________________
-द्वितीयोऽङ्कः ।
३३
राजा - वयस्य कथमिव ।
विदूषकः -- भणिदं खु अम्हाणं सोविदल्लेण लल्लेण, आगमिस्सिदि सोहग्गमज्जत्थं एत्थ कासीराअउत्तित्ति ।
राजा - तदपि द्रक्ष्यामः ।
( निर्वर्णयंतौ परिक्रामतः )
(ततः प्रविशति सुलोचना नवमालिका चेटी च )
नवमालिका – पिअसहि जाव मज्जणवेला ताव एत्थ गंगातीरुज्जाणे दिओ विणोदस्सम्ह |
सुलोचना -जह पिअसहि भणादि ।
नवमालिका - इदो ईदो पिअसहि । ( सर्वाः परिक्रामति ) चेटी - (निर्वर्ण्य)| अहो इमस्स णिरंतरुप्फुल्लसराअकुसुमदाए रत्तकंवलोगुंठिदेहिं पिव पालिभद्ददुमेहिं निरंतरुप्फुलदाए कर्णत कण अपच्छंद संछण्णेहिं पिव कंचणकोविआरपाअवेहिं णिब्भरविअसिअकसणगुच्छदाए इंदणीलमणिकिरसंवलिदेहिं पिव तापिच्छेहि णिविडविहडिअसामलमउलदाए णिम्मलमरअमोहबलइदेहिं पिव सरिसएहिं घणपिणधवलमंजरीसहस्सदाए मोत्ति - अणिअरगुच्छेहिं पिव विअसिअसिंधुवारेहिं दंसिदेण पंचवण्णेअकुसुमविच्चडुएण सज्जीवकरंत विअ पंचवाणाइ सुहविहारजोगसमग्गपुलिणसोहिअस्स पत्तलवहलके अइवइवेत्थिअस्स रमणिज्जदा गंगातीरुज्जाणस्स ।
१ भणितं खल्वस्माकं सौविदल्लेन लल्लेन । आगमिष्यति सौभाग्यमज्जनार्थं अत्र काशीराजपुत्रीति । २ प्रियसखि यावन्मज्जनवेला तावदत्र गंगातीरोद्याने दृष्टिर्विनोदयिष्यामः 1 ३ यथा प्रियसखी भणति । ४ इतः इतः प्रियसखि ५ अहो अस्य निरंतरोत्फुल्लसरागकुसुमतया रत्नकंबलावगुंठितैरिव । पारिभद्रदुमैः निरंतरोत्फुल्लपीत फुल्लतया कनत्कनकप्रच्छदसंछन्नैरिव कांचनकोविदारपादपैः निर्भर विकसितकृष्णगुच्छतया इंद्रनीलमणिकिरणसंवलितैरिव तापिच्छैर्निविडविघटितश्यामलमुकुलतया निर्मल मरकतमयूखवलयितैरिव शिरीषैः घनपिनद्धधवलमंजरीसहस्रतया मौक्तिकनिकरगुच्छैरिव विकसितसिंधुवारैः दर्शितेन पंचवर्णकुसुमविच्छदेन सज्जीकुर्वत इव पंचवाणान् सुखविहारयोग्य समग्रपु लिनशोभितस्य पत्रिलवहलकेतकी वृतिवेष्टितस्य रमणीयता गंगातीरोद्यानस्य ।
३