________________
विक्रांतकौरवे
यद्युष्माकमसौ वचांसि शिरसाभ्यर्थ्यानि शेषास्थया व्यामोहादतिलंघतेस्म तदयं पुत्रोऽर्ककीर्तिर्ननु । अप्यस्मिन् भवतां न कर्तुमुचितोपेक्षा समीक्षावतां मंदाज्ञो भवति प्रमाद्यति जने को वा विनेये सुधीः ॥ ११ ॥
११८
ततश्च ।
न द्वेष्टि मेघेश्वरमर्ककीर्ति
घेश्वरो द्वेष्टि न चार्ककीर्तिम् ।
यथा सुहृद्धूय विवांतवैरौ
तथा भवद्भिः प्रतिबोधनीयौ ॥ १२ ॥
प्रतीहारः- कहं असाहारणो कासीराए चक्कवद्विणो बहुमाणो । कंचुकी - किमुच्यते काशीराजः खल्वसौ ।
यो हि
भक्तिं समस्त दुरितापहृतिप्रगल्भां धत्ते सदैव परमेष्ठिनियोगनिष्ठः । व्यामोहसंशयविपर्ययवीतबुद्धि
स्तत्त्वं विवेचयति सञ्च्चरितैकतानः ॥ १३ ॥
प्रतिहारी - अज्ज बुद्धिगदले हत्थेण किं पडिवण्णं कासीराएण ।
कंचुकी - किमन्यत् । सबहुमानमभिष्टुतवान् महाराजभरतं । यथा ।
शमं दधानो हृदि योगिदुर्लभं गुणैः कियद्वा पितुरेष हीयते ।
तदस्य संचिंत्य चरंतु साधवस्सुदुष्टवं वृत्तमदुष्टवृत्तयः ॥ १४ ॥
१. कथमसाधारणः काशीराजे चक्रवर्तिनः बहुमानः । २. आर्य बुद्धिगतलेखार्थेन किं प्रतिपन्नं काशीराजेन ।