SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः । पुनरपि तमुद्दिश्यावोचत् । स्वय्येष नस्सार्वजनीनसूनौ यशस्वतीहात्र न माति हर्षः । किमन्यदेते पितरं यथा ते त्वामात्मशौचाय यथा स्मरामः ॥ १५ ॥ प्रतीहारी - जुत्तं आचक्खिदं कासीराएण । तदो तदो । कंचुकी - ततश्च तूष्णीमासीनमर्ककीर्ति पुनरप्यवोचत् काशीराजः । तथा । न नागैर्नाप्यश्वैरपरिमितनागाश्च पृतनारुसमाराध्या यूयं ननु भरतसूनो कतिपयैः । धनं चेद्दास्यामस्तदपि न वरं यत्र निधयो न वाप्यस्तालस्याः सपदि सुवतेऽभीष्टमिह वः ॥ १६ ॥ किंच महीखंडं दद्यां यदि तदपि हास्यं यदखिला मही युष्माकीणा हिमगिरिसरिद्वल्लभमिता । न सौहार्द प्रार्थ्यं नृपककुद युष्माभिरिह नः परं हि प्रेमाणं प्रथयति पितास्मासु भवतः ॥ १७ ॥ ततश्च युवराज श्रूयतामस्मदभीप्सितम् । ११९ स्वयंवरे प्राप्य सपुष्पमालां तया समं यातु जयः स्वदेशम् । त्वां रत्नमाला गुणरत्नराशि संवाहयत्वर्घ्यमसावनर्घा ॥ १८ ॥ १. युक्तमाचक्षितं काशीराजेन । ततस्ततः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy