________________
११२
विक्रांतकौरवे
पश्चमोऽङ्कः ॥५॥
comam
(ततः प्रविशति कंचुकी) कंचुकी-अहो निर्जरं प्रीणाति ममांतःकरणं विजयेन वर्धमानः परनृपतिमानघस्मरः कुमारमेघेश्वरः। तथाहि
प्रमदरभसादुद्यद्गद्गद्यते नितरां वचो गुणयति गुरुं गात्रस्यानंदधुर्मम वेपथुम् । तिरयतितरां वाष्पोत्पीडः प्रमोदहृतोक्षिणी
स्वयमाप जरा नूनं जीर्यत्यसौ बहुलीकृता ॥१॥ सर्वथा भाजनं मंगलानां सुमंगला काशीराजसुता ।(परिक्रम्यात्मानं निl) अहो वैरूप्यं बार्धकस्य ।
वयांसि वेपथूभृतवारवाणच्छलात्स्वयम् ।
उड्डीयेव पलायंते सोद्वेगं तनुवैकृतम् ॥२॥ अथवा कुरुनंदनविजयोत्सवदर्शिनः प्रवयस्त्वमपि मे श्रेयसे । यावदहमिहैव स्थित्वा यथा न कोपि प्रवेक्ष्यति तथा द्वारदेशं रक्षामि । ( इति उपविशति)
(ततः प्रविशति प्रतीहारी) प्रतिहारी-दिहिआ सुसंविदो देव्वेण कोरववंसो जदो जेदुणा अक्क
१ दिष्ट्या सुसंवृतो दैवेन कौरववंशो यतो जित्वार्ककीर्ति प्रतिनिवृतः कौरवेश्वरः। श्रुतं च मया गृहीत्वार्ककीर्तं प्रविष्टो वाराणसी कौरवश्वरस्संभावनापुरस्सरं वा राजकुलनिकटे निवेशितो काशीराजेनेति । ततश्च उद्वेलबाल्यफलप्रेरिता आगतास्मि विजयेन वर्धनं देवं कौरवेश्वरं दृष्ट्वा दृष्टयोस्सुखं लब्धं । इयं चाग्रतो वाराणसी। यावत्प्रीवशामि।