________________
'चतुर्थोऽङ्कः ।
मिश्रविष्कंभः ।
GO
(ततः प्रविशति आकाशयानेन विमानारूढो रत्नमाली मंदारमाला पार्श्वतो मन्थरकश्च ) रत्नमाली - प्रिये मंदारमाले चिरादुपस्थितमेतदतर्कितहेतुकं नः कौतुकं ।
कुतः ।
एको जयः प्रगुणविक्रमलब्धकीर्तिमनग्रहग्रहिलधीरपरोऽर्ककीर्तिः ।
तस्मात्फलिष्यति तरामनिमेषतैषा संप्रेक्ष्य युद्धमिह कौरवपौरवीयम् ॥ २९ ॥
८३
मंदारमाला - देवे कुदो खु णिरवज्जरज्जाणिव्वहणाणिग्गहिदसअललोअविग्ग पलाअंतेवि भारदवरिसं अप्पडिहदचक्केवि चक्कवट्टिभरहे ईरिसाणं दुव्विणीआसंगसुलहाणं परक्कमो राअउत्ताणं ।
मंथरकः – किं कैरोदु एत्थ महाराअभरहो सहावदुव्विअत्थाणं सअं वा देवो भारदवरिससिहामणिं केलाससेलं अहिवसंतो ।
रत्नमाली - एवमेतत् ।
वैयात्यं सहजं नृणां दमयितुं नैवापरैः पार्यते भुंजन भारतवर्षमद्य स हि किं कुर्यादिमानीश्वरः । पश्य स्थाणुरपि श्रुतीरुपदिशन्नास्थाय दिव्यां सभां कैलाशाचलमौलिम भगवानध्यास्त एवेश्वरः ॥ ३० ॥
१. देव कुतः खलु निरवद्यराज्यनिर्वहणनिगृहीतसकललोक विग्रहे पलायत्यपि - भारतवर्षमप्रतिहतचक्रेपि चक्रवर्तिभरते ईदृशानां दुर्विनीतासंग सुलभानां पराक्रमो राजपुत्राणां । २ किं करोत्वत्र महाराजभरतः स्वभावदुर्विदग्धानां स्वयं वा देवो भारतवर्षाशखामणि कैलाशशैलमधिवसन् ।