
पञ्चमोऽङ्कः ।
पुनरपि तमुद्दिश्यावोचत् । स्वय्येष नस्सार्वजनीनसूनौ यशस्वतीहात्र न माति हर्षः । किमन्यदेते पितरं यथा ते
त्वामात्मशौचाय यथा स्मरामः ॥ १५ ॥
प्रतीहारी - जुत्तं आचक्खिदं कासीराएण । तदो तदो ।
कंचुकी - ततश्च तूष्णीमासीनमर्ककीर्ति पुनरप्यवोचत् काशीराजः ।
तथा ।
न नागैर्नाप्यश्वैरपरिमितनागाश्च पृतनारुसमाराध्या यूयं ननु भरतसूनो कतिपयैः । धनं चेद्दास्यामस्तदपि न वरं यत्र निधयो न वाप्यस्तालस्याः सपदि सुवतेऽभीष्टमिह वः ॥ १६ ॥ किंच
महीखंडं दद्यां यदि तदपि हास्यं यदखिला मही युष्माकीणा हिमगिरिसरिद्वल्लभमिता ।
न सौहार्द प्रार्थ्यं नृपककुद युष्माभिरिह नः परं हि प्रेमाणं प्रथयति पितास्मासु भवतः ॥ १७ ॥
ततश्च युवराज श्रूयतामस्मदभीप्सितम् ।
११९
स्वयंवरे प्राप्य सपुष्पमालां तया समं यातु जयः स्वदेशम् । त्वां रत्नमाला गुणरत्नराशि संवाहयत्वर्घ्यमसावनर्घा ॥ १८ ॥
१. युक्तमाचक्षितं काशीराजेन । ततस्ततः ।