Page #1
--------------------------------------------------------------------------
________________
SERIES NO. 1.
COLLECTION OF JAIN WORKS
PUBLISHED BY THE JAINA JNANAPRASARAKA MANDAL,
SHROFF BAZAAR, BOMBAY.
श्रावकप्रज्ञप्तिः SHRAVAKAPRAJNAPTI
BEING IN THE ORIGINAL MAGADHI With its Sanskrit commentary
BY
SHRIMAN HARIBHADRASURI
EDITED BY VAKIL KESHAVLAL PREMCHAND B.A.L.L.B.
Bombay: PRINTED AT JAVAJI DADAJI'S "NIRNAYA-SAGAR” PRESS.
1905.
Price Annas Ten.
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
अथ
श्रावकप्रज्ञप्तिः
श्रीहरिभद्रसूरिविरचितटीका सहिता । प्रेमचन्द्रतनुजेन केशवलालेन संशोधिता ।
सा च
मुम्बयीस्थज्ञानप्रसारकमण्डलनामसमाजेन
प्राकाश्यं नीता ।
मुम्बय्याम्
निर्णय सागरयन्त्रालये मुद्रिता ।
संवत १९६१.
मूल्यं / रु. ०-१०-०
Page #4
--------------------------------------------------------------------------
Page #5
--------------------------------------------------------------------------
________________
आमुखम्। श्रावकप्रज्ञप्तिनामधेयो ऽयमेकाधिकचतुःशत(४०१)पद्यात्मको ग्रन्थः पुरा मागध्यां प्रणीतो ऽस्ति । एनं च सुगृहीतनामधेयः श्रीहरिभद्रसूरिष्टीकया समलंचकार । ग्रन्थस्यास्य प्रणेता कदा को वा समभूदित्येतन्न शक्यते सम्यनिर्णेतुम् । भगवतोः सूरिवाचकवर्ययोः श्रीहरिभद्रोमास्वात्योरन्यतरः को वास्य रचयितेत्येतदा संदेहदोलारूढमेव ।
भगवता श्रीहरिभद्रसूरिणवायं स्वोपज्ञटीकासटीको निरमायीति वक्ष्यमाणप्रमाणैरवगम्यते । तथाहि
१ चतुःसप्तत्यधिकसप्तदशशत(१७७४)प्रमिते विक्रमाब्दे श्रीमता लावण्यविजयेन स्वोपज्ञटीकासनाथो द्रव्यसप्ततिनाम ग्रन्थो व्यरच्यत । तत्र च षट्पञ्चाशत्तमगाथायाष्टीकायाम् “यदाहुः श्रावकप्रज्ञप्तौ श्रीहरिभद्रसूरिपादाः" एवमलिख्यत । तदनन्तरमस्यामेव टीकायां प्रस्तुतग्रन्थस्यैव चतुर्दशोत्तरशत (११४) प्रमिता गाथा प्रमाणत्वेनावतारिता । ततः स ग्रन्थरचयितामुं भगवान्हरिभद्रसूरिरेव रचयामासेति मनुत इति भाति।
२ नवाङ्गीवृत्तिकृद्भगवान् सूरिरभयदेवः श्रीहरिभद्रसूरिसंहब्धं पञ्चाशकं व्यवृणोत् । तत्र च स पूज्यैरेवोक्तमित्यभिधाय 'संपत्तदंसणाई" इत्येतामेव गाथामवातारयत् । तेन च मूलात्मकोऽप्ययं ग्रन्थो भगवता श्रीहरिभद्रसूरिणैव व्यरच्यतेति निश्चीयते।
३ श्रीमानविजयप्रणीते श्रीयशोविजयसंशोधिते धर्मसंग्रहाभिधानप्रकरणे द्वादशतमव्रतप्रसङ्गेनेदमभ्यधायि । तद्यथा-उमा
Page #6
--------------------------------------------------------------------------
________________
स्वातिविरचितश्रावकप्रज्ञप्तौ तु अतिथिशब्देन साध्वादयश्चत्वारो गृहीताः। ततस्तेषां संविभागः कार्य इत्युक्तम् । तथा च तपाठः। “अतिथिसंविभागो नाम अतिथयः साधवः साध्व्यः श्रावकाः श्राविकाश्चैतेषु गृहमुपागतेषु भत्त्याभ्युत्थानासनदानपादप्रमार्जननमस्कारादिभिरर्चयित्वा यथाविभवशक्ति अन्नपानवस्त्रौषधालयादिप्रदानेन संविभागः कार्यः" इति । श्रीमुनिचन्द्रसूरिविरचितधर्मबिन्दुटीकायां द्वादशतमव्रतप्रस्तावे श्रीवादिदेवसूरिरप्येवमेवाह । अनेन च संस्कृतेऽपि श्रावकप्रज्ञप्ति मातिविस्तृतो. ग्रन्थः श्रीमदुमास्वातिविरचितोऽभूदित्यवगम्यते । अयं पुनः प्रस्तुतो ग्रन्थो मागध्यां मूलात्मको विद्यते । ततो निर्णीयते नायं भगवदुमास्वातिप्रणीतो भवेदिति ।
१श्रीमदुमास्वातिविरचिता श्रावकप्रज्ञप्तिरस्तीत्येतद्विचारामृतसंग्रहादिग्रन्थैरपि निश्चीयते ।
२ पञ्चाशकटीकायां श्रीमता नवाङ्गीवृत्तिकृताभयदेवसूरिणेदमभ्यधायि । तद्यथा-वाचकतिलकेन श्रीमतोमास्वातिवाचकेन श्रा- . वकप्रज्ञप्तौ सम्यक्त्वादिः श्रावकधर्मो विस्तरेणाभिहित इति । ततश्चेदमेवात्र जिज्ञास्यं यदेनमुमास्वाती रचयामास वा न वेति।
३ ग्रन्थस्यास्य मूलगाथान्ते प्रायः सर्वत्र 'उमास्वातिविरचिता सावयपन्नत्ती संमत्ता' इति लिखितं दरीदृश्यते । एतदपि चास्योमास्वातिवाचकः प्रणेतेति मनने मानम् ।
Page #7
--------------------------------------------------------------------------
________________
भगवता श्रीहरिभद्रसूरिणास्योपरि टीका व्यरच्येतति ग्रन्थान्तलेखपालोचनया स्पष्टं प्रतीयते ।
इदं च प्रस्तुतसूरिविरचितस्य स्वोपज्ञटीकासंवलितस्य शास्त्रवार्तासमुच्चयस्यामुखपर्यालोचनया तथा जिनभद्रसूरेरन्तेवासितां. स्वयमेवायमुररीचकारेत्यादिकारणैश्चावसीयते । प्रान्ते विरहाङ्काभावान्नायं विरचितो भगवता हरिभद्रसूरिणेति नाशङ्कनीयम् । यतो योगबिन्दुप्रमुखा विरहाकविनाकृता अप्यनेके तद्रतिचा ग्रन्थाः समवलोक्यन्ते । चतुश्चत्वारिंशदधिकचतुर्दशशत(१४४४) ग्रन्थानां निर्मातेति भुवनप्रतीतोऽयं सूरिः पञ्चत्रिंशदधिकपञ्चश ते (५३५) वैक्रमेऽन्दे देवलोकं स्वप्रत्यासत्त्या मण्डयामास ।
उमास्वात्यपेक्षयास्याधिकाः सन्ति प्रचलिता ग्रन्था इति तच्चरितं तत एवावगन्तव्यम् ।।
श्रीमानुमास्वातिरपि पञ्चशतं ग्रन्थान्व्यरचयदित्यैतिह्यमात्रम् ।
बृहद्गच्छीयेन श्रीहरिभद्रसूरिणापि वैक्रमीयपञ्चाशीत्यधिकैकादशशत(११८५)प्रमिताब्दविरचितायां प्रशमरतिटीकायामेवमेवोकम्।
तत्त्वार्थाधिगमः प्रशमरतिर्जम्बूद्वीपसमासश्चेति ग्रन्थत्रयं श्रीमदुमास्वातिवाचकप्रणीतमुपलभ्यते । पूजाप्रकरणं नामैको ग्रन्थ एकोनविंशतिश्लोकात्मक एतद्विरचितो भवेदिति कथनमात्रम् । एतद्विरचिताप्यन्या श्रावकप्रज्ञप्तिभवेदिव्येतद्धर्मसङ्ग्रहादिग्रन्थैरपि निश्चीयते । एतद्विरचितजम्बूद्वीपसमासान्तलेखादवगम्यते । तद्यथा-कृतिरियं सिताम्बराचार्यस्य महकोवरुमास्वातिवाचकस्येति ।
Page #8
--------------------------------------------------------------------------
________________
अयं सूरिःप्रागतिप्राचीनसमये समुदियायेत्येतदनन्तरोक्तप्रमाणेभ्यः प्रमीयते। नात्रेषदपि संदेहदावदग्धं किमपि ।
विषये प्रस्तुते डॉक्टरपिटर्सनेन प्रकाशिते ताीयीके रिपोर्टाभिधेये प्रसिद्धिपुस्तके षट्त्रिंशत्तमे पृष्ठे-श्यामाचार्यों नाम वाचकव
न्तेिवासी श्रीवीरनिर्वाणाषट्सप्तत्यधिकशतत्रय(३७६)प्रमिते हायनेऽनेहोधर्ममभ्याजगामेत्यलिख्यत। बलिसहस्यान्तेवासी स्वातिगुरुः श्यामाचार्यस्य इति पट्टावल्यामवलोक्यते। परं स स्वातिरयमुमास्वातिश्चेति द्वावप्येकनरनामनी इत्येतदपि संदेहकलितम् ।
तत्त्वार्थभाष्ये दशमेऽध्याये समाप्तिसमय उमास्वातिवाचक उच्चनागरीशाखीय इति स्वयमेवालिलिखे । उच्चनागरीशाखा श्रीमहावीरस्वामिद्वादशपट्टनिवासिनः श्रीमदार्यशान्तिश्रेणिकादाविबभूवेति कल्पसूत्रान्तर्गतस्थविरावल्याम् ।
श्रीमहावीराष्टमपट्टोदयोदितस्य भगवतः श्रीमदार्यमहागिरेरन्तेवासी बलिसहाचार्यो ऽभवत् ।
तत्त्वार्थाधिगमीयदशमाध्यायावसाने स्वयं लिखितात्स्वचरिताद्यदवगम्यते तद्यथा-शिवश्रीप्रशिष्यः श्रीमद्धोषनन्दिश्रमणशिष्यः वाचनान्वयेन तु मुण्डपादप्रशिष्यः मूलवाच्यवाचकाचार्यशिष्यः श्रीमदुमास्वातिरभूदिति । जन्म च तदीयं न्यग्रोधिकासंनिवेशे समभवत्। विहारागतकुसुमपुरे ऽयं व्यरच्यत । स्वजनुषायं कौभीषणगोत्रमभूषयत् । आसीत्स्वातिनोमैतज्जनिकर्ता जनकः । गुरुजननिरतास्य जननी पुत्रवत्सला वत्सगोत्रभवा । ग्रन्थेऽस्मिन्प्रथिता ये विषया विद्यन्ते ते विद्वजनैर्विदित्वा वि
न्तेवासी बलिसहमायदशमाध्यायावयः श्रीमद्धो
Page #9
--------------------------------------------------------------------------
________________
चार्याः सततमाचर्याश्च ततो ऽविरतं विभवविराजितैर्विभागविरतैर्यावज्जीवं स्वान्ते स्मर्तव्याः ।
ग्रन्थेऽस्मिन्प्राङ्गमङ्गलाभिधेयाभिधानानन्तरं श्रावकशब्दो व्याख्यायत । तद्यथा-यः सम्यक्त्वादिधरो यश्च प्रतिदिनं साधुसमीपे समागत्य स्वकीयां सामाचारीमाकर्णनात्कर्णयोः पावयित्रीमाकर्णयति स श्रावक इति श्रवणविषयेणाभिधीयते । यतः श्राचकलक्षणे सम्यक्त्वं श्रावकाणुव्रतानि चायान्त्यतस्तत्स्वरूपमत्र यथाक्रममभिधाय सामाचारी कथिता । सम्यक्त्वस्वरूपकथनावसरे प्रसङ्गेन कर्माष्टकस्वरूपं तत्त्वविवरणं सम्यक्त्वातिचाराश्चाकथ्यन्त । अनन्तरं सम्यक्त्वोदयान्मानसी परिणतिः कायव्यापृतिश्च कीदृक्स्वरूपमवलम्बत इत्येतदभिदधे ।
द्वादशाणुव्रतसमर्थनावसरे च प्रथमस्य प्राणापातविरतिसमाख्यस्य तथा नवमस्य सामायिकनामधेयस्याणुव्रतस्यातीवप्रशस्यता प्रतिपादिता समुपलभ्यते । प्राणातिपातविरति - प्रतिपत्तिप्रतिपादनावसरे च प्रत्याख्यातिनिराकृतिवादिनां परकीयप्राणहृत्प्राणभृत्प्राणव्यपरोपणं न दुष्कृतिकृतिबन्धकं प्रत्युत श्रेयोनिबन्धनमिति विवदमानानां, एकान्ततो नित्योऽनित्यो वा जीव इति प्रतिपन्नानाम्, मोचकवाचकवाच्यानामज्ञानिनां मतानि तत्तद्युक्तिसमालम्बनेन समर्थ्य तत्खण्डनं सुखावबोधमकारि । अवसाने चाविरतिरेव कर्मबन्धहेतुत्वात्कर्मेत्युक्तम् । नवमे च सामायिकाख्याणुत्रते देशविरतानां त्रिविधत्रिविधप्रत्याख्यानाभावः कथमस्तीति सम्यक्प्रतिपादितम्। सामायिकं शश्वद्विधेयमिति प्रतिपाद्य
Page #10
--------------------------------------------------------------------------
________________
६.
जिनपूजा हिंसाप्रचुरेति वादिनो मूका विदधिरे । तदनन्तरं गामान्तरगच्छतः श्रावकस्य सामाचारी वर्णिता । तद्यथा तत्रस्थश्रावकादिसाधर्मिक मिलनम् । दर्शनाय जिनसदनेषु गमनम् । इत्यादयोsपूर्वा विषयाः प्राचीनपद्धतिं परितोऽवलम्ब्य प्रतिपादिताः । अन्ते च संलेखनां लेखनुतामखिलविरतिविधेयां विधिविषयत्वेन प्रतिपाद्य मुक्तिरेव धर्मप्राप्तेः प्रधानं फलमप्रधानं स्वमनप्रभृतीति प्रत्यपादि । अन्ते च शोभानाः स्वकीया अध्यवसाया भव्यजनहिताय प्रादुश्चक्रिरे । ततः प्रमासमेतान्प्रति प्रमादान् क्षमयित्वा ग्रन्थः पर्यसमाप्यत । सांप्रतमस्याङ्कनविषये किंचिन्मात्रमुच्यते ।
मूलात्मकस्यास्य त्रीणि पुस्तकानि चत्वारि च टीकायाः समलभेऽहम् । तत्र त्रीणि मूलसमलंकृतानि त्रिपाठपत्रात्मकानि । चतुर्थ तु मूलसमुज्झितं केवलं टीकात्मकमेव । एषां विभागद्वयं विधीयेत । तदित्थम् ।
१ (क) देवशापाटकान्तर्वर्त्तिपं० दद्याविमलहस्तगतभाण्डागारान्तर्गतमेकं मूलात्मकं पुस्तकम् ।
(ख) पं० आनन्दसागराणां मूलात्मकं पुस्तकम् । एतत्पुस्तकद्वयमेकस्याः प्रतेः प्रतिबिम्बमेव ।
२ पं० गुलाबविजयानां मूलपुस्तकम् । इदं च पूर्वस्मात्पुस्तकाद्भिन्नमेव भाति ।
३ पं० गुलाबविजयानां टीकापुस्तकं मूलं विनाकृतम् । ४ (क) पं० दयाविमलानाम् ।
Page #11
--------------------------------------------------------------------------
________________
(ख) पं० कान्तिविजयानाम् । (ग) पं० वीरविजयानाम् । सटीकं पुस्तकत्रयमेतत्साक्षात्परंपरया वैकपुस्तकलिखितमिति भाति । अत एतत्पुस्तकत्रयमप्येकपुस्तककल्पम् ।
प्रस्तुतपुस्तकं प्रायेण ( १ ) एतत्पुस्तकपाट प्रमाणीकृत्य संशोधितम् ।
अनेन स्पष्टमवगम्यते यदहं पुस्तकद्वयं मूलस्य तथा पुस्तकद्वयमेव टीकायाः प्राप्नवम् । सकलान्यप्येतानि सन्ति पुस्तकान्यतीवाशुद्धानि । ततोऽस्येषदङ्कनानन्तरमर्धाङ्कितमेवेदमास्तामिति विचारितम् । तथापि यथादर्श पुस्तकमङ्कनीयमिति प्रयोजकाभिप्रायमनुसृत्यैतदङ्कितम् । शुद्धपुस्तकालाभात्कुत्रचिच्च मदीयाज्ञानात् बहून्यशुद्धस्थलानि संदृश्येरनू । तानि शुद्धीकृत्य विबुधैर्वाचनीयानि पत्रप्रेषणद्वारा मां प्रति विज्ञपनीयानि च । येन द्विःकृत्वोऽङ्कनावसरे शुद्धीकृत्याङ्कयिष्यामः ।
अस्याङ्कनेऽकारि साहायकं जैनपत्रिकाधिपतिना शा०फत्तेचंदात्मजेन भगूभाइना। अतस्तदुपकृति स्मरामः । अस्याङ्कयित्री ज्ञानप्रसारकसभा वर्त्ततेऽतः सार्हत्यतीव धन्यवादम् । एतस्यां समग्रग्रन्थशोधनादौ पं० आनन्दसागरैरतीव श्रममुररीकृत्यास्मिन्कार्ये सहायताकारि । अतोऽङ्कितस्यास्य ग्रन्थस्योदये मूलाधारभूतास्त एवेति मन्ये । अतः सविनयं स्मरामि तेषा. मुपकृतिमात्रमत्र केवलम् । यतस्तान्प्रति प्रत्युपकर्तुं न पार्यते । प्रोफेसरपदवीधारि जेकोबीनापि शोधनीयपत्रणा-(प्रुफसू)-शो
Page #12
--------------------------------------------------------------------------
________________
धनसूचनाप्रदानादिनोपकृताः । अतस्तदपि कृतज्ञतया स्मृतिपथमुपनीयते ऽङ्कनावसरे । यस्तावत्स्वकीयानि पुस्तकानि प्रदतानि तेऽप्युपकार एव । पुरुषधर्मत्वाद्धान्तेस्तथाज्ञानदोषाच्च यदत्र स्खलितं तत्सुधीभिः क्षन्तव्यमिति पुनःप्रार्थ्य श्रीसंघसमक्षं तत्प्रायोगिकमिच्छामि दुक्कडं दीयते । ।
संशोध्याङ्कयिता अहमदाबाद
प्रेमचंदतनयः नगरम्
- केशवलाल
बी.ए.एल. एल. बी. दावदावदवथुहृयथाभ्रवृन्दवारियम् मोददायि तद्वदेव धर्मवस्तुं कर्तरि दम्यभव्यदेशविरतसर्वविरतदुष्कृतिरमणहन्तृ नोवचष्टिकृढीकृतड्डक ॥ १ ॥
-
-
Page #13
--------------------------------------------------------------------------
________________
उमास्वातिवाचककृतश्रावकप्रज्ञाप्याख्यप्रकरणं
हरिभद्रसुरिविरचितव्याख्यासमेतम् ॥
स्मरणं यस्य सत्त्वानां तीव्रपापौघशान्तये ।
उत्कृष्टगुणरूपाय तस्मै श्रीशान्तये नमः ॥१॥ स्वपरोपकाराय श्रावकप्रज्ञप्त्याख्यप्रकरणस्य व्याख्या प्रस्तूयते । तत्र चादावेवाचार्यः शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थ चेदं गाथासूत्रमुपन्यस्तवान्॥
अरहते वंदितासावगधम्म दुवालसविहं पि। वोच्छामि समासेणं गुरूवएसाणुसारेणं ॥१॥ अर्हतो वन्दित्वा श्रावकधर्म द्वादशविधमपि । वक्ष्ये समासेन गुरूपदेशानुसारेण ॥ १॥ इह हि शिष्टानामयं समयो यदुत शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्त इत्ययमप्याचार्यों न हि न शिष्ट इत्यतस्तत्समयप्रतिपालनाय, तथा श्रेयांसि बहुविघ्नानि भवन्तीति ( उक्तं च
Page #14
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । श्रेयांसि बहुविघ्नानि भवन्ति महतामपि ।
अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः॥) इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्रेयोभूतं वर्तते अतो माभूद्विघ्न इति विघ्नविनायकोपशान्तये, तथा प्रेक्षापूर्वकारिणः प्रयोजनादिविरहेण न कचित्प्रवर्तन्त इत्यतःप्रयोजनादिप्रतिपादनार्थ च, तत्र अरहन्ते वंदित्ता इत्यनेनेष्टदेवतानमस्कारमाह अयमेव विघ्नविनायकोपशमहेतुः सावगधम्ममित्यादिना तु प्रयोजनादि त्रयं इति गाथासमुदायार्थः॥ ___ अवयवार्थस्तु अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यहन्तस्तीर्थकरास्तानहतः। वंदित्वा अभिवन्द्य । श्रावका वक्ष्यमाणशब्दार्थाः तेषां धर्मस्तं किंभूतं द्वादश विधाः प्रकारा अस्येति द्वादशविधस्तं द्वादशविधमपि संपूर्ण नाणुव्रतायेकदेशप्रतिबद्धमिति। वक्ष्येऽभिधास्ये ततश्च यथोदितश्रावकधर्माभिधानमेव प्रयोजनं, स एवाभिधीयमानो ऽभिधेयं, साध्यसाधनलक्षणश्च संबन्धः तत्र साध्यः प्रकरणार्थः साधनमिदमेव वचनरूपापन्नमिति ॥ आह यद्येवं नार्थोऽनेन पूर्वाचार्यैरेव यथोदितश्रावकधर्मस्य ग्रन्थान्तरेवभिहितत्वात् , उच्यते,सत्यमभिहितः प्रपञ्चेन,इह तु संक्षेपरुचिसत्त्वानुग्रहार्थं समासेण संक्षेपेन वक्ष्ये । किं स्वमनीषिकया, नेत्याह, गुरूपदेशानुसारेण गृणाति शास्त्रार्थमिति गुरुस्तस्मादुपदेशो गुरूपदेशस्तदनुसारेण तन्नीत्येत्यर्थः ॥ .. श्रावकधर्मस्य प्रक्रान्तत्वात्तस्य श्रावकानुष्ठातृकत्वाच्छ्रावकशब्दार्थमेव प्रतिपादयति ॥ १ श्रावकानुगतत्वात् ।
Page #15
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । ३ संपत्तदंसणाई पइदियहं जइजणा सुणेई य। । सामायारिं परमं जो खलु तं सावगं बिन्ति ॥ २॥ संप्राप्तदर्शनादिः प्रतिदिवसं यतिजनाच्छृणोत्येव । सामाचारी परमां यः खलु तं श्रावकं ब्रुवते ॥२॥ .
संप्राप्तं दर्शनादि येनासौ संप्राप्तदर्शनादिः। दर्शनग्रहणात्सम्यरदृष्टिरादिशब्दादणुव्रतादिपरिग्रहः । अनेन मिथ्यादृष्टेय॒दासः। स इत्थंभूतः प्रतिदिवसं प्रत्यहं यतिजनात्साधुलोकात् शृणोत्येव किं सामाचारी परमां। तत्र समाचरणं समाचारः शिष्टाचरितः क्रियाकलापः तस्य भावो गुणवचनब्राह्मणादिभ्यः कर्मणि व्यञ् सामाचार्य पुनः स्त्रीविवक्षायां षिगौरादिभ्यश्चेति डीप ( टापू ) यस्येत्यकारलोपः यस्य हल इत्यनेन तद्धितयकारलोपः परगमनं सामाचारी तां सामाचारी परमां प्रधानां साधुश्रावकसंबद्धामित्यर्थः। यः खलु य एव शृणोति तं श्रावकं ब्रुवते तं श्रावकं प्रतिपादयन्ति भगवन्तस्तीर्थकरगणधराः ॥ .. __ ततश्चायं पिण्डार्थः। अभ्युपेतसम्यक्तः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात्साधूनामगारिणां च सामाचारी शृणोतीति श्रावकः इति । सांप्रतं श्रवणगुणान् प्रतिपादयति । नवनवसंवेगो खलु नाणावरणखओवसमभावो। तताहिगमो य तहा जिणवयणायन्नणस्स गुणा ॥३॥
Page #16
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । नवनवसंवेगः खलु ज्ञानावरणक्षयोपशमभावः। तत्त्वाधिगमश्च तथा जिनवचनाकर्णनस्य गुणाः ॥३॥ नवनवसंवेगः प्रत्ययः प्रत्यग्रः संवेगः आद्रातःकरणता मोक्षसुखाभिलाष इत्यन्ये । खलुशब्दः पूरणार्थः संवेगस्य शेषगुणनिबंधनत्वेन प्राधान्यख्यापनार्थो वा। तथा ज्ञानावरणक्षयोपशमभावः ज्ञानावरणक्षयोपशमसत्ता संवेगादेव। तत्त्वाधिगमश्च तत्त्वातत्त्वपरिच्छेदश्च तथा जिनवचनाकर्णनस्य तीर्थकरभाषितश्रवणस्यैते गुणा इति ॥ तीर्थकरभाषिता चासौसामाचारीति ॥
किं च देहस्वजनवित्तप्रतिबद्धः कश्चिदहृदयो न शृणोतीत्येषामसारताख्यापनाय जिनवचनश्रवणस्य सारतामुपदर्शयन्नाह
न वितं करेइ देहो न य सयणो नेय वित्तसंघाओ। जिणवयणसवणजणिया जं संवेगाइया लोए ॥ ४॥ नापि तत्करोति देहो न च स्वजनो न च वित्तसंघातः । जिनवचनश्रवणजनिता यत्संवेगादयो लोके ॥४॥
नापि तत्करोति देहो न च स्वजनो न च वित्तसंघातः जिनवचनश्रवणजनिता यत्संवेगादयो लोके कुर्वन्ति । तथाह्यशा-. श्वतः प्रतिक्षणभङ्गुरो देहः शोकायासकारणं क्षणिकसंगमश्च स्वजनः अनिष्टितायासव्यवसायास्पदं च वित्तसंघात इत्यसारता । तीर्थकरभापिताकर्णनोद्भवाश्च संवेगादयो जातिजराम
१ अनिष्टितासद्वयवसायास्पदं ।
Page #17
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । रणरोगशोकायुपद्रवव्रातरहितापवर्गहेतव इति सारता । अतः श्रोतव्यं जिनवचनमिति ॥ अथवा
होइ दढं अणुराओ जिणवयणे परमनिव्वइकरम्मि । _सवणाइगोयरो तह सम्मदिहिस्स जीवस्स ॥ ५ ॥
भवति दृढमनुरागो जिनवचने परमनिवृतिकरे। श्रवणादिगोचरः तथा सम्यग्दृष्टेर्जीवस्य ॥५॥
यद्वा किमनेन निसर्गत एव भवति जायते दृढमत्यर्थमनुरागः प्रीतिविशेषः क जिनवचने तीर्थकरभाषिते किंविशिष्टे परमनिवृतिकरे उत्कृष्टसमाधिकरणशीले किंगोचरोऽनुरागो भवतीत्यत्राह । श्रवणादिगोचरः श्रवणश्रद्धानानुष्ठानविषय इत्यर्थः। तथा तेन प्रकारेण कस्येत्यत्राह सम्यग्दृष्टेजीवस्य प्रक्रान्तत्वाच्छ्रावकस्येत्यर्थः । अतोऽसौ श्रवणे प्रवर्तत एव ततश्च शृणोतीति श्रावक इति युक्तं इति गाथाभिप्रायः ॥
निरूपितः श्रावकशब्दार्थः । सांप्रतं द्वादशविधं श्रावकधर्ममुपन्यस्यन्नाह।
पञ्चेव अणुब्बयाई गुणवयाई च हुँति तिन्नेव। सिकावयाई चउरो सावगधम्मो दुवालसहा ॥६॥ पञ्चैवाणुव्रतानि गुणव्रतानि च भवन्ति त्रीण्येव। शिक्षाव्रतानि चत्वारि श्रावकधर्मो द्वादशधा ॥६॥
पञ्चेति सङ्ख्या । एवकारोऽवधारणे । पञ्चैव न चत्वारि षड्वा । अणूनि च तानि व्रतानि चाणुव्रतानि महाव्रतापेक्षया चाणुत्वमिति
Page #18
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । स्थूरप्राणातिपातादिविनिवृत्तिरूपाणीत्यर्थः ॥ गुणव्रतानि च भकन्ति त्रीण्येव न न्यूनाधिकानि वा। अणुव्रतानामेवोत्तरगुणभूतानि व्रतानि गुणव्रतानि दिग्वतभोगोपभोगपरिमाणकरणानर्थदण्डविरतिलक्षणानि एतानि च भवन्ति त्रीण्येव । शिक्षापदानि च शिक्षाव्रतानि वा तत्र शिक्षा अभ्यासः स च चारित्रनिबन्धनविशिष्टक्रियाकलापविषयस्तस्य पदानि स्थानानि तद्विषयाणि वा ब्रतानि शिक्षाव्रतानि एतानि च चत्वारि सामायिकदेशावकाशिकपौपधोपवासातिथिसंविभागाख्यानि । एवं श्रावकधर्मों द्वादशधा द्वादशप्रकार इति गाथासमासार्थः । अवयवार्थ तु महता प्रपञ्चेन ग्रन्थकार एव वक्ष्यति ॥ तथा चाहएयस्स मूलवत्थू सम्मतं तं च गंठिभेयम्मि। खयउवसमाइ तिविहं सुहायपरिणामरुवं तु ॥ ७॥ एतस्य मूलवस्तु सम्यक्त्वं तच्च ग्रन्थिभेदे । क्षायोपशमिकादि त्रिविधं शुभात्मपरिणामरूपंतु ॥७॥
एतस्यानन्तरोपन्यस्तस्य श्रावकधर्मस्य मूलवस्तु सम्यक्त्वं । वसन्त्यस्मिन्नणुव्रतादयो गुणास्तद्भावभावित्वेनेति वस्तु । मूलभूतं च तद्वस्तु च मूलवस्तु किं तत्सम्यक्त्वम् । उक्तं च .. मूलं द्वारं प्रतिष्ठानमाधारो भाजनं निधिः।
द्विषट्स्यास्य धर्मस्य सम्यक्त्वं परिकीर्तितम् ॥१॥ ; तच्च सम्यक्त्वं ग्रन्थिभेदे वक्ष्यमाणलक्षणकर्मग्रन्थिभेदे(३१-३३) सति भवति नान्यथेति भावः । तच्च क्षायोपशमिकादिभेदात्रिविधं
Page #19
--------------------------------------------------------------------------
________________
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
क्षायोपशमिकमौपशमिकं क्षायिकं च । यद्वा कारकादिशुभात्मपरिणामरूपं तु शुभः संक्केशवर्जित आत्मपरिणामो जीवधर्मो रूपं यस्य तच्छुभात्मपरिणामरूपं तुरवधारणे शुभात्मपरिणामरूपमेव । अनेन तद्व्यतिरिक्तलिङ्गादिधर्मव्यवच्छेदमाह । व्यतिरिक्तधर्मत्वे तत उपकारायोगादिति ॥
जं जीवकम्मजोए जुज्जइ एयं अओ तयं पुखं । वोच्छं तओ कमेणं पच्छा तिविहं पि सम्मत्तं ॥४॥ यतो जीवकर्मयोगे युज्यते एतदतः तकं पूर्वम् । वक्ष्ये ततः क्रमेण पश्चात्रिविधमपि सम्यक्त्वम् ॥ ८ ॥ यतो यस्मात्कारणाज्जीवकर्मयोगे जीवकर्मसंबन्धे सति युज्यते एतत् घटते इदं सम्यक्त्वं कर्मक्षयोपशमादिरूपत्वात् अतोऽस्मात्कारणात्तकं जीवकर्मयोगं पूर्वमादौ वक्ष्ये ऽभिधास्ये । ततस्तदुत्तरकालं क्रमेण परिपाट्या पश्चात्रिविधमपि क्षायोपशमिकादि सम्यक्त्वं वक्ष्य इति ॥ तत्राह
जीवो अणाइनिहणो नाणावरणाइकम्मसंजुत्तो । मिच्छत्ताइनिमित्तं कम्मं पुण होइ अट्ठविहं ॥ ९ ॥ जीवो ऽनादिनिधनो ज्ञानावरणादिकर्मसंयुक्तः । मिथ्यात्वादिनिमित्तं कर्म पुनर्भवत्यष्टविधम् ॥ ९॥ जीवतीति जीवः । असौ अनादिनिधनः अनाद्यपर्यवसित इत्यर्थः । स च ज्ञानावरणादिकर्मणा समेकीभावेनान्योन्यव्याप्त्या
Page #20
--------------------------------------------------------------------------
________________
सटीकश्रावकमज्ञप्याख्यप्रकरणं । युक्तः संबद्धो ज्ञानावरणादिकर्मसंयुक्तः । मिथ्यात्वादिनिमित्तं मिथ्यात्वादिकारणं मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतव इति वचनात् (तत्त्वार्थाधिगमसूत्रम् ८-१) कर्म पुनर्तानावरणादि भवत्यष्टविधमष्टप्रकारमिति ॥ तथा चाह
पढमं नाणावरणं बीयं पुण होइ दंसणावरणं। तइयं च वेयणीयं तहा चउत्थं च मोहणियं ॥१०॥ प्रथमं ज्ञानावरणं द्वितीयं पुनर्भवति दर्शनावरणम् । तृतीयं च वेदनीयं तथा चतुर्थ च मोहनीयम् ॥१०॥ प्रथममायं ज्ञानावरणं आब्रियतेऽनेनावृणोतीति वावरणं ज्ञानस्यावरणं ज्ञानावरणं ज्ञानं मतिज्ञानादि । द्वितीयं पुनर्भवति दर्शनावरणं पुनःशब्दो विशेषणार्थः सामान्यावबोधावारकत्वात् दर्शनं चक्षुर्दर्शनादि । तृतीयं च वेदनीयं सातासातरूपेण वेद्यत इति वेदनीयं रूढशब्दात्पङ्कजादिवत् । तथा चतुर्थ कर्म किं अत आह मोहनीयं मोहयतीति मोहनीयं मिथ्यात्वादिरूपत्वादिति । .
आजअ नाम गोयं चरमं पुण अंतराइयं होइ। मूलपयडीउ एया उत्तरपयडी अओ वुच्छं ॥११॥ आयुष्कं नाम गोत्रं चरमं पुनरन्तरायिक भवति । मूलप्रकृतय एता उत्तरप्रकृतीरतो वक्ष्ये ॥११॥
आयुष्कं नाम गोत्रं । तत्रैति याति वेत्यायुरननुभूतमेत्यनुभूतं च यातीत्यर्थः सर्वमपि कमैवंभूतं तथापि प्रक्रान्तभवप्रबन्धावि
Page #21
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं ।
च्छेदादायुष्कमेव गृह्यते अस्ति च विच्छेदो मिथ्यात्वादिषु । तथा गत्यादिशुभाशुभनमनान्नामयतीति नाम । तथा गां वाचं त्रायत इति गोत्रं रूढिषु हि क्रिया कर्मव्युत्पत्त्यर्था नार्थक्रियार्था इत्युच्चैआवादिनिबन्धनमदुष्टमित्यर्थः । चरमं पुनः पर्यन्तवति तत्पुनरन्तरायं भवति दानादिविघ्नोऽन्तरायस्तत्कारणमन्तरायमिति । मूलप्रकृतय एताः सामान्यप्रकृतय इत्यर्थः उत्तरप्रकृतीरेतद्विशेपरूपा अतो वक्ष्ये अत ऊध्वर्मभिधास्य इति ॥ क्रमप्रयोजनं प्रथमगुणघातादि यथा कर्मप्रकृतिसंग्रहण्यामुक्तं तथैव द्रष्टव्यं ग्रन्थविस्तरभयाद्वस्तुतोऽप्रक्रान्तत्वाच्च न लिखितमिति । तथा
पढमं पंचवियपं मइसुयओहिमणकेवलावरणं। बीयं च नववियप्पं निदापण दसणचउकं ॥१२॥ प्रथमं पञ्चविकल्पं मतिश्रुतावधिमनाकेवलावरणम् । द्वितीयं च नवविकल्पं निद्रापञ्चकं दर्शनचतुष्कम् ॥१२॥
इह सूत्रक्रमप्रामाण्यात्प्रथममाद्यं ज्ञानावरणं पञ्चविकल्पमिति पञ्चभेदं । तानेव भेदानाह । मतिश्रुतावधिमनःकेवलावरणं मतिज्ञानाद्यावरणमित्यर्थः । द्वितीयं च दर्शनावरणं नवविकल्पं निद्रापञ्चकं दर्शनचतुष्कं चेति । निद्रापञ्चकमाह । निद्दा निद्दानिद्दा पयला तह होइ पयलपयला य । थीणद्धी अ सुरुद्दा निद्दापणगं जिणाभिहियं ॥१३॥ निद्रा निद्रानिद्रा प्रचला तथा भवति प्रचलाप्रचलाच । स्त्यानडैिश्च सुरुद्रा निद्रापञ्चकं जिनाभिहितम् ॥१३॥ निद्रादीनां स्वरूपम् ।
Page #22
--------------------------------------------------------------------------
________________
- सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं । सुहपडिवोहा निद्दा दुहपडिबोहा य निद्दनिद्दा य । पयला होइ ठियस्स उ पयलापयला य चंक्कमओ ॥ अइसंकि लिट्टकम्माणुवेयणे होइ थी गिद्धी उ । महनिद्दा दिणचिन्तियवावारपसाहणी पायम् ॥ अत्रेत्थंभूतनिद्रादिकारणं कर्म अनन्तरं दर्शनविघातित्वाद्दर्शनावरणं ग्राह्यमिति । दर्शनचतुष्टयमाह ।
१०
नयणेयरोहिकेवल दंसणवरणं चउन्विहं होइ । सायासाय दुभेयं च वेयणिज्जं मुणेय ॥ १४ ॥ नयनेतरावधिकेवलदर्शनावरणं चतुर्विधं भवति । सातासातद्विभेदं च वेदनीयं मुणितव्यम् ॥ १४ ॥
नयनेतरावधिकेवलदर्शनावरणं चतुर्विधं भवति । आवरणशब्दः प्रत्येकमभिसंबध्यते । नयनं लोचनं चक्षुरिति पर्यायाः ततश्च नयनदर्शनावरणं चक्षुर्दर्शनावरणं वेति चक्षुः सामान्योपयोगावरणमित्यर्थः । इतरग्रहणादचक्षुर्दर्शनावरणं शेषेन्द्रियदर्शनावरणमिति । एवमवधिकेवलयोरपि योजनीयं ॥ सातासातद्विभेदं च वेदनीयं मुणितव्यं । सात वेदनीयमसातवेदनीयं च । आल्हादरूपेण यद्वेद्यते तत्सातावेदनीयं । परितापरूपेण यद्वेद्यते तदसातवेदनीयं । मुणितव्यं ज्ञातव्यमिति ॥
दुविहं च मोहणियं दंसणमोहं चरितमोहं च । दंसणमोहं तिविहं सम्मेयरमीसवेयणियं ॥ १५ ॥
Page #23
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । ११ द्विविधं च मोहनीयं दर्शनमोहनीयं चारित्रमोहनीयंच। दर्शनमोहनीयं त्रिविधं सम्यक्त्वेतरमिश्रवेदनीयम् ॥१५॥
हे विधेऽस्य तद्विविधं द्विप्रकारं । चः समुच्चये । मोहनीयं प्राडिरूपितशब्दार्थ । द्वैविध्यमेवाह । दर्शनमोहनीयं चारित्रमोहनीयं च। तत्र दर्शनं सम्यग्दर्शनं तन्मोहयतीति दर्शनमोहनीयं । चारित्रं विरतिरूपं तन्मोहयतीति चारित्रमोहनीयं । तत्र दर्शनमोहनीयं त्रिविधं त्रिप्रकार सम्यक्त्वेतरमिश्रवेदनीयं । सम्यक्त्वरूपेण वेद्यते यत्तत्सम्यक्त्ववेदनीयं । इतरग्रहणान्मिथ्यात्वरूपेण वे. द्यते यत्तन्मिथ्यात्ववेदनीयं । मिश्रग्रहणात्सम्यग्मिथ्यात्वरूपेण वेद्यते यत्तत्सम्यक्त्वमिथ्यात्ववेदनीयं । एवमयं वेदनीयशब्दः प्र. त्येकमभिसंबध्यते । इदं च बन्धं प्रत्येकविधमेव सन्कर्मतया त्रिविधमिति ॥ आह । सम्यक्त्ववेदनीयं कथं दर्शनमोहनीयं न हि तदर्शनं मोहयति तस्यैव दर्शनत्वात् । उच्यते मिथ्यात्वप्रकृतित्वादतिचारसंभवादौपशमिकादिमोहनाच्च दर्शनमोहनीयमिति ।।
दुविहं चरितमोहं कसाय तह नोकसाय वेयणियं । सोलसनवभेयं पुण जहासंखं मुणेयत्वं ॥ १६ ॥ द्विविधं चारित्रमोहनीयं कषायवेदनीयं तथा नोकषायवेदनीयं । षोडशनवभेदं पुनर्यथासंख्यं मुणितव्यं ॥ १६ ॥
द्विविधं द्विप्रकारं चारित्रमोहनीयं प्राङ्गि-रूपितशब्दार्थ । कषायवेदनीयं तथा नोकषायवेदनीयं चेति । वेदनीयशब्दः प्रत्येकमभिसंबध्यते । तत्र क्रोधादिकषायरूपेण यद्वेद्यते तत्कषायवेदनीयं।
Page #24
--------------------------------------------------------------------------
________________
.१२
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । तथा स्त्रीवेदादिनोकषायरूपेण यद्वेद्यते तन्नोकषायवेदनीयं । अस्यैव भेदानाह ॥ षोडश नवभेदं पुनर्यथासङ्खयेन मुणितव्यं । षोडशभेदं कषायवेदनीयं । नवभेदं नोकषायवेदनीयं । भेदाननन्तरं वक्ष्यत्येवेति ॥ तत्र कषायभेदानाह ।
अण अप्पच्चरकाणा पच्चरकाणावरणा य संजलणा।
कोहमणमायलोहा पत्तेयं चउवियप्पत्ति ॥ १७ ॥ • अनन्तानुबन्धिनो ऽप्रत्याख्यानाः प्रत्याख्यानावरणाः च
संज्वलनाः । क्रोधमानमायालोभाः प्रत्येकं चतुर्विकल्पा इति ॥ १७ ॥
अण इति सूचनात्सूत्रं इति कृत्वा अनन्तानुबन्धिनो गृह्यन्ते इह पारंपर्येणानन्तं भवमनुबडुं शीलं येषामिति अनन्तानुबन्धिनः उदयस्थाः सम्यक्त्वविघातिन इति कृत्वा॥ अविद्यमानप्रत्याख्याना अप्रत्याख्याना देशप्रत्याख्यानं सर्वप्रत्याख्यानं च नैषामुदये लभ्यते इत्यर्थः ॥ प्रत्याख्यानमावृण्वन्ति मर्यादया ईषदेति प्रत्याख्यानावरणाः आमर्यादायामीषदर्थे वा मर्यादायां सर्वविरतिमावृण्वन्ति न देशविरतिं ईषदर्थेऽपि ईषद्वण्वन्ति सर्वविरतिमेव न देशविरतिं देशविरतिश्च भूयसी स्तोकादपि विरतस्य देशविरतिभावात् ॥चा समुच्चये॥ईषत्परीषहादिसन्निपातज्वलनात्संज्वलनाः सम् शब्द ईषदर्थे इति ॥ एवं क्रोधमानमायालोभाः प्रतीतस्वरूपाः प्रत्येकं चतुर्विंकल्पा इति । क्रोधोऽनन्तानुबन्ध्यादिभेदाचतुर्विकल्पः ॥ एवं मानादयोऽपीति ॥ स्वरूपं चैतेषामित्थमाहुः
Page #25
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १३ जलरेणुपुढविपव्वयराईसरिसो चउब्विहो कोहो। तिणिसलयाकट्टट्टियसेलत्थंभोवमो माणो ॥१॥
मायावलेहिगोमुत्तिमिढसिंगघणंवसमूलसमा । लोहो हलिद्दखंजणकद्दमकिमिरागसारित्थो ॥२॥[कर्मग्रंथ.१-१९-२०]
पक्खचउम्मासवच्छरजावजीवाणुगामिणो कमसो।
देवनरतिरियनारयगतिसाहणहेयवो भणिया ॥ ३ ॥ इति अधुना नोकषायभेदानाह। इत्थीपुरिसनपुंसगवेयतिगं चेव होइ नायचं । हास रइ अरइ भयं सोग दुगंछा य छकं ति ॥१८॥ स्त्रीपुरुषनपुसंकवेदनिकं चैव भवति ज्ञातव्यम् । हास्यं रतिरतिर्भयं शोको जुगुप्सा चैव षटमिति ॥१८॥
स्त्रीपुरुषनपुंसकवेदत्रिकं चैव भवति ज्ञातव्यं नोकषायवेद्यतयेति भावः । तत्र वेद्यत इति वेदः । स्त्रियः स्त्रीवेदोदयात्पुरुषाभिलाषः । पुरुषस्य पुरुषवेदोदयात्स्यभिलाषः । नपुंस. कस्य तु नपुंसकवेदोदयादुभयाभिलाषः । हास्यं रतिः अरतिर्भयं शोको जुगुप्सा चैव षटुमिति । तत्र सनिमित्तमनिमित्तं वा हास्यं प्रतीतमेव । बाह्याभ्यन्तरेषु वस्तुषु प्रीतिः रतिः । एतेवेवाप्रीतिररतिः । भयं त्रासः । परिदेवनादिलिङ्ग शोकः। चेतनाचेतनेषु वस्तुषु व्यलीककरणं जुगुप्सा । यदुदयादेते हास्यादयो भवन्ति ते नोकषायाख्या मोहनीयकर्मभेदा इति भावः । नोकपायता चैतेषामाद्यकषायत्रयविकल्पानुवर्तित्वेन । तथाहि न क्षीणेषु द्वादशस्वमीषां भाव इति ॥ १ नोकषायभेदतयेति।
-
Page #26
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । आउं च एत्थ कम्मं चउविहं नवरं होई नायच्वं । नारयतिरियनरामरगइभेयविभागओभणि॥१९॥ आयुष्कं च अत्र कर्म चतुर्विधं नवरं भवति ज्ञातव्यम् । नारकतिर्यङ्नरामरगतिभेदविभागतो भणितम् ॥ १९ ॥
आयुष्कं च प्राडिरूपितशब्दार्थ अत्र प्रक्रमे क्रियत इति कर्म चतुर्विधं चतुःप्रकारं भवति ज्ञातव्यं । नवरमिति निपातः स्वगतानेकभेदप्रदर्शनार्थः । चातुर्विध्यमेवाह । नारकतिर्यरामरगतिभेदविभागतो गतिभेदविभागेन भणितमुक्तं तीर्थकरगणधरैः तद्यथा नारकायुकं तिर्यगायुष्कं मनुष्यायुष्कं देवायुष्कमिति ॥
नाम दुचतभेयं गइजाइसरीरअंगुवंगे य। . बंधणसंघायणसंघयणसंठाणनामं च ॥२०॥ नाम द्विचत्वारिंशत्भेदं गतिजातिशरीराङ्गोपाङ्गानि च । बन्धनसंघातनसंहननसंस्थाननाम च॥२०॥
नाम प्रागभिहितशब्दार्थ द्विचत्वारिंशत्प्रकारं । भेदानाह । गतिनाम यदुदयान्नरकादिगतिगमनं। जातिनाम यदुदयादेकेन्द्रियादिजात्युत्पत्तिः आह स्पर्शनादीन्द्रियावरणक्षयोपशमसद्भावादेकेन्द्रियादित्वं नाम चौदयिको भावः तत्कथमेतदिति उच्यते तदुपयोगादिहेतुः क्षयोपशम एकेन्द्रियादि संज्ञानिबन्धनं च नामेति न दोषः। शरीरनाम यदुदयादौदारिकादिशरीरभावः । अङ्गोपाङ्गनाम यदुदयादङ्गोपाङ्गनिवृत्तिः शिरःप्रभृतीन्यङ्गानि श्रोत्रादीन्यझोपाङ्गानि । उक्तं च
Page #27
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं। सीसमुरोदरपिट्टी दो बाहू ऊरुभयाय अटुंगा।
अंगुलिमाइ उवंगा अंगोवंगाई सेसाई ॥१॥ बन्धननाम यत्सर्वात्मप्रदेशैगृहीतानां गृह्यमाणानां च पुद्गलानां संबन्धजनकं अन्यशरीरपुद्गलैवा जतुकल्पमिति । संघातननाम यदुदयादौदारिकादिशरीरयोग्यपुद्गलग्रहणे शरीररचना भवति । संहनननाम वज्रऋषभनाराचादिसंहनननिमित्तं । संस्थाननाम समचतुरस्रादिसंस्थानकारणं । चः समुच्चय इति गाथार्थः॥ तह वन्नगंधरसफासनामगुरुंलहू य बोद्धव्वं । उवधायपराघायाणुपुबिऊसासनामं च ॥ २१ ॥ तथा वर्णगन्धरसस्पर्शनामागुरुलघु च बोद्धव्यम् । उपघातपराघातानुपूर्युच्छ्वासनाम च ॥ २१ ॥
तथा वर्णनाम यदुदयात्कृष्णादिवर्णनिवृत्तिः । एवं गन्धरसस्पर्शेष्वपि स्वभेदापेक्षया भावनीयमिति । अगुरुलघु च बोद्धव्यं अत्रानुस्वारदीर्घत्वेऽलाक्षणिके सुखोच्चारणार्थे तूपन्यस्ते तत्रागुरुलघुनाम यदुदयान्न गुरुर्नापि लघुर्भवति देह इति एकान्ततदभावे सदा निमज्जनोर्ध्वगमनप्रसंगः । उपघातनाम यदुदयादुपहन्यते । पराघातनाम यदुदयात्परानाहन्ति । आनुपूवीनाम यदुदयादपान्तरालगतौ नियतदेशमनुश्रेणिगमनं, नियत एवागविन्यास इत्यन्ये । उच्छासनाम यदुदयादुच्छ्वासनिःश्वासो भवतः आह यद्येवं पर्यातिनाम्नः कोपयोग इति उच्यते पर्याप्तिः करणशक्तिः उच्छासनामवत एव तन्निवृत्तौ सहकारिकारणं इषु१ एकान्ततद्भावे।
-
Page #28
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । क्षेपणशक्तिमतो धनुर्ग्रहणशक्तिवत् । एवमन्यत्रापि भिन्नविषयता सूक्ष्मधियावसेया। चः समुच्चये इति।
आयवउज्जोयविहायगई य तसथावराभिहाणं च। बायरसहुमं पज्जुतापज्जतं च नायचं ॥ २२ ॥ आतपोद्योतविहायोगति सस्थावराभिधानं च । बादरसूक्ष्मपयोप्सापयोप्तं च ज्ञातव्यं ॥ २२॥
आतपनाम यदुदयादातपवान्भवति पृथिवीकाये आदित्यमण्डलादिवत् । उद्योतनाम यदुदयादुद्योतवान्भवति खद्योतकादिवत् । विहायोगतिनाम यदुदयाचंक्रमणं इदं च द्विविधं प्रशस्ताप्रशस्तभेदात् प्रशस्तं हंसगजादीनां अप्रशस्तमुष्टादीनामिति । त्रसनाम यदुदयाच्चलनं स्पन्दनं च भवति त्रसत्वमेवान्ये । स्थावराभिधानं चेतिः स्थावरनाम यदुदयादस्पन्दनो भवति स्थावर एवान्ये । चः समुच्चये । बादरनाम यदुदयाद्वादरो भवति स्थूर इत्यर्थः इन्द्रियगम्य इत्यन्ये । सूक्ष्मनाम यदुदयात्सूक्ष्मो भवति अत्यन्तश्लक्ष्णः अतीन्द्रिय इत्यर्थः । पर्याप्तकनाम यदुदयादिन्द्रियादिनिष्पत्तिर्भवति । अपर्याप्तकनाम उक्तविपरीतं यदुदयासंपूर्णपर्याप्त्यनिवृत्तिने त्वाहारशरीरेन्द्रियपर्याप्त्यनिवृत्तिरपि यस्मादागामिभवायुष्कं बध्वा नियंते सर्व एव देहिनः तच्चाहारशरीरेन्द्रियपर्याप्त्या पर्याप्तानामेव बध्यत इति ।
पतेयं साहारण-थिरमथिरसुहासुहं च नायवं। सभगदूभगनामं सूसर तह दूसरं चेव ॥ २३ ॥
Page #29
--------------------------------------------------------------------------
________________
सटीकश्रावकज्ञप्त्याख्यप्रकरणं। १७ प्रत्येकं साधारणं स्थिरमस्थिरं शुभाशुभंच ज्ञातव्यम्। सुभगदुर्भगनाम सुस्वरं तथा दुःस्वरं चैव ॥ २३ ॥
प्रत्येकनाम यदुदयादेको जीव एकमेव शरीरं निवर्तयति । साधारणनाम यदुदयाद्बहवो जीवा एकं शरीरं निवर्तयति । स्थिरनाम यदुदयाच्छरीरावयवानां शिरोऽस्थिदन्तादीनां स्थिरता भवति । अस्थिरनाम यदुदयात्तदवयवानामेव चलता भवति कर्णजिह्वादीनां । शुभाशुभं च ज्ञातव्यं । तत्र शुभनाम यदुदयाच्छरीरावयवानां शुभता यथा शिरसः विपरीतमशुभनाम यथा पादयोस्तथा शिरसा स्पृष्टस्तुष्यति पादाहतस्तु रुष्यति, कामिनीव्यवहारे व्यभिचार इति चेत् न, तस्य मोहनीयनिबन्धनत्वात् वस्तुस्थिति श्चेह चिन्त्यत इति । सुभगनाम यदुदयात्काम्यो भवति । तद्विपरीतं च दुर्भगनामेति । सुस्वरनाम यदुदयात्सौस्वयं भवति श्रोतः प्रीतिहेतुः । तथा दुःस्वरं चैवेति सुस्वरनामोक्तविपरीतमिति ॥
आइज्जमणाइज्जं जसकित्तीनाममजसकिती य। निम्माणनाममउलं चरमं तित्थयरनामं च ॥२४॥ आदेयमनादेयं यश कीर्तिनाम अयशकीर्ति च। निर्माणनाम अतुलं चरमं तीर्थकरनाम च ॥ २४ ॥
आदेयनाम यदुदयादादेयो भवति यच्चेष्टते भाषते वा तत्सर्व लोकः प्रमाणीकरोति तद्विपरीतमनादेयं । यशाकीर्तिनाम यदुदयाद्यशःकीर्तिभावः यशाकीयोर्विशेषः दानपुण्यफला कीर्तिः
१ प्रमाणं करोति
Page #30
--------------------------------------------------------------------------
________________
१८ संटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। पराक्रमकृतं यशः । अयशकीर्तिनाम चोक्तविपरीतं । निर्माणनाम यदुदयात्सर्वजीवानां जातौ अङ्गोपाङ्गनिवेशो भवति जातिलिङ्गाकृतिव्यवस्थानियम इत्यन्ये अतुलं प्रधानं । चरमं प्रधानत्वात्सूत्रक्रमप्रामाण्याच्चेति तीर्थकरनाम यदुदयात्सदेवमनुष्यासुरस्य जगतः पूज्यो भवति । चः समुच्चये इति ॥
गोयं च दुविहभेयं उच्चागोयं तहेव नीयं च। चरमं च पंचभे पन्नतं वीयरागेहिं ॥२५॥ गोत्रं च द्विविधभेदमुच्चैर्गोत्रं तथैव नीचं च। चरमं च पञ्चभेदं प्रज्ञ२ वीतरागैः ॥ २५॥ गोत्रं प्राङ्गिरूपितशब्दार्थ भवति द्विविधं द्विप्रकारं उच्चैर्गोत्रं तथैव नीचं चेति नीचैर्गोत्रं च । तत्रोच्चैर्गोत्रं यदुदयादज्ञानी वि. रूपोऽपि सत्कुलमात्रादेव पूज्यते । नीचैर्गोत्रं तु यदुदयाज्ज्ञानादियुक्तोऽपि निंद्यते ॥ चरमं च पर्यन्तवर्ति च सूत्रक्रमप्रामाण्यात्पञ्चभेदं पञ्चप्रकारं प्रज्ञप्तं प्ररूपितं वीतरागैरर्हद्भिरिति ॥
तं दाणलाभभोगोवभोगविरियंतराइयं जाण। चितं पोग्गलरूवं विनेयं सब्वमेवेयं ॥२६॥ तहानलाभभोगोपभोगवीर्यान्तरायिक जानीहि । चित्रं पुद्गलरूपं विज्ञेयं सर्वमेवेदम् ॥ २६ ॥
तदानलाभभोगोपभोगवीर्यान्तरायं जानीहि । तत्र दानान्तरायं यदुदयात्सति दातव्ये प्रतिग्राहके च पात्रविशेषे दानफलं च जा
Page #31
--------------------------------------------------------------------------
________________
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
१९
नन्नोत्सहते दातुं । लाभान्तरायं तु यदुदयात्सत्यपि प्रसिद्धे दातरि तस्यापि लभ्यस्य भावे याञ्चाकुशलोऽपि न लभते । भोगान्तरायं तु यदुदयात्संति विभवे अन्तरेण विरतिपरिणामं न भुंक्ते भोगान् । एवमुपभोगान्तरायमपि । नवरं भोगोपभोगयोरेवं विशेषः सकृद्भुज्यत इति भोगः आहारमाल्यादिः पुनः पुनरुपभुज्यत इत्युपभोगः भवनवलयादिः । उक्तं च
सइ भुजइत्ति भोगो सो उण आहारफुल्लमाईसु । उवभोगो उ पुणो पुण उवभुजइ भुवणवलयाई ॥
वीर्यान्तरायं तु यदुदयान्निरुजो वयस्थश्चाल्पवीर्यो भवति । चित्रं पुंगलरूपं विज्ञेयं सर्वमेवेदं चित्रमनेकरूपं चित्रफलहेतुत्वात, पुद्गलरूपं परमाण्वात्मकं न वासनादिरूपममूर्त मिति, विज्ञेयं ज्ञातव्यं भिनालम्बनं पुनः क्रियाभिधानमदुष्टमेव, सर्वेदं ज्ञानावरणादि कर्मेति ॥
एयरस एगपरिणामसंचियस्स उठिई समरकाया । उक्को सेयरभेया तमहं वुच्छं समासेणं ॥ २७ ॥ एतस्यैकपरिणामसंचितस्य तु स्थितिः समाख्याता । उत्कृष्टेतरभेदात्तामहं वक्ष्ये समासेन ॥ २७ ॥
एतस्य चानन्तरोदितस्य कर्मणः एकपरिणामसंचितस्य तुराब्दस्य विशेषणार्थत्वात्प्रायः क्लिष्टैकपरिणामोपात्तस्येत्यर्थः स्थितिः समाख्याता सांसारिकाशुभफलदातृत्वेनावस्थानं उक्तमागम इति गम्यते । उत्कृष्टेतरभेदादुत्कृष्टा जघन्या च समाख्यातेति भावः
Page #32
--------------------------------------------------------------------------
________________
२० सटीकश्रावकमज्ञप्त्याख्यप्रकरणं। तां स्थितिमहं वक्ष्ये,ऽहमित्यात्मनिर्देशे, वक्ष्येऽभिधास्ये, समासेन संक्षेपेण न तूत्तरप्रकृतिभेदस्थितिप्रतिपादनप्रपञ्चेनेति ।
आइलाणं तिन्हं चरमस्स य तीस कोडिकोडीओ। अयराण मोहणिज्जस्स सतरी होइ विनेया ॥२४॥ आद्यानां त्रयाणां चरमस्य च त्रिंशत्कोटिकोट्यः । अतराणां मोहनीयस्य सप्ततिर्भवति विज्ञेया ॥२८॥
आद्यानां त्रयाणां ज्ञानावरणदर्शनावरणवेदनीयानां चरमस्य च सूत्रक्रमप्रामाण्यात्पर्यन्तवर्तिनोऽन्तरायस्येति त्रिंशत्सागरोपमकोटिकोट्यः अतराणामिति सागरोपमानां मोहनीयस्य सप्ततिर्भचति विज्ञेया सागरोपमकोटिकोट्य इति ॥
नामस्स य गोयस्स य वीसं उक्कोसिया ठिई भणिया। तितीससागराइं परमा आउस्स बोद्धब्बा ॥ २९ ॥ नाम्नः च गोत्रस्य च विंशतिरुत्कृष्टा स्थिति णिता । त्रयस्त्रिंशत्सागराणि परमा आयुषो बोद्धव्या ॥२९॥ नाम्नश्च गोत्रस्य च विंशतिः सागरोपमकोटिकोट्य इति गम्यते उत्कृष्टा स्थितिर्भणिता सर्वोत्तमा स्थितिः प्रतिपादिता तीर्थकरगशधरैरिति । त्रयस्त्रिंशत्सागरोपमानि परमा प्रधानायुःकर्मणो बोद्धव्येति ॥
अधुना जघन्यामाह।
Page #33
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। वेयणियस्स य बारस नामग्गोयाण अट्ठ उ मुहुता। सेसाण जहन्नठिई भिन्नमुहुतं विणिहिट्ठा ॥ ३० ॥ वेदनीयस्य च द्वादश नामगोत्रयोरष्ट मुहूर्ताः। शेषाणां जघन्या स्थितिभिन्नमुहूर्त विनिर्दिष्टा ॥ ३० ॥
वेदनीयस्य कर्मणो जघन्या स्थितिरिति योगः द्वादशमुहूर्ता नामगोत्रकर्मणोरष्टौ मुहूर्ता इत्थं मुहूर्तशब्दः प्रत्येकमभिसंबध्यते । द्विघटिको मुहूर्तः। शेषाणां ज्ञानावरणादीनां जघन्या स्थितिर्भिन्नमुहूर्त विनिर्दिष्टान्तर्मुहूर्त प्रतिपादितेति।प्रकृतयोजनायाह।
एवं ठिइयस्स जया घंसणघोलणनिमितओ कहवि । खविया कोडाकोडी सव्वा इकं पमुत्तूणं ॥३१॥ एवंस्थितिकस्य यदा घर्षणघूर्णननिमित्ततः कथमपि । क्षपिताः कोटिकोट्यः सर्वा एकां प्रमुच्य ॥३१॥ एवंस्थितेरस्य कर्मणः यदा यस्मिन्काले घर्षणघूर्णननिमित्ततो नानायोनिषु चित्रसुखदुःखानुभवनेनेत्यर्थः कथमपि केनचित्प्रकारेण क्षपिताः प्रलयं नीताः कोटिकोट्यः सर्वा ज्ञानावरणादिसंबन्धिन्यः एकां विमुच्य विहायेति ।
तीइ वि य थोवमिते खविए इत्थंतरम्मि जीवस्स । हवइ हु अभिन्नपुच्चो गंठी एवं जिणा बिन्ति ॥३२॥ तस्या अपिच स्तोकमाने क्षपितेऽत्रान्तरे जीवस्य। भवति हु अभिन्नपूर्वो ग्रन्थिरेवं जिना ब्रुवते ॥ ३२ ॥
Page #34
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
तस्या अपि च सागरोपमकोटिकोव्याः स्तोकमात्रे पल्योपमासड्वयेयभागे क्षपितेऽपनीते अत्रान्तरे ऽस्मिन्भागे जीवस्यात्मनः भवति अभिन्नपूर्वो हुशब्दस्यावधारणार्थत्वाद्व्यवहितोपन्यासाच्चाभिन्नपूर्व एव ग्रन्थिरिव ग्रन्थिदुःखेनोद्वेष्टयमानत्वादेवं जिना ब्रुवत एवं तीर्थकराः प्रतिपादयन्तीति । उक्तं च तत्समयज्ञैः ।
गहित्ति सुदुम्भेउ करकडघणरूढगूढगंढिव्व ।
जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो ॥१॥ इति॥ भिन्नंमि तंमि लाभो जायइ परमपयहेउणो नियमा। सम्मतस्स पुणो तं बंधेण न बोलइ कयाइ ॥३३॥ भिन्ने तस्मिन् लाभो जायते परमपदहेतोनियमात् । सम्यक्त्वस्य पुनस्तं बन्धेन न व्यवलीयते कदाचित्३३॥
भिन्नेऽपूर्वकरणेन विदारिते तस्मिन् ग्रन्थावात्मनि लाभः प्रा. तिर्जायते संपद्यते परमपदहेतोर्मोक्षकारणस्य नियमान्नियमेनावश्यंभावतयेत्यर्थः कस्य सम्यक्त्वस्य वक्ष्यमाणस्वरूपस्य । पुनस्तं ग्र थिमवाप्तसम्यग्दर्शनः सन् बन्धेन कर्मबन्धेन न व्यवलीयते नातिकामयति कदाचित्कस्मिंश्चित्काले न ह्यसावुत्कृष्टस्थितीनि कमाणि बध्नाति तथाविधपरिणामाभावादिति ॥ अत्राह नं जाविह संपत्ती न जुज्जए तस्स निग्गुणतणओ। बहुतरबंधाओ खलु सुतविरोहा जओ भयिणं॥३४॥
Page #35
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। २३ तं यावदिह संप्राप्तिन युज्यते तस्य निर्गुणत्वात् । बहुतरबन्धात्खलु सूत्रविरोधात् यतो भणितम्॥३४॥ तं ग्रन्थिं यावदिह विचारे संप्राप्तिर्न युज्यते न घटते । कुतस्तस्य निर्गुणत्वात्तस्य जीवस्य सम्यग्दर्शनादिगुणरहितत्वात् । निर्गुणस्य च बहुतरबन्धात् खलुशब्दोऽवधारणे बहुतरबन्धादेव ।इत्थं चैतदङ्गीकर्तव्यं । सूत्रविरोधादन्यथा सूत्रविरोध इत्यर्थः कथमिति। आह । यतो भणितं यस्मादुक्तमिति । किमुक्तमिति । आह
पल्ले महइमहल्ले कुंभं पक्खिवइ सोहए नालिं। अस्संजए अविरए बहु बंधइ निजरे थोवं ॥३५॥ पल्लेऽतिशयमहति कुम्भं प्रक्षिपति सोधयति नालिम् । असंयतोऽविरतो बहु बन्नाति निरयति स्तोकं ॥३॥
पल्लवत्पल्यस्तस्मिन् पल्ये महति महल्ले अतिशयमहति कुम्भं लाटदेशप्रसिद्धमानरूपं धान्यस्येति गम्यते प्रक्षिपति स्थापयति सोधयति नालिं गृह्णाति सेतिकाम् । एष दृष्टान्तो ऽयमर्थोपनयः । यो ऽसंयतः सकलसम्यक्त्वादिगुणस्थानेष्वसंयतत्वान्मिथ्यादृष्टिः परिगृह्यते अविरतः काकमांसादेरप्यनिवृत्तो बहु बध्नाति निर्जरयति स्तोकं स्तोकतरं क्षपयति निर्गुणत्वात् । गुणनिबन्धना हि विशिष्टनिर्जरेति ॥
पल्ले महइमहल्ले कुंभ सोहेइ पक्खिवे नालिं ॥ जे संजए पमते बहु निजरे बंधए थोवं ॥ ३६॥
Page #36
--------------------------------------------------------------------------
________________
२४ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। पल्लेऽतिशयमहति कुम्भ सोधयति प्रक्षिपति नालिम् । यः संयतः प्रमत्तो बहु निर्जरयति बध्नाति स्तोकम्॥३६॥ पले अतिशयमहति कुम्भं सोधयति प्रक्षिपति नालिं । एष दृष्टान्तो ऽयमर्थोपनयः । यः संयतः सम्यग्दृष्टिरीषत्प्रमादवान् प्रमत्तसंयत एव नान्ये बहु निर्जरयति बध्नाति स्तोकं सगुणत्वादिति ॥
पल्ले महइमहल्ले कुंभं सोहेइ पक्खिवह न किंचि ॥ जे संजए अपमते बहु निजर बंधइ न किंचि॥३७॥ पल्लेऽतिशयमहति कुम्भं सोधयति प्रक्षिपति न किंचितू यः संयतोऽप्रमत्तो बहु निर्जरयतिबध्नाति न किंचित्३७
पल्ले ऽतिशयमहति कुम्भं सोधयति प्रक्षिपति न किंचित् । एष दृष्टान्तो ऽयमर्थोपनयः । यः संयतो ऽप्रमत्तः प्रमादरहितःसाधुरित्यर्थः बहु निर्जरयति बध्नाति न किंचिद्विशिष्टतरगुणत्वात् बन्धकारणाभावादिति । गुरुराह ॥ एयमिह ओहविसयं भणियं सच्चे न एवमेवंति ॥ अस्संजओ उ एवं पडुच्च ओसन्नभावं तु ॥ ३ ॥ एतदिह ओघविषयं भणितं सर्वे न एवमेवेति । असंयतस्त्वेवं प्रतीत्य ओसन्नभावं तु ॥ ३८ ॥ एतदिति पल्ले महइमहल्ले इत्यादि इहास्मिन्विचारे ओघविषयं सामान्यविषयं भणितमुक्तं । सर्वे न एवमेवेति सर्वे नैवमेव बन
Page #37
--------------------------------------------------------------------------
________________
सटीकश्रावकमज्ञप्त्याख्यप्रकरणं। २५ न्ति । अस्यैव विषयमुपदर्शयति । असंयतस्त्वेवं मिथ्यादृष्टिरेव एवं बध्नाति नान्य इति । असावपि प्रतीत्याङ्गीकृत्य ओसन्नभावं बाहुल्यभावं तुरवधारणे ओसन्नभावमेव न तु नियममिति । नियमे दोषमाह ॥
पावइ बंधाभावो उ अन्नहा पोग्गलाणभावाओ। इय वुद्धिगहणओ ते सधे जीवेहि जुजंति ॥ ३९ ॥ प्राप्नोति बन्धाभावस्तु अन्यथा पुद्गलानामभावात् । इति वृद्धिग्रहणतः ते सर्वे जीवैयुज्यन्ते ॥ ३९ ॥
प्राप्नोति आपद्यते बन्धाभावस्तु बन्धाभाव एवान्यथान्येन प्रकारेण सर्वे असंयता एवं बनन्तीत्येवंलक्षणेन । किमित्यत्रोपपत्तिमाह । पुद्गलानामभावाद्वध्यमानानां कर्मपुद्गलानामसंभवात् । तेषामेवाभावे उपपत्तिमाह । इति वृद्धिग्रहणतः एवमनन्तगुणरूपतया वृद्धिग्रहणेन ते कर्मपुद्गलाः सर्वे जीवैयुज्यन्ते कालान्तरेण सर्वे जीवैः संबध्यन्ते प्रभूततरग्रहणादल्पतरमोक्षाच्च । सहस्रमिव प्रतिदिवसं पञ्चरूपकग्रहणे एकरूपकमोक्षे च दिवसत्रयान्तः पुरुषशतेनेति । आह चोदकः
मोक्खो ऽसंखिजाओ कालोआ ते अजिएहितो॥ भणिया णंतगुणा खलुन एस दोसो तओ जुतो॥४०॥ मोक्षोऽसङ्खयेयात्कालात् ते च अतो जीवेभ्यः। भणिता अनन्तगुणाः खलु नैष दोषः ततो युक्तः॥४०॥
Page #38
--------------------------------------------------------------------------
________________
२६
सटीकश्रावकप्रज्ञघ्याख्यप्रकरणं ।
मोक्षः परित्यागः असङ्घयेयात्कालादसङ्घयेयेन कालेन उत्कृतस्तेषां कर्मपुद्गलानां । तत ऊर्ध्वं कर्मस्थितेः प्रतिषिद्धत्वात् । ते चकर्माणवः यतो यस्माज्जीवेभ्यः सर्वेभ्य एव भणिताः प्रतिपादिता अनन्तगुणाः खलुशब्दस्यावधारणार्थत्वादनन्तगुणा एव । नैष दोषो ऽनन्तरोदितो बन्धाभावप्राप्तिकाललक्षणः ततो युक्तो बहुतरबन्धः प्रभूततरग्रहणेऽल्पतरमोक्षे च सत्यपि तेषामनन्तत्वात् स्तोककालाच्च मोक्षादिति । न हि शीर्षप्रहेलिकान्तस्य राशेः प्रतिदिवसं पञ्चरूपकग्रहणे एकरूपकमोक्षे च सति वर्षशतेनापि पुरुषशतेन योगो भवति प्रभूतत्वात् । एवं दाष्टन्ति के भावनीयमिति । इत्थं चोदकेनोक्ते सति गुरुराह ।
गहणमणताण न किंजायइ समएण ता कहमदोसो ॥ आगम संसाराओ न तहा जंताण गहणं तु ॥ ४१ ॥ ग्रहणमनन्तानां न किं जायते समयेन तत्कथमदोषः । आगमसंसारान्न तथानन्तानां ग्रहणं तु ॥ ४१ ॥
1
ग्रहणं कर्मपुद्गलानामादानमनन्तानामत्यन्तप्रभूतानां न किमिति गाथाभङ्गभयाद्व्यत्ययः किं न जायते समयेन, जायत एवेत्यर्थः, समयः परमनिकृष्टः काल उच्यते । यतश्चैवं तत्कथमदोषो दोष एव शीर्षप्रहेलिकान्तस्यापि राशेः प्रतिदिवसं शतभागमात्र महाराशिग्रहणेऽल्पतरमोक्षे च वर्षशतादारत एव पुरुषशतेन योगोपपत्ते, एवं दार्शन्तिकेऽपि भावना कार्या । स्यादेतदागम संसारान्न
Page #39
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। २७ तथानन्तानां ग्रहणं तु । आगमस्तावत् “जावणं अयं जीवे एयइ वेयइ चलइ फंदइ तावणं अठविहबन्ध एवा सत्तविहबंध एवा छबिहबंध एवा एगविहबंध एवा"इत्यादि संसारस्तु प्रतिसमयबन्धकसत्वसंसृतिरूपः प्रतीत एव । एवमागमात्संसाराच्च न तथानन्तानां ग्रहणमेव भवति यथा बध्यमानकर्मपुद्गलाभावाद्वन्धाभाव एवेति । एवं पराभिप्रायमाशङ्कयाह ।
आगम मुक्खाउ ण किं विसेसविसयतणेण सुतस्स । तं जाविह संपत्ती न घडइ तम्हा अदोसो उ॥४२॥ आगममोक्षान्न किं विशेषविषयत्वेन सूत्रस्य । . तं यावदिह संप्राप्तिने घटते तस्माद्दोषस्तु ॥४२॥
आगममोक्षात्किं न विशेषविषयत्वेन सूत्रस्य पल्ले इत्यादिलक्षणस्य ( ३५-३७ ) तं ग्रन्थिं यावदिह विचारे संप्राप्तिनं घटते । द्वौ प्रतिषेधौ प्रकृतमर्थ गमयत इति कृत्वा घटत एव । तस्माददोषस्तु यस्मादेवं तस्मादेष दोष एव न भवति य उक्तस्तं यावदिह संप्राप्तिन युज्यते (३४) इत्यादि। तत्रागमस्तावत् “सम्मत्तंमि उ लद्धे" इत्यादि । मोक्षस्तु प्रकृष्टगुणानुष्ठानपूर्वकः प्रसिद्ध एव । अतो यथोक्तविशेषविषयमेव तत्सूत्रमिति इत्थं चैतदङ्गीकतव्यं । अन्यथा तदधिकारोक्तमेव “परिकवे न किंचि"(३७)इत्येतद्विरुध्यते । अप्रमत्तसंयतस्यापि बन्धकत्वात् । यथोक्तं .
“अपमत्तसंजयाणं बंधहिती होइ अहमुहुत्ता । १ प्रतिसमयबन्धकर्मत्वसंसृतिरूपः .
Page #40
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञस्याख्यप्रकरणं। उक्कोसा उ जहन्ना भिन्नमुहुत्तं नु विनेया ॥१॥" इत्यादि तस्मादोघविषयमेवैतदिति ॥ अवसितमानुषङ्गिकम् । अधुना प्रकृतं सम्यक्त्वमाह संमतं पि य तिविहं खओवसमियं तहोवसमियं च ॥ खइयं च कारगाइ व पन्नतं वीयरागेहिं ॥ ४३॥ सम्यक्त्वमपिच त्रिविधं क्षायोपशमिकं तथौपशमिकम् क्षायिकं च कारकादि वा प्रज्ञप्तं वीतरागैः ॥४३॥
सम्यक्शब्दः प्रशंसार्थः अविरोधार्थों वा तद्भावः सम्यक्त्वं प्रशस्तः मोक्षाविरोधी वात्मधर्म इत्यर्थः । अपि तत्रिविधं एतच्चोपाधिभेदानिप्रकारं । अपिशब्दाच्छ्रावकधर्मस्य प्रकृतत्वात्तच्चारित्रमप्योघतोऽणुव्रतगुणवतशिक्षापदभेदात्रिविधमेव । चशब्दः स्वगतानेकभेदसमुच्चयार्थः । उक्तं च । “तं च पंचहा सम्मत्तं उवसमंसासायणं खओवसमं वेदयं खइयं"। त्रैविध्यमुपदर्शयति क्षायोपशमिकं तथौपशमिकं क्षायिकं च । कारकादि वा कारकं आदिशब्दाद्रोचकव्यञ्जकपरिग्रहः । एतच्च वक्ष्यत्येवेति न प्रतन्यते । इदं च प्रज्ञप्तं प्ररूपितं वीतरागैरहद्भिरिति ॥ सांप्रतं क्षायोपशमिकं सम्यक्त्वमभिधित्सुराह ॥ मिच्छतं जसुदिनं तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं वेयिजंतं खओवसमं ॥४४॥ मिथ्यात्वं यदुदीर्ण तत्क्षीणं अनुदितं चोपशान्तम् । मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकम् ॥४४॥
Page #41
--------------------------------------------------------------------------
________________
२९
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। मिथ्यात्वं नाम मिथ्यात्वमोहनीयं कर्म । तत् यदुदीर्ण यदुद्भूतशक्ति उदयावलिकायां व्यवस्थितमित्यर्थः तत्क्षीणं प्रलयमुपगतं अनुदितं च अनुदीर्ण चोपशान्तं । उपशान्तं नाम विष्कम्भितोदयमपनीतमिथ्यात्वस्वभावं च विष्कम्भितोदयं शेषमिथ्यात्वमपनीतमिथ्यात्वस्वभावं मदनकोद्रवोदाहरणत्रिपुञ्जिन्यायशोधितं सम्यक्त्वमेव ॥ आहेह विष्कम्भितोदयस्य मिथ्यात्वस्यानुदीर्णता युक्ता, न पुनः सम्यक्त्वस्य, विपाकेन वेदनात् । उच्यते । सत्यमेतत्, किं त्वपनीतमिथ्यात्वस्वभावत्वात्स्वरूपेणानुदयात्तस्याप्यनुदीर्णोपचार इति ॥ यद्वानुदीर्णत्वं मिथ्यात्वस्यैव युज्यते न तु सम्यक्त्वस्य । कथं । मिथ्यात्वं यदुदीर्ण तत् क्षीणं अनुदीर्णमुपशान्तं चेति । चशब्दस्य व्यवहितप्रयोगः। ततश्चानुदीर्ण मिथ्यात्वमुपशान्तं च सम्यक्त्वं परिगृह्यते । भावार्थः पूर्ववत् ॥ तदेवं मिश्रीभावपरिणतं क्षयोपशमस्वभावमापन्नं वेद्यमानमनुभूयमानं मिथ्यात्वं प्रदेशानुभवेन सम्यक्त्वं विपाकेन क्षयोपशमाभ्यां निवृत्तमिति कृत्वा क्षायोपशमिकं सम्यक्त्वमुच्यते । आहेदं सम्यक्त्वमौदयिको भावः मोहनीयोदयभेदत्वात् अतोऽयुक्तमस्य क्षायोपशमिकत्वं, न अभिप्रायापरिज्ञानात्सम्यक्त्वं हि सांसिद्धिकमात्मपरिणामरूपं ज्ञानवत् न तुक्रोधादिवत् कर्माणुसंपर्कजंतथाहि तावति मिथ्यात्वधनपटले क्षीणे तथानुभवतोऽपि स्वच्छाभ्र ल्पान् सम्यक्त्वपरमाणून् तथाविधसवितृप्रकाशवत् सहज एवासौ तत्परिणाम इति क्षायोपशमनिष्पन्नश्चायं तमन्तरेणाभावात् न
Page #42
--------------------------------------------------------------------------
________________
३०
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। . घुदीर्णक्षयादनुदीर्णोपशमव्यतिरेकेणास्य भावः क्रोधादिपरिणामः पुनरुपधानसामर्थ्यापादितस्फटिकमणिरक्ततावदसहज इति । आह यदि परिणामः सम्यक्त्वं ततो मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकमित्येतद्विरुध्यते मोहनीयभेदयोरेव मिश्रीभावपरिणतयोर्वेद्यमानत्वात्, न विरुध्यते तथाविधपरिणामहेतुत्वेन तयोरेव सम्यक्त्वोपचारात् । कृतं विस्तरेणेति । क्षायोपशमिकानन्तरमौपशमिकमाह । उवसमगसेढिगयस्स होइ उवसामियं तु सम्मतं ।
जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्म४५ उपशमकश्रेणिगतस्य भवत्यौपशमिकं तु सम्यक्त्वम् । यो वा अकृतत्रिपुञ्जोऽक्षपितमिथ्यात्वोलभते सम्यक्त्वम्
उपशमकश्रेणिगतस्य औपशमिकी श्रेणिमनुप्रविष्टस्य भवत्यौपशमिकमेव सम्यक्त्वं तुरवधारणे अनन्तानुबन्धिनां दर्शनमोहनीयस्य चोपशमेन निवृत्तमिति कृत्वा औपशमिकं । यो वा अकृतत्रिपुञ्जस्तथाविधपरिणामोपेतत्वात्सम्यमिथ्यात्वोभयानिवर्तितत्रिपुञ्ज एव अक्षपितमिथ्यात्वो ऽक्षीणमिथ्यात्वदर्शनः क्षायिकव्यवच्छेदार्थमेतत् लभते प्राप्नोति सम्यक्त्वं तदप्यौपशमिकमेवेति । अमुमेवार्थ स्पष्टयन्नाह ।
खीणमि उइन्नंमि अ अणुइजते अ सेसमिच्छते॥ अंतोमुत्तमितं उवसमसम्मं लहइ जीवो॥४६॥
Page #43
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। ३१ क्षीणे उदीर्णे ऽनुदीर्यमाणे च शेषमिथ्यात्वे । अन्तर्मुहूर्तमानं औपशमिकं सम्यक्त्वं लभते जीव:४६
क्षीण एवोदीर्णे अनुभवेनैव भुक्त इत्यर्थः अनुदीर्यमाणे च मन्दपरिणामतया उदयमगच्छति सति कस्मिन् शेषमिथ्यात्वे विकम्भितोदय इत्यर्थः अन्तर्मुहूर्तमानं कालं तत ऊर्ध्व नियामकाभावेन नियमेन मिथ्यात्वप्राप्तेरेतावन्तमेव कालमिति कि औपशमिकं सम्यक्त्वं लभते जीव इति ॥
इदमेव दृष्टान्तेन स्पष्टतरमभिधित्सुराह ।। असरदेसं दडिल्लयं व विज्झाइ वणदवो पप्प ॥
इय मिच्छस्साणदए उवसमसम्म लहइ जीवो॥४७॥ ऊपरदेशं दग्धं वा विध्यायति वनवः प्राप्य । इय मिथ्यात्वस्यानुदये औपशमिकं सम्यक्त्वं लभते जीव: ___ ऊपरदेशं ऊषरविभागं ऊपरं नाम यत्र तृणादेरसंभवः दग्धं वा पूर्वमेवाग्निना विध्यायति वनदवो दावानलः प्राप्य । कुतस्तत्र दाह्याभावात् । एष दृष्टान्तोऽयमर्थोपनयः । इय एवं तथाविधपरिणामान्मिथ्यात्वस्यानुदये सति औपशमिकं सम्यक्त्वं लभते जोव इति । वनदवकल्पं ह्यत्र मिथ्यात्वं ऊषरादिदेशस्थानीयं तथाविधपरिणामकण्डकमिति ॥ आह क्षायोपशमिकादस्य को विशेष इति । उच्यते । तत्रोपशान्तस्यापि मिथ्यात्वस्य प्रदेशानुभवोऽस्ति न त्वौपशमिके । अन्ये तु व्याचक्षते । श्रेणिमध्यवर्तिन्येवौपशमि
Page #44
--------------------------------------------------------------------------
________________
३२
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
के प्रदेशानुभवो नास्ति न तु द्वितीये तथापि तत्र सम्यक्त्वाण्वनुभवाभाव एव विशेष इति ।
औपशमिकानन्तरं क्षायिकमाह ॥ खीणे दंसणमोहे तिविहंमि वि भवनियाणभूयंमि । निप्पञ्चवायमउलं सम्मतं खाइयं होइ ॥ ४ ॥ क्षीणे दर्शनमोहनीये त्रिविधेऽपि भवनिदानभूते । निःप्रत्यपायमतुलं सम्यक्त्वं क्षायिकं भवति ॥४८॥
क्षपकश्रेणिमनुप्रविष्टस्य सतः क्षीणे दर्शनमोहनीये एकान्तेनैव प्रलयमुपगते त्रिविधेऽपि मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वभेदभिने किं विशिष्टे भवनिदानभूते भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः संसारस्तत्कारणभूते निःप्रत्यपायं अतिचारापायरहितं अतुलमनन्यसदृशं आसन्नतया मोक्षकारणत्वात् सम्यक्त्वं प्राभिरूपितशब्दार्थ क्षायिकं भवति मिथ्यात्वक्षयनिबन्धनत्वात् इति। क्षायिकानन्तरं कारकाद्याह ॥ जं जह भणियं तं तह करेइ सइ जंमि कारगं तं तु । रोयगसम्मतं पुण रुइमितकरं मुणेयच्वं ॥४९॥ यद्यथा भणितं तत्तथा करोति सति यस्मिन् कारकंतत्तु। रोचकसम्यक्त्वं पुनः रुचिमात्रकरं मुणितव्यं ॥४९॥ यद्यथा भणितं सूत्रेऽनुष्ठानं तत्तथा करोति सति यस्मिन्सम्यग्दर्शने परमशुद्धिरूपे कारकं तत्तु । कारयतीति कारकं ॥ रो१ निर्कर्तनत्वा निर्कर्त्तत्वात् ।
Page #45
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं। चकसम्यक्त्वं पुनः रुचिमात्रकरं मुणितव्यं विहितानुष्ठाने तथाविधशुद्ध्यभावात्, रोचयतीति रोचकं ॥
सयमिह मिच्छद्दिट्ठी धम्मकहाईहि दीवइ परस्स।
सम्मतमिणं दीवग कारणफलभावओ नेयं ॥ ५० ॥ [स्वयमिह मिथ्यादृष्टिः धर्मकथादिभिर्दीपयति परस्य ।
सम्यक्त्वमिदं दीपकं कारणफलभावतो ज्ञेयं ॥५०॥] स्वयमिह मिथ्यादृष्टिरभव्यो भव्यो वा कश्चिदङ्गारमर्दकवत् । अथ च धर्मकथादिभिर्धर्मकथया मातृस्थानानुष्ठानेनातिशयेन वा केनचिद्दीपयतीति प्रकाशयति परस्य श्रोतुः सम्यक्त्वमिदं व्यञ्जकं । आह मिथ्यादृष्टेः सम्यक्त्वमिति विरोधः सत्यं किन्तु कारणफलभावतो ज्ञेयं तस्य हि मिथ्यादृष्टेरपि यः परिणामः स खलु प्रतिपत्तसम्यक्त्वस्य कारणभावं प्रतिपद्यते तद्भावभावित्वात्तस्य, अतः कारणे एव कार्योपचारात्सम्यक्त्वाविरोधः यथायुघृतमिति ॥
समस्तस्यैव भावार्थमुपदर्शयति ॥ तविहखओवसमओ तेसिमणूणं अभावओ चेव ।
एवं विचितरूवं सनिबंधणमो मुणेयच्चं ॥ ५१॥ [तद्विधक्षयोपशमतस्तेषामणूनां अभावतश्चैव।
एवं विचित्ररूपं सनिबन्धनमेव मुणितव्यं ॥५१॥] तद्विधक्षयोपशमतस्तेषामणूनां मिथ्यात्वाणूनामित्यर्थः अभावतश्चैव तेषामेवेति वर्तते एवं विचित्ररूपं क्षायोपशमिकादिभेदेनेति
Page #46
--------------------------------------------------------------------------
________________
३४
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
भावः । सनिबन्धनमेव सकारणं मुणितव्यं । तथाहि त एव मिथ्यात्व परमाणवस्तथाविधात्मपरिणामेन क्वचित्तथा शुद्धिमापद्यंते यथा क्षायोपशमिकं सम्यक्त्वं भवति तत्रापि कचित्सातिचारं कालापेक्षया क्वचिन्निरतिचारं, अपरे तथा यथौपशमिकं, क्षयादेव क्षायिकमिति ॥
अपरेऽप्यस्य भेदाः संभवन्तीति कृत्वा तानपि सूचयन्नाह ॥ किं चेहुवाहिभेया दसहावीमं परूवियं समए । ओहेण तपिमेसि भेयाणमभिन्नरूवं तु ॥ ५२ ॥ [ किं चेहोपाधिभेदात् दशधापीदं प्ररूपितं समये । ओघेन तदपि अमीषां भेदानामभिन्नरूपं तु ॥ ५२ ॥ ] किं चेहोपाधिभेदादाज्ञादिविशेषणभेदादित्यर्थः दशधापीदं द शप्रकारमप्येतत्सम्यक्त्वं प्ररूपितं समये आगमे । यथोक्तं प्रज्ञापनायां
निसंग्गुवएस रुई आणरुई सुत्तवीयरुइमेव । अभिगमवित्थाररुई किरियासंखेवधम्मरुई ॥ १ ॥
आह तदेवेह कस्मान्नोक्तमिति उच्यते ओघेन सामान्येन तदपि दशप्रकारममीषां भेदानां क्षायोपशमिकादीनामभिन्नरूपमेव एतेषामेव केनचिद्भेदेन भेदात् । संक्षेपारम्भश्चायं अतो न तेषामभिधानमिति ॥
इदं च सम्यक्त्वमात्मपरिणामरूपत्वाच्छद्मस्थेन दुर्लक्ष्यमि - ति लक्षणमाह ।
Page #47
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। ३५ तं उवसमसंवेगाइएहि लक्खिज्जई उवाएहि ।
आयपरिणामरूवं बज्झेहिं पसत्थजोगेहिं ॥ ५३॥ [तदुपशमसंवेगादिकैलक्ष्यते उपायैः।।
आत्मपरिणामरूपं बाद्यैः प्रशस्तयोगैः ॥ ५३॥]
तत्सम्यक्त्वमुपशमसंवेगादिभिरिति उपशान्तिरुपशमः संवेगो मोक्षाभिलाषः आदिशब्दान्निर्वेदानुकम्पास्तिक्यपरिग्रहः लक्ष्यते चियते एभिरुपशमादिभिर्बाःिप्रशस्तयोगैरिति संबन्धः बाह्यवस्तुविषयत्वाद्वाह्याः प्रशस्तयोगाः शोभनव्यापारास्तैः किं विशिष्टं तत्सम्यक्त्वं आत्मपरिणामरूपं जीवधर्मरूपमिति ॥ तथा चाह...
इत्थ य परिणामःखलु जीवस्स सुहो उ होइ विनेओ। किं मलकलंकमुकं कणगं भुवि सामलं होइ ॥ ५४॥ [अत्र च परिणामः खलु जीवस्य शुभ एव भवति विज्ञेयः । किंमलकलङ्कमुक्तं कनकं भुविध्यामलं भवति॥५४॥]
अत्र च सम्यक्त्वे सति किं, परिणामोऽध्यवसायः खलुशब्दो ऽवधारणार्थः जीवस्य शुभ एव भवति विज्ञेयो न त्वशुभः अथवा किमत्र चित्रमिति । प्रतिवस्तूपमामाह । किं मलकलङ्करहितं कनक भुवि ध्यामलं भवति न भवतीत्यर्थः । एवमत्रापि मलकलंकस्थानीयं प्रभूतं क्लिष्टं कर्म ध्यामलत्वतुल्यस्त्वशुभपरिणामः स प्रभूते क्लिष्ट कर्मणि क्षीणे जीवस्य न भवति ॥ .. प्रशमादीनामेव बाह्ययोगत्वमुपदर्शयन्नाह। .. १ जामलं,
Page #48
--------------------------------------------------------------------------
________________
३६ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । पयईइ व कंमाणं वियाणि वा विवागमसुहं ति ।
अवरद्धे वि न कुप्पइ उवसमओ सबकालं पि ॥५५॥ [प्रकृत्या वा कर्मणां विज्ञाय वा विपाकमशुभमिति।
अपराद्ध्येऽपि न कुप्यति उपशमतःसर्वकालमपि॥५॥] ' प्रकृत्या वा सम्यक्त्वाणुवेदकजीवस्वभावेन वा कर्मणां कषायनिबन्धनानां विज्ञाय वा विपाकमशुभमिति । तथाहि कषायाविष्टोऽन्तमुहूर्तेन यत्कर्म बध्नाति तदनेकाभिःसागरोपमकोटाकोटिभिरपि दुःखेन वेदयतीत्यशुभो विपाकः । एतत् ज्ञात्वा किं । अपराद्ध्येऽपि न कुप्यति अपराध्यत इति अपराद्धयः प्रतिकूलकारी तस्मिन्नपि कोपं न गच्छत्युपशमतः उपश कालमपि यावत्सम्यक्त्वपरिणाम इति ॥ तथा
नरविबुहेसरसुक्खं दुक्खं चिय भावओ य मन्नतो।
संवेगओ न मुक्खं मुतूणं किंचि पत्थेइ ॥५६॥ [नरविबुधेश्वरसौख्यं दुःखमेव भावतः च मन्यमानः । संवेगतः न मोक्षं मुक्त्वा किंचित् प्रार्थयते ॥५६॥]
नरविबुधेश्वरसौख्यं चक्रवर्तीन्द्रसौख्यमित्यर्थः अस्वाभाविकत्वात् कर्मजनितत्वात्सावसानत्वाच्च दुःखमेव भावतः परमार्थतो मन्यमानः संवेगतः संवेगेन हेतुना न मोक्षं स्वाभाविकजीवरूपमकर्मजमपर्यवसानं मुक्त्वा किंचित्प्रार्थयतेऽभिलषतीति ।
Page #49
--------------------------------------------------------------------------
________________
सटीकभावकप्रज्ञप्त्याख्यप्रकरणं। नारयतिरियनरामरभवेसु निव्वेयओ वसइ दुक्खं ।
अकयपरलोयमग्गो ममतविसवेगरहिओ वि॥५७॥ [नारकतिर्यङरामरभवेषु निर्वेदतो वसति दुःखम् ।
अकृतपरलोकमार्गः ममत्वविषवेगरहितोऽपि ॥१७॥] नारकतिर्यगरामरभवेषु सर्वेष्वेव निर्वेदतो निदेन कारणेन वसति दुःखं । किंविशिष्टः सन् अकृतपरलोकमार्गः अकृतसदनुष्ठान इत्यर्थः । अयं हि जीवलोके परलोकानुष्ठानमन्तरेण सर्वमेवासारं मन्यते इति । ममत्वविषवेगरहितोऽपि तथा ह्ययं प्रकृत्या निर्ममत्व एव भवति विदिततत्त्वत्वादिति । तथा दहण पाणिनिवहं भीमे भवसागरंमि दुखतं ।
अविसेसओ णुकंपं दुहावि सामत्थओ कुणइ ॥५॥ [ दृष्ट्वा प्राणिनिवहं भीमे भवसागरे दुःखात ।
अविशेषतः अनुकम्पां द्विधापि सामर्थ्यतःकरोति५८ ] दृष्ट्वा प्राणिनिवहं जीवसंघातं व भीमे भयानके भवसागरे संसारसमुद्रे दुःखात शारीरमानसैदुःखैरभिभूतमित्यर्थः अविशेषतः सामान्येनात्मीयेतरविचाराभावेनेत्यर्थः । अनुकम्पा दयां द्विधापि द्रव्यतो भावतश्च द्रव्यतः प्राशुकपिण्डादिदानेन भावतो मार्गयोजनया सामर्थ्यतः स्वशक्त्यनुरूपं करोतीति ॥
मन्नइ तमेव सच्चं निस्संकं जं जिणेहि पन्नतं । सुहपरिणामो सल्वं कंस्काइविसुत्तियारहिओ ॥५९॥
Page #50
--------------------------------------------------------------------------
________________
३८
सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं ।
[ मन्यते तदेव सत्यं निःशङ्कं यज्जिनैः प्रज्ञप्तं । शुभ परिणामः सर्व कांक्षादिविश्रोतसिकारहित: ५९ ] मन्यते प्रतिपद्यते तदेव सत्यं निःशङ्कं शङ्कारहितं यज्जिनैः प्रज्ञप्तं यत्तीर्थकरैः प्रतिपादितं शुभपरिणामः सन् साकल्येनानन्तरोदितसमस्तगुणान्वितः । सर्व समस्तं मन्यते न तु किंचिन्मन्यते किंचिन्नेति भगवत्यविश्वासायोगात् । पुनरपि स एव विशिष्यते । किंविशिष्टः सन् । कांक्षादिविश्रोतसिकारहितः कांक्षा अन्योन्यदर्शनग्राह इत्युच्यते आदिशब्दाद्विचिकित्सापरिग्रहः विश्रोत - सिका तु संयमशस्यमङ्गीकृत्याध्यवसाय सलिलस्य विश्रोतो गमनमिति, उपसंहरन्नाह ॥
एवंविह परिणाम सम्मद्दिठ्ठी जिणेहिं पन्नत्तो । एसो य भवसमुद्द लंघइ थोवेण कालेन ॥ ६० ॥ [ एवंविधपरिणामः सम्यग्दृष्टिर्जिनैः प्रज्ञप्तः ।
एष च भवसमुद्रं लङ्घयति स्तोकेन कालेन ॥ ६० ॥
एवंविधपरिणाम इत्यनन्तरोदितप्रशमादिपरिणामः सम्यगूहष्टिर्जिनैः प्रज्ञप्त इति प्रकटार्थः । अस्यैव फलमाह । एष च भवसमुद्रं लंघयति अतिक्रामति स्तोकेन कालेन । प्राप्तबीजत्वादुत्कृष्टतोऽप्युपा पुद्गलपरावर्तान्तः सिद्धिप्राप्तेरिति । एवंविधमेव सम्यक्त्वं इत्येतत्प्रतिपादयन्नाह ॥
जं मोणं तं सम्मं जं सम्मं तमिह होइ मोणं ति । निच्छयओ इयरस्य उ सम्मं सम्मेतहऊ वि ॥ ६१ ॥
Page #51
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । ३९ [यन्मौनं तत्सम्यक् यत्सम्यक् तदिह भवति मौनमिति। निश्चयतः इतरस्यतु सम्यक्त्वं सम्यक्त्वहेतुरपि ॥६१॥]
मन्यते जगतस्त्रिकालावस्थामिति मुनिः तपस्वी तद्भावो मौनं अविकलं मुनिवृत्तमित्यर्थः।यन्मौनं तत्सम्यक् सम्यक्त्वं यत्सम्यक् सम्यक्त्वं तदिह भवति मौनमिति । उक्तं चाचाराङ्गे ।
जं मोणंति पासहा तं सम्मति पासहा ।
जं सम्मति पासहा तं मोणंति पासहा ॥ इत्यादि निश्चयतः परमार्थेन निश्चयनयमतेनैव एतदेवमिति ।
जो जहवायं न कुणइ मिच्छट्ठिी तओ हु को अन्नो।..
वड़ेइ य मिच्छत्तं परस्स संकं जणेमाणो॥ इत्यादि वचनप्रामाण्यात् । इतरस्य तु व्यवहारनयस्य सम्यक्त्वं सम्यक्त्वहेतुरपि अर्हच्छासनप्रीत्यादि कारणे कार्योपचारात् । एतदपि शुद्धचेतसां पारम्पर्येणापवर्गहेतुरिति । उक्तं च ।
जइ जिणमयं पवजह तामा ववहारनिच्छए मुयह।
ववहारनयउच्छेए तित्थुच्छेओ जओऽवस्सं ॥ इत्यादीनि वाचकमुख्येनोक्तं “तत्त्वार्थश्रद्धानं सम्यग्दर्शनं" (तत्त्वार्थाधिगमसूत्रम् १-२)।तदपि प्रशमादिलिङ्गमेवेति दर्शयन्नाह ॥
ततत्थसहहाणं सम्मतं तंमि पसममाईया ।
पढमकसाओवसमादविस्कया हुंति नियमेण ॥६२॥ [तत्त्वार्थश्रद्धानं सम्यक्त्वं तस्मिन्प्रशमादयः । प्रथमकषायोपशमाद्यपेक्षया भवन्ति नियमेन ॥६२॥]
Page #52
--------------------------------------------------------------------------
________________
४०
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। तत्त्वार्थश्रद्धानं सम्यक्त्वं । तस्मिन्प्रशमादयोऽनन्तरोदिताः प्रथमकषायोपशमाद्यपेक्षया भवन्ति नियमेन । अयमत्र भावार्थः। न ह्यनन्तानुबन्धिक्षयोपशमादिमन्तरेण तत्त्वार्थश्रद्धानं भवति । सति च तत्क्षयोपशमे तदुदयवद्भयः सकाशादपेक्षयास्य प्रशमादयो विद्यन्त एवेति तत्त्वार्थश्रद्धानं सम्यक्त्वमित्युक्तं । के एते तत्त्वार्था इत्येतदभिधित्सयाह। जीवाजीवासवबंधसंवरा निज्जरा य मुको य।
ततवा इत्थं पुण दुविहा जीवा समरकाया॥६३॥ [जीवाजीवास्रवबन्धसंवरा निर्जरा च मोक्षश्च । तत्त्वार्था अत्र पुनः द्विविधा जीवाः समाख्याताः॥६३॥] जीवाजीवास्रवबन्धसंवरा निर्जरा च मोक्षश्च तत्त्वार्था इति । एषां स्वरूपं वक्ष्यत्येव । असमासकरणं गाथाभंगभयाथै निर्जरामोक्षयोः फलत्वेन प्राधान्यख्यापनार्थ चेति । अत्र पुनस्तत्त्वार्थचिन्तायां द्विविधा जीवाः समाख्यातास्तीर्थकरगणधरैरिति ।
द्वैविध्यमाह । संसारिणो य मुता संसारी छव्विहा समासेण पुढवीकाइअमादि तंसकायंता पुढोभेया ॥ ६४ ॥ [संसारिणः च मुक्ताः संसारिणः षड्डिधाः समासेन । पृथिवीकायिकादयस्त्रसकायान्ताः पृथग्भेदाः ॥ ६४॥] चशब्दस्य व्यवहित उपन्यासः । संसारिणो मुक्ताश्चेति । तत्र
Page #53
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञयाख्यप्रकरणं। संसारिणः षड्डिधाः षट्प्रकाराः।समासेन जातिसंक्षेपेणेति भावः । षड्विधत्वमेवाह । पृथिवीकायिकादयस्त्रसकायान्ताः । यथोक्तं "पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस्सइकाइया तसकाइया" पृथग्भेदा इति स्वातन्त्र्येण पृथग्भिन्नस्वरूपाः न तु परमपुरुषविकारा इति ॥ संसारिण एव प्रतिपादयन्द्वारगाथामाह । भव्वाहारगपज्जतसुक्कसोवकमाउया चेव ।
सप्पडिपका एए भणिया कमट्टमहणेहिं ॥६५॥ [ भव्याहारकपर्याप्तशुक्लसोपक्रमायुषश्चैव।।
सप्रतिपक्षा एते भणिता अष्टकर्ममथनैः ॥६५॥ ] भव्या आहारकाः पर्याप्ताः शुक्ला इति शुक्लपाक्षिकाः सोपक्रमायुपश्चैव सप्रतिपक्षा एते भणिताः। तद्यथा।भव्याश्चाभव्याश्चाहारकाश्चेत्यादि । कैर्भणिता इत्याह । अष्टकर्ममथनैः तीर्थकरैरिति गाथाक्षरार्थः ॥ भावार्थ तु स्वयमेव वक्ष्यति । तत्राद्यद्वारमाह। भव्वा जिणेहि भणिया इह खलु जे सिद्धिगमणजोगाउ। ते पुण अणाइपरिणामभावओ हुँति नायवा ॥६६॥ [भव्या जिनैणिता इह खलु ये सिद्धिगमनयोग्यास्तु। ते पुनरनादिपरिणामभावतो भवन्ति ज्ञातव्याः॥६६॥] भव्या जिनैर्भणिता इह खलु ये सिद्धिगमनयोग्यास्तु । इह
Page #54
--------------------------------------------------------------------------
________________
४२
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
लोके य एव सिद्धिगमनयोग्याः खलुशब्दस्यावधारणार्थत्वात् तुशब्दोऽप्येवकारार्थः योग्या एव । न तु सर्वे सिद्धिगामिन एव । यथोक्तं " भवा वि न सिज्जिस्सन्ति केइ ” इत्यादि । भव्यत्वे निबन्धनमाह । ते पुनरनादिपरिणामभावतो भवन्ति ज्ञातव्याः । अनादिपारिणामिकभव्यभावयोगाद्भव्या इति ॥
विवरिया उ अभव्वा न कयाइ भवन्नवस्स ते पारं । गच्छं जंति व तहा तत्तु च्चिय भावओ नवरं ॥ ६७॥ [ विपरीतास्त्वभव्या न कदाचिद्भवार्णवस्य ते पारं । गतवन्तो यान्ति वा तथा तत एव भावात् नवरं ॥ ६७ ॥ |]
विपरीतास्त्वभव्याः । तदेव विपरीतत्वमाह । न कदाचिद्भवार्णवस्य संसारसमुद्रस्य ते पारं पर्यन्तं गतवन्तो यान्ति वा वाशब्दस्य विकल्पार्थत्वात् यास्यन्ति वा । तथेति कुतो निमित्तादिति आह । तत एव भावात् तस्मादेव अनादिपारिणामिकादभव्यत्वभावादिति भावः । नवरमिति साभिप्रायकं अभिप्रायश्च नवरमेतावता वैपरीत्यमिति ।
भव्यद्वारानन्तरमाहारकद्वारमाह ।
विग्गहगइमावन्ना केवलिणो समुहया अजोगीय । सिद्धा य अणाहारा सेसा आहारगा जीवा ॥ ६८ ॥ [ विग्रहगतिमापन्नाः केवलिनः समवहता अयोगिनश्च । सिद्धाश्चानाहारकाः शेषा आहारका जीवाः ॥ ६८ ॥ ]
Page #55
--------------------------------------------------------------------------
________________
संटीकश्श्रावकप्रज्ञप्त्याख्यप्रकरणं ।
४३
1
: विग्रहगतिमापन्ना अपान्तरालगतिवृत्तय इत्यर्थः । केवलिनः समवहताः समुद्घातं गताः । अयोगिनश्च केवलिन एव शैलेश्वस्थायामिति । सिद्धाश्च मुक्तिभाजः । एते ऽनाहारका ओजाद्याहाराणामन्यतमेनाप्यमी नाहारयन्तीत्यर्थः । शेषा उक्तविलक्षणा आहारका जीवा ओजलोमप्रक्षेपाहाराणां यथासंभवं येन केनचिदाहारेणेति । तेऽपि यावन्तं कालमनाहारकाः तांस्तथाभिधातुकाम आहे ॥
॥६९॥
गाइ तिन्निसमया तिन्नेव ऽन्तोमुहुत्तमित्तं च । साई अपज्जवसियं कालमणाहारगा कमसो ॥ ६९ ॥ [ एकाद्यांस्त्रीन्समयान् त्रीनेव अन्तर्मुहूर्तमात्रं च । साद्यपर्यवसितं कालमनाहारकाः क्रमशः ॥ ६९ ॥ ] एकाद्यांस्त्रीन्समयान् विग्रहगतिमापन्ना अनाहारकाः । उक्तं च " एकं द्वौ वानाहारकः" इति ( तत्त्वार्थाधिगमसूत्रं २ - ३१ ) वाशब्दात्रिसमयग्रहः । त्रीनेव समयाननाहारकाः समुद्घाते केवलिनः । यथोक्तम् ॥
कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । ( प्रशमरति - ३७३ ) समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥ १ ॥ अन्तर्मुहूर्तं चानाहारका अयोगिकेवलिनः तत ऊर्ध्वमयोगिकेवलित्वाभावादपवर्गप्राप्तेः । साद्यपर्यवसितं कालमनाहारकाः सिद्धा व्यक्त्यपेक्षया तेषां सादित्वादपर्यवसितत्वाच्च । अत एवाह क्रमश एवंभूतेनैव क्रमेणेति गाथार्थः । व्याख्यातमाहारकद्वारं सांप्रतं पर्याप्तकद्वारमाह ।
Page #56
--------------------------------------------------------------------------
________________
४४
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। नारयदेवा तिरिमर्णय गन्भया जे असंखवासाऊ।
एए य अपज्जता उववाए चेव बोद्धव्वा ॥ ७० ॥ [नारकदेवाः तिर्यमनुष्या गर्भजा येऽसंख्येयवर्षायुषः । एते चापयोप्ता उपपात एव बोडव्याः ॥ ७० ॥]
नारकाश्च देवाश्च नारकदेवास्तथा तिर्यमनुष्याः तिर्यञ्चश्च मनुष्याश्चेति विग्रहः गर्भजा गर्भव्युत्क्रान्तिकाः, संमूछिमव्यवच्छेदार्थमेतत् । ते च सङ्घयेयवर्षायुषोऽपि भवन्ति तद्वयवच्छेदार्थमाह । येऽसङ्घयेयवर्षायुष इति । एते चापर्याप्ता आहारशरीरेन्द्रियप्राणापानभाषामनःपर्याप्तिभी रहिता उपपात एव उत्पद्यमानावस्थायामेव बोद्धव्या विज्ञेया न तूत्तरकालं पर्याप्ता लब्धितोऽपीति
सेसा उ तिरियमणुया लद्धिं पप्पोववायकाले य।
उभओ विअभइअव्वा पज्जतियरेति जिणवयणं७१ [शेषास्तु तिर्यमनुष्या लब्धि प्राप्योपपातकाले च । उभयतोऽपि भाज्याः पर्याप्तरे इति जिनवचनम्॥७१॥]
शेषास्तु तिर्यअनुष्याः संमूर्छनजाः सङ्खयेयवर्षायुषश्च गर्भजाः। किं लब्धि प्राप्य पर्याप्तकलब्धिमधिकृत्य उपपातकाले चोत्पद्यमानावस्थायां च । किं । उभयतोऽपि भाज्या विकल्पनीयाः पर्याप्तका इतरे वापयताकाः। एतदुक्तं भवति । लब्धितोऽपि पयोप्ता अपर्याप्तका अपि भवन्ति । उपपातावस्थायां त्वपर्याप्तका एव । इति जिनवचनं इत्येष आगम इति ।
व्याख्यातं पर्याप्तकद्वार तदनन्तरं शुक्लपाक्षिकद्वारमाह ।
Page #57
--------------------------------------------------------------------------
________________
सटीकभावकप्रज्ञप्त्याख्यप्रकरणं। ४५ जेसिमवष्टोपुग्गलपरियट्टो सेसओ उ संसारो।
ते सुक्कपरिकआखलु अहिए पुण किन्हपरकीया॥७२॥ [येषामपापुद्गलपरावर्त एव शेषः संसारः। ते शुक्लपाक्षिकाः खलु अधिक पुनः कृष्णपाक्षिकाः७२]
येषामुपार्धपुद्गलपरावर्त एव शेषः संसारस्तत ऊर्ध्व सेत्स्यन्ति ते शुक्लपाक्षिकाः क्षीणप्रायसंसाराः खलुशब्दो विशेषणार्थः प्राप्तदर्शना वा अप्राप्तदर्शना वा सन्तीति विशेषयति। अधिके पुनरुपार्धपुद्गलपरावर्ते संसारे कृष्णपाक्षिकाः क्रूरकर्माण इत्यर्थः । पुद्गलपरावर्तो नाम त्रैलोक्यगतपुद्गलानामौदारिकादिप्रकारेण ग्रहणं। उपार्धपुद्गलपरावर्तस्तु किंचिन्यूनोऽर्धपुद्गलपरावर्त इति ।
एतद्वारोपयोग्ये च वक्तव्यताशेषमाह । पायमिह कूरकम्मा भवसिद्धिया वि दाहिणिल्लेसु।
नेरइयतिरियमणुया सुरा य ठाणेसु गच्छंति ॥७३॥ [प्राय इह क्रूरकर्माणः भवसिद्धिका अपि दक्षिणेषु । नारकतिर्यमनुष्याः सुराश्च स्थानेषु गच्छन्ति ॥७३॥]
प्राय इह क्रूरकर्माणः । बाहुल्येनैतदेवमिति दर्शनार्थ प्रायोनहणं । भवसिद्धिका अप्येकभवमोक्षयायिनोऽपि दक्षिणेषु नारकतिर्यमनुष्याः सुराश्च स्थानेषुगच्छन्ति। अत एवोक्तं "दाहिणदिशिगामिए किलपक्खिए नेरइए"इत्यादि । एतदुक्तं भवति । नरकभवनद्वीपसमुद्रविमानेषु दक्षिणदिग्भागव्यवस्थितेषु कृष्णपाक्षिका
Page #58
--------------------------------------------------------------------------
________________
४६
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । नारकादय उत्पद्यन्त इति आह भारतादितीर्थफरादिभिर्व्यभिचारः, न, तेषां प्रायोग्रहणेन व्युदासादिति ।
शुक्लपाक्षिकद्वारानन्तरं सोपक्रमायुद्धारमाह। देवा नेरइया वा असंखवासाउआ य तिरिमणुया । उत्तमपुरिहा य तहा चरमसरीरा य निरुवकमा७४ [देवा नारकाश्च असंख्येयवर्षायुषश्च तिर्यमनुष्याः। उत्तमपुरुषाश्च तथा चरमशरीराश्च निरुपक्रमाः॥४॥]
देवा नारकाश्चैते सामान्येनैव । असङ्खयेयवर्षायुषश्च तिर्यमनुप्या एतेन सङ्खयेयवर्षायुषां व्यवच्छेदः । उत्तमपुरुषाश्चक्रवादयो गृह्यन्ते । चरमशरीराश्चाविशेषेणैव तीर्थकरादयः । निरुपकमा इत्येते निरुपक्रमायुष एव अकालमरणरहिता इति ।
सेसा संसारत्था भइया सोवकमा व इयरे वा। सोवकमनिरुवक्कमभेओ भणिओ समासेणं. ॥७५॥ [शेषाः संसारस्था भाज्याः सोपक्रमा वा इतरे वा। सोपक्रमनिरुपक्रमभेदो भणितः समासेन ॥७५ ॥]
शेषाः संसारस्था अनन्तरोदितव्यतिरिक्ताः सङ्घयेयवर्षायुष अनुत्तमपुरुषा अचरमशरीराश्च । एते भाज्या विकल्पनीयाः। कथं सोपक्रमा वा इतरे वा कदाचित्सोपक्रमाः कदाचिन्निरुपक्रमा उभयमप्येतेषु संभवतीति सोपक्रमनिरुपक्रमभेदो भणितः समासेन संक्षेपेण । न तु कर्मभूमजादिविभागविस्तरेणेति । उक्तं सोपक्रमद्वारं तदभिधानाच्च संसारिणो जीवाः सांप्रतं मुक्तानभिधित्सुराह॥
Page #59
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। . ४७ मुता अणेगभेया तित्थतित्थयरतदियरा चेव।
सयपत्तेयविबुद्धा बुहबोहिय सन्नगिहिलिंगे ॥ ७६ ॥ [मुक्ता अनेकभेदाः तीर्थतीर्थकरतदितरे चैव। .
खयंप्रत्येकबुद्धा बुधबोधिताः खान्यगृहिलिङ्गाः ॥७६॥]
मुक्ताश्च सिद्धाः ते चानेकभेदा अनेकप्रकाराः । तीर्थतीर्थकरतदितरे चेति, अनेन सूचनात्सूत्रमिति कृत्वा तीर्थसिद्धा अतीर्थसिद्धास्तीर्थकरसिद्धा अतीर्थकरसिद्धाश्च गृह्यन्ते । तत्र तीर्थे सिद्धास्तीर्थसिद्धाः। तीर्थ पुनश्चातुर्वणः श्रमणसंघः प्रथमगणधरो वा । तथा चोक्तं "तित्थं भंते तित्थं तित्थगरे तित्थं गोयमा अरहं ताव नियमा तित्थंकरे तित्थं पुण चाउव्वन्नो समणसंघो पढमगणधरो वा"इत्यादि । ततश्चं तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः ॥ अतीर्थे मिन्दा अतीर्थसिद्धास्तीर्थान्तरसिद्धा इत्यर्थः श्रूयते च "जिणंतरे साहवोच्छेउत्ति” तत्रापि जातिस्मरणादिना अवाप्तापवर्गमार्गाः सिध्यान्त एवं, मरुदेवीप्रभृतयो वा अतीर्थसिद्धास्तदा तीर्थस्यानुत्पन्नत्वात् ॥ तीर्थकरसिद्धास्तीर्थकरा एवं ॥ अतीर्थकरसिद्धा अन्ये सामान्यकेवलिनः॥ स्वयंप्रत्येकबुद्धा इत्यनेन स्वयंबुद्धसिद्धाः प्रत्येकबुद्धसिद्धाश्च गृह्यन्ते । तत्र स्वयंबुद्धसिद्धाः स्वयंबुद्धाः सन्तो ये सिद्धाः । प्रत्येकबुद्धसिद्धाः प्रत्येकबुद्धास्सन्तो ये सिद्धा इति । अथ स्वयंबुद्धप्रत्येकबुद्धयोः कः प्र-. तिविशेष इति । उच्यते । बोध्युपधिश्रुतलिङ्गकृतो विशेषः तथाहि स्वयंबुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते प्रत्येकबुद्धास्तु न द्वितर
Page #60
--------------------------------------------------------------------------
________________
४८ सटीकश्नावकप्रज्ञप्त्याख्यप्रकरणं । हेण, श्रूयते च बाह्यप्रत्ययवृषभादिसयव्यपेक्षा करकंडादीनां प्रत्येकबुद्धानां बोधिरिति । उपधिस्तु स्वयंबुद्धानां द्वादशविधः पात्रादिः प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्जः । स्वयंबुद्धानां पूर्वाधीतश्रुतेऽनियमः प्रत्येकबुद्धानां नियमतो भवत्येव । लिङ्गप्रतिपत्तिः स्वयंबुद्धानामाचार्यसन्निधावपि भवति प्रत्येकबुद्धानां तु देवता प्रयच्छतीत्यलं विस्तरेण ॥ बुद्धबोधिता इति बुद्धबोधितसिद्धाः बुद्धा आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते ॥ स्वान्यगृहिलिङ्गा इति स्वलिङ्गसिद्धा अन्यलिङ्गसिद्धा गृहिलिङ्गसिद्धाः। तत्र स्वलिङ्गसिद्धा द्रव्यलिङ्गं प्रति रजोहरणगोच्छकधारिणः । अन्यलिङ्गसिद्धाः परिव्राजकादिलिङ्गसिद्धाः । गृहिलिङ्गसिद्धा मरुदेवीप्रभृतय इति ॥ .
इत्थीपुरिसनपुंसग एगाणेग तह समयभिन्ना य ।
एसो जीवसमासो इतो इयरं पवकामि ॥ ७७ ॥ [स्त्रीपुरुषनपुंसका एकानेके तथा समयभिन्नाश्च । एष जीवसमसोऽत इतरं प्रवक्ष्यामि ॥ ७७॥ ] एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः केचित् पुंलिङ्गसिद्धाः केचिन्नपुंसकलिङ्गसिद्धाः। आह किं तीर्थकरा अपि स्त्रीलिगसिद्धा भवन्ति । भवन्तीत्याह । यत उक्तं सिद्धप्राभृते “सखत्थोवा तित्थगरिसिद्धा तित्थगरितित्थे नोतित्थसिद्धा असङ्घयेयगुणा तित्थगरितित्थे णोतित्थगरिसिद्धा उ असङ्खयेयगुणा- उ तित्थ
Page #61
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। ४९ गरितित्थे णोतित्थगरसिद्धा असङ्घ-येयगुणा" इति।न नपुंसकलिङ्गे सिद्धाः । प्रत्येकबुद्धास्तु पुंलिङ्गा एव ॥ एकानेक इति । एकसिद्धा अनेकसिद्धाः । तत्रैकसिद्धा एकस्मिन्समये एक एव सिद्धः। अनेकसिद्धा एकस्मिन्समये द्यादयो यावदष्टशतंसिद्धमिति।उक्तं च
बत्तीसा अडयाला सट्टी बावत्तरीय बोघव्या
चुलसीई छन्नउइ दुरहिय अत्तरसयं च ॥१॥ तथा समयभिन्नाश्चेति । प्रथमसमयसिद्धा अप्रथमसमयसिद्धा इत्यादि । तत्र अप्रथमसमयसिद्धाः परम्परसिद्धि विशेषणप्रथमसमयवर्तिनः सिद्धत्वद्वितीयसमयवर्तिन इत्यर्थः व्यादिषु तु द्विसमयसिद्धादयः प्रोच्यन्ते । यद्वा सामान्येन प्रथमसमयसिद्धाभिधानं विशेषतो द्विसमयादिसिद्धाभिधानमिति ॥ आह तीर्थातीर्थसिद्धभेदद्वय एवान्तर्भावादलं शेषभेदैरिति, न आधभेदद्वयादेवोत्तरभेदाप्रतिपत्तेः शिष्यमतिविकाशार्थश्च शास्त्रारम्भ इति । एष उक्तलक्षणो जीवसमासो जीवसंक्षेप उक्त इति वाक्यशेषः। अत ऊर्ध्वमजीवसमासं प्रवक्ष्यामीति गाथार्थः ॥ धम्माधम्मागासा पुग्गल चउहा अजीव मो एए। गइठिइअवगाहेहिं फासाईहिं च गम्मति ॥७॥ धर्माधर्माकाशाः पुद्गलाश्चतुर्धा अजीवा एवैते। गतिस्थित्यवगाहैः स्पर्शादिभिश्च गम्यन्ते । तत्र धर्माधर्माकाशा गतिस्थित्यवगाहर्गम्यन्ते । पुद्गलाश्च स्प१ सिद्ध. २ ( प्रथमसमयवर्तिनः सिद्धाभिधानं )
Page #62
--------------------------------------------------------------------------
________________
सटीक श्रावकप्रज्ञघ्याख्यप्रकरणं ।
र्शादिभिः । असमासकरणं धर्मादीनां त्रयाणामप्यमूर्तत्वेन भिन्नज्ञातीयख्यापनार्थम् । इत्येष गाथाक्षरार्थः । भावार्थस्तु धर्मादिग्रहणेन पदैकदेशेऽपि पदप्रयोगदर्शनाद्धर्मास्तिकायादयो गृह्यन्ते । स्वरूपं चैतेषां ।
५०
जीवानां पुद्गलानां च गत्युपष्टम्भकारणं । धर्मास्तिकायो ज्ञानस्य दीपश्चक्षुष्मतो यथा ॥ १ ॥ जीवानां पुद्गलानां च स्थित्युपष्टम्भकारणं । अधर्मः पुरुषस्येव तिष्ठासोरवनिस्समा ॥ २ ॥ जीवानां पुद्गलानां च धर्माधर्मास्तिकाययोः बादरापां घटो यद्वदाकाशमवकाशम् ॥ ३ ॥ स्पर्शरसगन्धवर्णशब्दा मूर्तस्वभावकाः । संघातभेद निष्पन्नाः पुद्गला जिनदेशिताः ॥ ४ ॥ इति कृतं विस्तरेण । उक्ता अजीवाः सांप्रतमास्रवद्वारमाह । कायवयमणोकिरियाजोगो सो आसवो सुहो सो अ । पुन्नस्स मुणेयो विवरीओ होइ पावस्स ॥ ७९ ॥ [ कायवाङ्मनः क्रियायोगः स आश्रवः शुभः स च । पुण्यस्य मुणितव्यो विपरीतो भवति पापस्य ॥ ७९ ॥ ] कायवाङ्मनःक्रियायोगः । क्रिया कर्म व्यापार इत्यनर्थान्तरं युज्यत इति योगः युज्यते वानेन करणभूतेनात्मा कर्मणेति योगो व्यापार एव स आस्रवः । आस्रवत्यनेन कर्मेत्यास्रवः सरःसलिला वाहिस्रोतोवत् । शुभः स चास्रवः पुण्यस्य मुणितव्यो विपरीतो भवति पापस्येति । आत्मनि कर्माणुप्रवेशमात्रहेतुरास्रव इति ।
Page #63
--------------------------------------------------------------------------
________________
। सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। . ५१ उक्त आस्रवः। सांप्रतं बन्ध उच्यते ॥ सकषायता जीवो जोगे कम्मस्स पुग्गले लेइ।
सो बंधो पयइठिईअणुभागपएसभेओ ओ ॥ १० ॥ [सकषायत्वाज्जीवो योग्यान कर्मणः पुद्गलान लाति । स बन्धः प्रकृतिस्थित्यनुभागप्रदेशभेद एव॥ ८०॥]
कषायाः क्रोधादयः सह कषायैः सकषायः तद्भावः तस्मात् सकषायत्वाजीवो योग्यानुचितान् कर्मणः ज्ञानावरणादेः पुद्गला. न परमाणून लात्यादत्ते गृह्णातीत्यनर्थान्तरं स बन्धः । योऽसौ तथास्थित्या त्वादानविशेषः स बन्ध इत्युच्यते । स च प्रकृतिस्थित्यनुभावप्रदेशभेद एव भवति । प्रकृतिबन्धो ज्ञानावरणादिप्रकृतिरूपः । स्थितिबन्धोऽस्यैव जघन्येतरा स्थितिः । अनुभावबन्धो यस्य यथायत्यां विपाकानुभवनमिति । प्रदेशबन्धस्त्वात्मप्रदेशैर्योगस्तथा कालेनैव विशिष्टविपाकरहितं वेदनमिति । उक्तो बन्ध इदानीं संवरमाह ॥ . आसवनिरोह संवर समिईगुताइएहि नायवो।
कमाण पुवायाणं भावत्थो होइ एयस्स ॥१॥ [आश्रवनिरोधः संवरः समितिगुप्त्यादिभिज्ञातव्यः । कर्मणामनुपादानं भावार्थों भवत्येतस्य ॥ ८१॥]
आश्रवनिरोधः संवरः। आश्रव उक्त एव । तन्निरोधः कात्स्येंन निश्चस्तः सर्वसंवर उच्यते । शेषो. व्यवहारसंवर इति । स
Page #64
--------------------------------------------------------------------------
________________
५२
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। समितिगुप्त्यादिभितिव्यः । उक्तं च “स समितिगुप्तिधर्मानुप्रेक्षापरीषहजयचारित्रैः" इत्यादि (तत्त्वार्थाधिगमसूत्रम् ९-४) कर्मणामनुपादानं भावार्थो भवत्येतस्य संवरस्य । इह यावानेवांशः कर्मणामनुपादानहेतुर्धर्मादीनां तावानेवेह गृह्यते । शेषस्य तपस्येवान्तर्भावात् तस्य च प्रागुपात्तक्षयनिमित्तत्वादिति । अत्र बहु वक्तव्यं । तत्तु नोच्यते । गमनिकामात्रत्वादारंभस्येगि। - उक्तः संवरः सांप्रतं निर्जरोच्यते॥
तवसा उ निजरा इह निजरणं खवणनासमेगट्ठा।
कम्माभावापायणमिह निजरमो जिना बिति॥२॥ [तपसा तु निर्जरा इह निर्जरणं क्षपणं नाश एकार्थाः। कर्माभावापादानमिह निर्जरा जिना ब्रुवते ॥ ८२॥]
तपसा तु निर्जरा इह । अनशनादिभेदभिन्नं तपः तेन प्रागुपात्तस्य कर्मणो निर्जरा भवति । निर्जराशब्दार्थमेवाह । निर्जरणं क्षपणं नाश इत्येकार्थाः पर्यायशब्दा इति । नानादेशजविनेयगणप्रतिपत्त्यर्थ अज्ञातज्ञापनार्थ चैतेषामुपादानमदुष्टमेव । अस्या एव भावार्थमाहं । कर्माभावापादानमिह निर्जरा जिना ब्रुवते प्रकटार्थमेतदिति । उक्ता निर्जरा इदानीं मोक्षमाह। नीसेसकम्मविगमो मुक्खो जीवस्स सुद्धरूवस्स। साइ अपजवसाणं अव्वाबाहं अवत्थाणं ॥३॥
Page #65
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
५३
[निःशेषकर्मविगमो मोक्षो जीवस्य शुद्धस्वरूपस्य । साद्यपर्यवसानमव्याबाधमवस्थानम् ॥ ८३ ॥ ] निःशेषकर्मविगमो मोक्षः । कृत्स्नकर्मक्षयान्मोक्ष इति वचनात् (तत्त्वार्थाधिगमसूत्रम् १०-१) जीवस्य शुद्धस्वरूपस्य कर्मसंयोगापादितरूपरहितस्येत्यर्थः। साद्यपर्यवसानं अव्याबाधं व्याबाधावर्जितमवस्थानमवस्थितिः जीवस्यासौ मोक्ष इति । साद्यपर्यवसानता चेह व्यक्त्यपेक्षया न तु सामान्येन । मोक्षस्यापि अनादिमत्वमिति ।
उक्तं तत्त्वं, अधुना प्रकृतं योजयति ॥ एयमिह सद्दहंतो सम्मट्ठिी तओ अ नियमेण।
भवनिव्वेयगुणाओ पसमाइगुणासओ होइ ॥ ४ ॥ [एतदिह श्रद्दधानः सम्यग्दृष्टिः तकश्च नियमेन । भवनिर्वेदगुणात् प्रशमादिगुणाश्रयो भवति ॥ ८४॥]
एतदनन्तरोदितं जीवाजीवादीह लोके प्रवचने वा श्रद्दधानः एवमेवेदमित्यान्तिःकरणतया प्रतिपद्यमानः सम्यग्दृष्टिरभिधीयते, अविपरीतदर्शनादिति, तकश्च नियमेनासाववश्यंतया भवनिर्वेदगुणात् संसारनिर्वेदगुणेन प्रशमादिगुणाश्रयो भवति उक्तलक्षणानां (५३) प्रशमादिगुणानामाधारो भवति । भवति चेत्थंज्ञाने संसारनिर्वेदगुणः। तस्माच्च प्रशमादयः। प्रतीतमेतदिति अस्यैव व्यतिरेकमाह ॥
Page #66
--------------------------------------------------------------------------
________________
५४ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। . विवरीयसदहाणे मिच्छाभावाओ नत्थि केइ गुणा।
अणभिनिवेसो उ कयाइ होइ सम्मतहेऊ वि॥५॥ [विपरीतश्रद्दधाने मिथ्याभावान्न सन्ति केचन गुणाः ।
अनभिनिवेशस्तु कदाचिद्भवति सम्यक्त्वहेतुरपि॥८॥] विपरीतश्रद्धाने उक्तलक्षणानां जीवादिपदार्थानामन्यथा श्रद्धाने मिथ्याभावान्न सन्ति केचन गुणाः सर्वत्रैव विपर्ययादिति भावः। विपरीतश्रद्धानेऽप्यनभिनिवेशस्तु एवमेवैतदित्यनध्यवसायस्तु कदाचित्कस्मिंश्चित्काले यद्वा कदाचित् न नियमेनैव भवति सम्यक्त्वहेतुरपि जायते सम्यक्त्वकारणमपि । यथेन्द्रनागादीनामिति।
इदं च सम्यक्त्वमतिचाररहितमनुपालनीयमिति । अतस्तानाह सम्मतस्सइयारा संका कंखा तहेव वितिगिच्छा।
परपासंडपसंसा संथवमाई य नायव्वा ॥६॥ [सम्यक्त्वस्यातिचाराःशङ्का कांक्षा तथैव विचिकित्सा। परपाषण्डप्रशंसा संस्तवादयश्च ज्ञातव्याः॥८६॥]
सम्यक्त्वस्य प्रानिरूपितशब्दार्थस्यातिचारा अतिचरणानि अतिचारा असदनुष्ठानविशेषाः यैः सम्यक्त्वमतिचरति विराधयति वा । ते च शंकादयः। तथा चाह । शंका कांक्षा तथैव विचिकित्सा परपाषण्डप्रशंसा संस्तवादयश्च ज्ञातव्याः । आदिशब्दादनुपर्बु हणास्थिरीकरणादिपरिग्रहः । शंकादीनां स्वरूपं वक्ष्यत्येवेति ।
संसयकरणं संका कंखा अन्नन्नदंसणग्गाहो। संतंमिवि वितिगिच्छा सिज्झिज्ज नमे अयं अट्ठो ६७
Page #67
--------------------------------------------------------------------------
________________
सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं ।
[ संशयकरणं शङ्का कांक्षान्योन्यदर्शनग्राहः । सत्यपि विचिकित्सा सिध्येत न मेऽयमर्थः ॥ ८७ ॥]
५५
संशयकरणं शङ्का भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिध्वत्यन्तगहनेषु मतिदौर्बल्यात्सम्यगनवधार्यमाणेषु संशय इत्यर्थः । किमेवं स्यान्नैवमिति । सा पुनर्द्धिभेदा | देशसर्वभेदात् । देशशङ्का देशविषया यथा किमयमात्मासङ्घयेयप्रदेशात्मकः स्यादथ निःप्रदेशो निरवयवः स्यादिति । सर्वशङ्का पुनः सकलास्तिकायन्त्रात एव किमेवं स्यान्नैवमिति ॥ कांक्षान्योन्यदर्शनग्राहः । सुगता - दिप्रणीतेषु दर्शनेषु ग्राहोऽभिलाष इति । सा पुनर्द्विभेदा देशसर्वभेदात् । देशविषया एकमेव सौगतं दर्शनमाकांक्षति चि
जयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरिति अतो घटमानकमिदं न दूरापेतमिति । सर्वकांक्षा तु सर्वदर्शनान्येव कांक्षति अहिंसाप्रतिपादनपराणि सर्वाण्येव कपिलकणभक्षाक्षपादमतानीह लोके च नात्यन्तक्लेशप्रतिपादनपराणि अतः शोभनान्येवेति ॥ सत्यपि विचिकित्सा सिध्येत न मेऽयमर्थ इति । अयम
भावार्थः । विचिकित्सा मतिविभ्रमो युक्तत्यागमोपपन्नेऽप्यर्थे फलं प्रति संमोहः । किमस्य महतस्तपः क्लेशायासस्य सिकताकण कवलकल्पस्य कनकावल्यादेरायत्यां मम फलसंपद्भविष्यति किं वा नेति । उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते कृषीबलानाम् । न चेयं शङ्कातो न भिद्यते इत्याशङ्कनीयं । शंका हि सकला सकलपदार्थभाक्त्वेन द्रव्यगुणविषया । इयं तु क्रियावि
Page #68
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञत्याख्यप्रकरणं। षयैव । तत्त्वतस्तु सर्व एते प्रायो मिथ्यात्वमोहनीयोदयतो भवन्तो जीवपरिणामविशेषाः सम्यक्त्वातिचारा उच्यन्ते । न सूक्ष्मेक्षिका अत्र कार्येति । अथवा विचिकित्सा विद्वद्जुगुप्सा । विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसर्वसङ्गास्तेषां जुगुप्सा निन्दा । तथाहि तेऽस्तानात्प्रस्वेदजलक्लिन्नमलिनत्वात् दुर्गन्धवपुषो भवन्ति तान्निन्दति । को दोषः स्याद्यदि प्राशुकेन वारिणाङ्गप्रक्षालनं कुर्वीरन् भगवन्त इति । इयमपि न कार्या। देहस्यैव परमार्थतोऽशुचित्वादिति ॥
परपाषंडपसंसा सक्काइणमिह वन्नवाओ उ।
तेहिं सह परिचओ जो स संथवो होइनायबो॥॥ [परपाषंडप्रशंसा शाक्यादीनामिह वर्णवादस्तु ।
तैः सह परिचयो यः स संस्तवो भवति ज्ञातव्यः ८८] परपाषण्डानां सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानांप्रशंसेति समासः प्रशंसनं प्रशंसा स्तुतिरित्यर्थः । तथा चाह । शाक्यादीनामिह वर्णवादस्तु । शाक्यारक्तभिक्षवआदिशब्दात्परिव्राजकादिपरिग्रहः। वर्णवादःप्रशंसोच्यते पुण्यभाज एते सुलब्धमेभिर्मानुजं जन्म दयालव एत इत्यादि ॥ तैः परपाषण्डैरनन्तरोदितैः सह परिचयो यः स संस्तवो भवति ज्ञातव्यः परपाषण्डसंस्तव इत्यर्थः संस्तव इह संवादजनितः परिचयः संवसनभोजनालापादिलक्षणः परिगृह्यते न स्तवरूपः तथा च लोके प्रतीत एव संपूर्वः स्तौतिः परिचय इति " असंस्तुतेषु प्रसभं भयेषु" इत्यादौ इति ॥
Page #69
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
५७
अधुना शंकादीनामतिचारतामाह । संकाए मालिन्नं जायइ चितस्स पच्चओ अ जिणे ।
सम्मताणचिओ खल इइ अइआरो भवे संका॥॥ [शंकायां मालिन्यं जायते चित्तस्य अप्रत्ययश्च जिने । सम्यक्त्वानुचितः खलु इतिअतिचारोभवति शङ्का ८९]
शङ्कायामुक्तलक्षणायां सत्यां मालिन्यं जायतेऽवबोधश्रद्धाप्रकाशमङ्गिकृत्य ध्यामलत्वं जायते । कस्य चित्तस्यान्तःकरणस्याप्रत्ययश्च अविश्वासश्च क्वजिनेऽर्हति जायत इति वर्तते । न ह्याप्ततया प्रतिपन्नवचने संशयसमुद्भवः सम्यक्त्वानुचितः खलु अयं च भगवत्यप्रत्ययः सम्यक्त्वानुचित एव । न हि सम्यक्त्वमालिन्य तदभावमन्तरेणैव भवति । इत्येवमनेन प्रकारेण अतिचारो भवति शङ्का सम्यक्त्वस्येति प्रक्रमाद्गम्यते । अतिचारश्चेह परिणामविशेषान्नयमतभेदेन वा सत्येतस्मिन् तस्य स्खलनमात्रं तदभावो वा ग्राह्यः। तथा चान्यैरप्युक्तं ।
एकस्मिन्नप्यर्थे संदिग्धे प्रत्ययोऽर्हति हि नष्टः।
मिथ्या च दर्शनं तत्स चादिहेतुर्भवगतीनाम् ॥ इति प्रतिपादितं शङ्काया अतिचारत्वं । अधुना दोषमाह ॥ नासइ इमीइ नियमा तताभिनिवेसमो सुकिरियाय। ततो अ बंधदोसो तम्हा एयं विवजिज्जा ॥९०॥ [नश्यत्यनया नियमात्तत्त्वाभिनिवेशो मो सुक्रिया च। ततश्च बन्धदोषः तस्मादेनां विवर्जयेत् ॥ ९०॥]
Page #70
--------------------------------------------------------------------------
________________
५८ . सटीकनावकप्रज्ञप्त्याख्यप्रकरणं।
नश्यत्यनया शंकया हेतुभूतया अस्यां वा सत्यां नियमान्नियमेनावश्यंतया तत्त्वाभिनिवेशः सम्यक्त्वाध्यवसायः श्रद्धाभावा दनुभवसिद्धमेतत् । मो इति पूरणार्थों निपातः । सुक्रिया च शोभना चात्यन्तोपयोगप्रधाना क्रिया च नश्यति श्रद्धाभावात् एतदपि अनुभवसिद्धमेव । ततश्च तस्माच तत्त्वाभिनिवेशसुक्रियानाशात् बन्धदोषः कर्मबन्धापराधः । यस्मादेवं तस्मादेनां शङ्का विवर्जयेत् । ततश्च मुमुक्षुणा व्यपगतशङ्केन सता मतिदौर्बल्यासंशयास्पदमपि जिनवचनं सत्यमेव प्रतिपत्तव्यं सर्वज्ञाभिहितत्वात्तदन्यपदार्थवदिति । उक्तः पारलौकिको दोषः । अधुनैहलौकिकमाह ॥ इह लोगम्मि वि दिट्टो संकाए चेव दारुणो दोसो।
अविसयविसयाए खलु पेयापेया उदाहरणं ॥९१॥ [इह लोके ऽपि दृष्टः शङ्काया एव दारुणो दोषः।
अविषयविषयायाः खलु पेयापेयावुदाहरणम् ॥९१॥ इह लोकेऽप्यास्तां तावत्परलोक इति दृष्ट उपलब्धः शङ्काया एव सकाशादारुणो दोषःरौद्रोऽपराधः । किमविशेषणशङ्कायाः। नेत्याह । अविषयविषयायाः खलु । खलुशब्दोऽवधारणे । अविषयविषयाया एव । अविषयो नाम यत्र शङ्का न कार्यैव। ...
पयापेयावुदाहरणं । तच्चेदं । जहा एगमि नगरे एगस्स सेहिस्स दोन्नि पुत्तालेहसालाए पढन्ति सिणेहयाए तेसिं माया मा कोइ मुच्छिही अप्पसागारिए मइमेहाकारि ओसहपेयं देहि तत्थ परिभुज
Page #71
--------------------------------------------------------------------------
________________
सटीकश्रावकमज्ञप्त्याख्यप्रकरणं। माणो चेव एगोचिंतेइ Yणं मच्छियाउ एयाउ तस्स य संकाउ पुणो पुणो वमंतस्स वग्गुलीवाही जाओ मओ य इहलोगभोगाण अणा भागी जाओ । अवरो न माया अहियं चिंतेइ त्तिणिस्संको पियइ णिरुएण य गहिओ विज्जाकलाकलावो इहलोगियभोगाण य आभागी जाउत्ति । उपनयस्तु कृत एवेति । सांप्रतं कांक्षादिष्वतिचारत्वमाह ॥ एवं कंखाईसु वि अइयारतं तहेव दोषा य । जोइज्जा नाए पुण पतेयं चेव वुच्छामि ॥ ९२॥ [एवं कांक्षादिष्वपि अतिचारत्वं तथैव दोषांश्च ।। योजयेत् ज्ञातानि पुनः प्रत्येकमेव वक्ष्ये ॥ ९२॥]
एवं कांक्षादिष्वपि यथा शङ्कायामतिचारत्वं तथैव दोषाश्च योजयेत् । यतः कांक्षायामपि मालिन्यं जायते चित्तस्याप्रत्ययश्च जिने भगवता प्रतिषिद्धत्वात् । एवं विचिकित्सादिष्वपि भावनीयं । तस्मान्न कर्तव्याः कांक्षादयः । ज्ञातानि पुनः प्रत्येकमेव कांक्षादिषु वक्ष्येऽभिधास्य इति ॥
रायामच्चो विजासाहगसगसुया य चाणको। सोरडसावओ खलु नाया कंखाइसु हवन्ति ॥९३॥ राजामात्यौ विद्यासाधकः श्रावकसुता च चाणक्यः सौराष्ट्रश्रावकः खलु ज्ञातानि कांक्षादिषु भवन्ति ।
तत्र कांक्षायां राजामात्यौ, राजकुमारामच्चोय अस्सेणावहरिया अडविं पविट्टा छुहापरट्टा वणफलादिणि खायंति पडिणियत्ताणं
Page #72
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञत्याख्यप्रकरणं ।
राया चिंतेइ लड्डुयपूयलगमाईणि सवाणि खामि आगया दोवि जणा रन्ना सूयारा भणिया जं लोए पयरइ तं सबं सबे रंधेह तेहिं रधित्ता उवट्ठवियं रन्नो सो राया पेच्छरायेदितं करेइ कप्पडियावलिएहिधाडिज्जंति एवं मिट्ठस्स अवगासे होइ त्ति कणगकुंडगाईणि उंडेराणि विखइयाणि तेहिं सूलेण मओ । अमच्चेण पुण वमणविरेयणाणि कयाणि सो भोगाणं आभागी जाओ ति ॥
विचिकित्सायां विद्यासाधकसावगो नंदीसरवरगमणं दिव्वगंधाणं देवसंसग्गेण मित्तस्स पुच्छणं विज्जाएपदाणं साहणं मसाणे चउपाय सिक्कयं हेट्ठा इंगालखायरोयस्तलो अट्ठसयवारा परिजवित्ता पादो सिक्कगरस च्छिजइ एवं बीओ तइओ य च्छिजइ । चउत्थे छिन्ने आगासेण बच्चइ तेण सा विज्जा गहिया कालचउद्दसिरत्तिं साहेइ मसाणे चोरो य णयरारक्खिएहिं पारद्धो (पेल्लिओ) परिभ्रममाणो तत्थेव अइगओ । ताहे वेढेउं मसाणं ठिया पभाए घिप्पिही सोय भमंतो तं विज्जासाहगं पेच्छइ । तेण पुच्छिओ सो भणइ । विज्जं साहेमि । चोरो भणइ । केण ते दिण्णासो भइ सावगेणं चोरेण भणियं इमं दव्वं गिण्हाहि विज्जं देहि । सो सड्डो विचिकिच्छइ सिज्झेज्जा न व इत्ति । तेणं दिन्ना 1 चोरो चिंतेइ सावो कीडियाएवि पावं नेच्छइ सच्चमेयं सो साहिउमारद्धो सिद्धा । इयरो सलोद्दो ( सलुत्तो ) गहिजे । तेण आगासगएण लोगो भेसिओ ताहे सो मुक्को दोवि सावगा जायत्ति ॥ विद्वज्जुगुप्सायां श्रावकसुताउदाहरणे एगो से ट्ठो पर्वते वल्लइ (तलइ ) तस्स धूयाविवाहे कहवि साहुणो आगया । सा पिउणा
·
Page #73
--------------------------------------------------------------------------
________________
टीकश्रावकज्ञप्त्याख्यप्रकरणं ।। ६१ भणिया पुत्तिए पडिलाभेहि साहुणो सा मंडियपसाहिया पडिलाभेइ साहूण जल्लगंधो तीए आघातो सा चिंतेइ । अहो अणवजो भट्टारगेहिं धम्मो देसिओ जइ पुण फासुएण पाणीएण पहाएजा को दोसो होजा । सा तस्स हाणस्स अणालोइय अपडिक्ता कालं काऊणं रायगिहे गणियापाढे समुप्पन्ना । गम्भगया चेव अरइं जणेइ गब्भसाउणेहि य ण सडइ ॥ जाया समाणी उजिया । सा गंधेण तं वनं वासेइ । सेणिओ तेण पदेसेण णिगच्छइ सामिणो वंदिउ सो खंधावारो तीए गंधं ण सहइ। रन्ना पुच्छियं किं एयं तेहिं कहियं दारियाए गंधो गंतूणं दिहा भणइ एस एव पढम पुच्छत्ति गओ वंदित्ता पुच्छइ तओ भगवया तीए उट्ठाणपारियावणिया कहिया । तओ राया भणइ कहिं एसा पच्चणुभविस्सइ सुहं वा दुक्खं वा । सामी भणइ एएण कालेण वेइयं इयाणिं सा तव चेव भजा भविस्सइ अग्गमहिसी ।। अट्ट संवच्छराणि जाय तुन्भं रममाणस्स पट्टीएहं सो. लीलं काहिइ तं जाणिज सुवंदित्ता गओ । साय अवगयगंधा आहीरेण गहिया संवड़िया जोवणत्था जाया । कोमुइचार मायाए समं आगया । अभओ सेणिओ य पच्छन्ना कोमुइचारं पेच्छंति। तीए दारियाए अंगफासेण सेणिओ अजोववन्नो नाममुदं दसिया तीए बंधइ । अभयस्स कहियं नाममुदा हरिया मग्गाहि । तेण मणुस्सा दारेहिं बद्धेहिं ठविया । एकेक माणुस्सं पलोएऊण णीणिज्जइ । सा दारिया दिट्ठा चोरित्ति गहिया परिणीया य ।
Page #74
--------------------------------------------------------------------------
________________
६२ . सटीकश्रावकप्रज्ञस्याख्यप्रकरणं। अन्नया य वस्सोकेणं रमंति रायणं राणियाउ पोत्तेण वाहिति । इयरी पोत्तं दाउं विलग्गा रन्ना सरियं मुक्का य पवइया ॥
परपाषण्डप्रशंसायां चाणक्यः। पाडलिपुत्ते चाणको चंदगुत्तेण भिक्खुकाण वित्ती हरिया । ते तस्स धम्म कति । राया तुस्सइ चाणकं पलोएइ ण पसंसइ तेण न देइ । तेहिं चाणकभजा उलग्गिया ( उलभिया) तीए सो करणी गाहिउ तेहिं कहिए भणियं सुहासियं रन्ना तं च अन्नं च दिन्नं । बीयदिवसे चाणको भणइ किस ते दिन्नं राया भणइ तुझेहिं पसंसियंति । सो भणइ ण मे पसंसियंति सवारंभपवत्ता कहलोयं पत्तिया वेति । पच्छा ठिउ (विउ ) केत्तिया एरिसंत्ति ॥
परपाषंडसंस्तवे सौराष्ट्र श्रावकः । सो दुन्भिरके भिरकुएहिं समं पयट्टो भत्तं से देंति अन्नया विसूइयाए मओ। चीवरेण पच्छाइओ अविसुद्धोहिणा पासणं भिरकुगाणं दिवबाहाए आहारदाणं । सावगाणं खिंसा । जुगपहाणाण कहणं विराहियगुणो त्ति आलोयणं नमोकारपठणं पडिबोहो केत्तिया एरिसन्ति ॥
अन्ने वि य अइयारा आइसदेण सूइया इत्थ। साहमिअणुववूहणमथिरीकरणाइया ते उ ॥ ९४ ॥ [अन्ये ऽपि चातिचारा आदिशब्देन सूचिता अत्र । साधर्मिकानुपबृंहणास्थिरीकरणादयस्ते तु ॥ ९४॥]
अन्ये ऽपि चातिचारा आदिशब्देन सूचिता अत्र। अत्रेति सम्यक्त्वाधिकार सम्मत्तस्सइयारा (८६) इत्यादिद्वारगाथायामादि
Page #75
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। शब्देनोल्लिङ्गिता इत्यर्थः । समानधार्मिकानुपबृंहणास्थिरीकरणादयस्ते तु । अनुस्वारो ऽलाक्षणिकः ॥ समानधार्मिको हि सम्यग्दृष्टेः साधुः साध्वी श्रावकः श्राविका च । एतेषां कुशलमार्गप्रवृत्तानामुपबृंहणा कर्तव्या। धन्यस्त्वं पुण्यभाक्त्वं कर्तव्यमेतद्यद्भवतारब्धमिति । तद्भाव उपबृंहितव्यः । अनुपबृंहणे तिचारः। एवं सद्धर्मानुष्ठाने विषीदन् धर्म एव स्थिरीकर्तव्यः । अकरणे ऽतिचारः । आदिशब्दात्समानधार्मिकवात्सल्यतीर्थप्रभावनापरिग्रहः । समानधार्मिकस्य ह्यापद्तोद्धरणादिना वात्सल्यं कर्तव्यं । तदकरणे ऽतिचारः । एवं स्वशक्त्या धर्मकथादिभिः प्रवचने प्रभावना कार्या । तदकरणे ऽतिचार इति ॥ तथा चाह ॥ नो खलु अप्परिवडिए निच्छयओ मइलिए व समते। होइ तओ परिणामो जतो णुववूहणाईया ॥ ९५॥ [न खल्वप्रतिपतिते निश्चयतो मलिनीकृते वा सम्यक्के ।
भवति तकः परिणामो यतो ऽनुपबृंहणादयः ॥ ९५॥] __ न खल्विति नैव अप्रतिपतितेऽनपगते निश्चयतो निश्चयनयमतेन मलिनीकृते वा व्यवहारनयमतेन सम्यक्त्वे उक्तलक्षणे भवति तकः परिणामो जायते भावात्मस्वभावः यतो यस्मात्परिणामादनुपबृंहणादयो भवन्तीति । उक्ताः सम्यक्त्वातिचाराः । एते मुमुक्षुणा वर्जनीयाः। किमिति ।
जं साइयारमेयं खिप्पं नो मुरकसाहगं भणिों तह्मा मुकट्ठी खलु वजिज इमे अईयारे॥ ९६ ॥ १ प्रमादनू. .
Page #76
--------------------------------------------------------------------------
________________
६४
सटीक श्रावकप्रज्ञघ्याख्यप्रकरणं ।
[ यत्सातिचारमेतत्क्षिप्रं न मोक्षसाधकं भणितम् । तस्मात् मोक्षार्थी खलु वर्जयेदेतानतिचारान् ॥९६॥ ] यद्यस्मात्सातिचारं सदोषमेतत्सम्यक्त्वं क्षिप्रं शीघ्रं न मोक्षसाध-, कं नापवर्गनिर्वर्तकं भणितं तीर्थकरगणधरैः निरतिचारस्यैव विशिकर्मक्षयहेतुत्वात्तस्मात् मोक्षार्थी अपवर्गार्थी खल्विति खलुशब्दो ऽवधारणे मोक्षार्थ्येव वर्जयेन्न कुर्यादेतानतिचारान् शङ्कादीनिति ॥
आह सुहे परिणामे पइसमयं कम्मखवणओ कह णु । होइ तह संकिलेसो जत्तो एए अईयारा ॥ ९७ ॥ [ आह शुभे परिणामे प्रतिसमयं कर्मक्षपणतः कथं नु । भवति तथा संशो यत एते ऽतिचाराः ॥ ९७ ॥ ] एवं सातिचारे सम्यक्त्वे उक्ते सति पर आह । शुभे परिणामे सम्यक्त्वे सति प्रशमसंवेगादिलक्षणे प्रतिसमयं समयं समयं प्रति कर्मक्षपणतः विशिष्टकर्मक्षपणात् मिथ्यादृष्टेः सकाशात्सम्यग्दृष्टिविशिष्टकर्मक्षपणक एवेत्युक्तं कथं केन प्रकारेण नु इति क्षेपे भव ति तथा संक्केशो जायते चित्तविभ्रमः यतो यस्मात्संक्केशादेते शंकादयोऽतिचारा भवन्ति ततश्चानुत्थानमेवैतेषामिति पराभिप्रायः अत्र गुरुर्भणति ॥ नाणावरणादुदयातिविवागा उभंसणा तेसिं सम्मत्तपुग्गलाणं तहासहावाउ किं न भवे ॥ ९४ ॥ [ ज्ञानावरणाद्युद्यात्तीत्रविपाकात्तु भ्रंशना तेषाम् । सम्यक्तपुद्गलानां तथास्वभावत्वात् किं न भवति ॥ ९८ ॥]
Page #77
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञत्याख्यप्रकरणं । ज्ञानावरणाादयात्किंविशिष्टात्तीव्रविपाकात्, न तु मंदविपा कात्तस्मिन् सत्यपि अतिचारानुपपत्तेः सम्यग्दर्शनिनामपि मन्दविपाकस्य तस्य उदयात्, अतस्तीत्रानुभावादेव भ्रंशना स्वस्वभावच्युतिरूपा तेषां सम्यक्त्वपुद्गलानां तथास्वभावत्वान्मिथ्यात्वदलिकत्वात् जायत इति वाक्यशेषः अतः किं न भवत्यसौ संक्लेशो यत एतेऽतिचारा भवन्त्येवेत्यभिप्रायः ॥ उक्तं च प्रज्ञापनायां कर्मप्रकृतिपदे बन्धचिन्तायां "कहन्नं भंते जीवे अट्टकम्मप्पगडीउ बंधइ गोयमा णाणावरणिजस्स कम्मस्स उदएणं दंस. णावरणिजं कम्मं नियच्छइ दसणावरणिज्जस्स कम्मस्स उदयेणं दंसणमोहणिजं कम्मं नियच्छइ दंसणमोहणिजस्स कम्मस्स उदएणं मिच्छत्तं णियच्छइ मिच्छत्तेणं उदिनेणं एवं खलु जीवे अट्टकम्मपगडीउ बंधइत्ति" । तत्र , नेगंतेणं चिय जे तदुदयभेया कुणंति ते मिच्छं।
ततो हुंतिऽइयारा वज्जेयवा पयतेणं ॥ ९९ ॥ [नैकान्तेनैव ये तदुयभेदाः कुर्वन्ति तान् मिथ्यात्वम् । . तत्तो भवन्त्यतिचारा वर्जयितव्याः प्रयत्नेन ॥ ९९ ॥]
नैकान्तेनैव न सर्वथैव येतदुदयभेदा ज्ञानावरणाद्युदयप्रकाराः कुर्वन्ति तान् सम्यक्त्वपुद्गलान् मिथ्यात्वं अपि तु भ्रंशनामात्रमेव तत्तस्मात् ज्ञानावरणायुदयाद्भवन्त्यतिचाराः शङ्कादयः ते च वर्जयितव्याः प्रयत्नेनेति ॥
Page #78
--------------------------------------------------------------------------
________________
६६
सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं ।
जे नियमवेयणिज्जस्स उदयओ होन्ति, तह कहं तेउ वज्जिज्जंति इह खलु, सुद्धेणं जीवविरिएणं ॥१००॥ [ ये नियमवेदनीयस्योद्यतो भवन्ति तथा कथं पुनस्ते । वर्जन्ते इह खलु शुद्धेन जीववीर्येण ॥ १०० ॥ ]
स्यादेतत् ये शङ्कादयो नियमवेदनीयस्य ज्ञानावरणादेरुदयतो भवन्ति, तथा तेन प्रकारेण कथं पुनस्ते वर्जन्ते इह प्रक्रमे प्रस्तावे, खलुशब्दादन्यत्रापि चारित्रादौ तत्कर्मणो अफलत्वप्रसङ्गात्, इति आशङ्कयाह, शुद्धेन जीववीर्येण कथंचित्प्रादुर्भूतेन प्रशस्तेनात्मपरिणामेनेति ॥ अमुमेवार्थं समर्थयन्नाह ॥
कत्थइ जीवो बलीओ, कत्थइ कम्माइ हुंति बलियाई । जम्हा णंता सिद्धा, चिट्ठेति भवंमि वि अनंता ॥१०१॥ [ क्वचित् जीवो बलीकः क्वचित्कर्माणि भवन्ति बलवन्ति । यस्मादनन्ताः सिद्धाः तिष्ठन्ति भवेऽप्यनन्ताः १०१]
कचिज्जीवो बली स्ववीर्यतः क्लिष्टकर्माभिभवेन सम्यग्दर्शनाद्यवाया अनन्तानां सिद्धत्वश्रवणात्, क्वचित्कर्माणि भवन्ति बलवन्ति यस्मादेवं वीर्यवन्तोऽपि ततोऽनन्तगुणाः कर्मानुभावतः संसार एव तिष्ठन्ति प्राणिन इति, तथा चाह, यस्मादनन्ताः सिद्धास्तिष्ठन्ति भवेऽप्यनन्ता इति एतदेव प्रकटयति ।
अच्चंतदारुणाई कम्माई खवित्तु जीवविरिणं । सिद्धिमणंता सत्ता पत्ता जिणवयणजणिएणं ॥ १०२ ॥
Page #79
--------------------------------------------------------------------------
________________
सटीकश्श्रावकप्रज्ञयाख्यप्रकरणं ।
६७
[ अत्यन्तदारुणानि कर्माणि क्षपयित्वा जीववीर्येण । सिद्धिमनन्ताः सत्वाः प्राप्सा जिनवचनजनितेन ॥१०२॥ ] अत्यन्तदारुणानि क्लिष्टविपाकानि कर्माणि ज्ञानावरणादीनि क्षपयित्वा जीववीर्येण प्रलयं नीत्वा शुभात्मपरिणामेन सिद्धिं मुक्तिं अनन्ताः सत्त्वाः प्राप्ताः जिनवचनजनितेन जीववीर्येण, इह वैराग्यहेतुः सर्वमेव वचनं जिनवचनमुच्यत इति । तत्तोपंतगुणा खलु कम्मेण विणिज्जिआ इह अडंति । सारीरमाणसाणं दुक्खाणं पारमलहंता ॥ १०३ ॥ [ ततो ऽनन्तगुणाः खलु कर्मणा विनिर्जिता इह अवन्ति । शारीरमानसानां दुःखानां पारमलभमानाः ॥ १०३ ॥ ]
ततः सिद्धिमुपगतेभ्यः सकाशादनन्तगुणा एव कर्मणा विनिर्जिताः सन्त इह संसारेऽटन्ति, यस्मादनादिमतापि कालेनैकस्य निगोदस्यानन्तभागः सिद्ध:, असङ्ख्येयाश्च निगोदा इति, कथमटन्तीत्यत्राह ॥ शारीरमानसानां दुःखानां पारमलभमानाः, तत्र शारीराणि ज्वरकुष्ठादीनि, मानसानीष्टवियोगादीनं, उपसंहरन्नाह ॥
तम्हा निच्चसईए बहुमाणेणं च अहिगयगुणमि । पडिवक्खदुर्गच्छाए परिणइ आलोयणेणं च ॥ १०४ ॥ [ तस्मान्नित्यस्मृत्या बहुमानेन चाधिकृतगुणे | प्रतिपक्षजुगुप्सया परिणत्यालोचनेन च ॥ १०४ ॥ ]
१ मानसानि प्रियविप्रयोगादीनि ।
Page #80
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं ।
यस्मादेवं तस्मान्नित्यस्मृत्या सदा अविस्मरणेन बहुमानेन च भावप्रतिबन्धेन चाधिकृतगुणे सम्यक्त्वादौ तथा प्रतिपक्षजुगुप्सया मिथ्यात्वााद्वेगेन, परिणत्यालोचनेन च तेषामेव मिथ्यात्वादीनां । दारुणफला एते इति विपाकालोचनेन चेति ॥ तीत्थंकरभतीए, सुसाहुजणपज्जुवासणाए य ।
उत्तरगुणसद्धाए, अपमाओ होइ कायबो॥१०५ ॥ [तीर्थकरभक्त्या सुसाधुजनपर्युपासनया च । उत्तरगुणश्रद्धयाप्रमादो भवति कर्तव्यः ॥ १०५॥] तथा तीर्थकरभत्त्या परमगुरुविनयेन, सुसाधुजनपर्युपासनया च भावसाधुसेवनया, तथोत्तरगुणश्रद्धया च सम्यक्त्वे सत्यणुव्रताभिलाषेण तेषु सत्सु महाव्रताभिलाषेणेति भावः, एवमेतेन प्रका- . रेणाप्रमादो भवति कर्तव्य एवमप्रमादवानियमवेदनीयस्यापि कमणोऽपनयति शक्तिमित्येष शुद्धस्य जीववीर्यस्य करणे उपाय इति । __सांप्रतं द्वादशप्रकारं श्रावकधर्ममुपन्यस्यता यदुक्तं पञ्चाणुव्रतादीनीति तान्यभिधित्सुराह ॥ पंच उ अणुब्बयाई थूलगपाणिवहविरमणाईणि ।
तत्थ पढम इमं खलु पन्नतं वीयरागेहिं ॥ १०६ ॥ [पञ्च त्वणुव्रतानि स्थूलप्राणवधविरमणादीनि । तत्र प्रथमं इदं खलु प्रज्ञप्तं वीतरागैः ॥ १०६॥] पञ्च त्वणुव्रतानि, तुरेवकारार्थः, पञ्चैव, अणुत्वमेषां सर्वविरति
Page #81
--------------------------------------------------------------------------
________________
सटीकश्रावकमज्ञप्त्याख्यप्रकरणं। लक्षणमहाव्रतापेक्षया, तथा चाह,स्थूरप्राणवधविरमणादीनि स्थूरकप्राणिप्राणवधविरमणमादिशब्दात्स्थूरमृषावादादिपरिग्रहः, तत्र तेष्वणुव्रतेषु प्रथममाद्यमिदं खल्विति इदमेव वक्ष्यमाणलक्षणं, शेषाणामस्यैव वस्तुत उत्तरगुणत्वात्, प्रज्ञप्तं वीतरागैः प्ररू. पितमर्हद्भिरिति ॥
थूलगपाणिवहस्साविरई, दुविहो अ सो वहो होइ। संकप्पारंभेहि य,वज्जइ संकप्पओ विहिणा ॥१०७॥ [स्थूरमाणवधस्य विरतिः द्विविधश्वासौ वधो भवति । संकल्पारम्भाभ्यां वर्जयति संकल्पतः विधिना॥१०७॥]
स्थूरकप्राणवधस्य विरतिः, स्थूरा एव स्थूरका द्वीन्द्रियादयस्तेषां प्राणाः शरीरेन्द्रियोच्छासायुर्बललक्षणास्तेषां वधः जिघांसनं तस्य विरतिनिवृत्तिरित्यर्थः, द्विविधश्चासौ वधो भवति, कथं संकल्पारम्भाभ्यां, तत्र व्यापादनाभिसंधिः संकल्पः, कृष्यादिकस्त्वारम्भः, तत्र वर्जयति संकल्पतः, परिहरति असौ श्रावकः प्राणवधं संकल्पेन, न त्वारम्भतोऽपि, तत्र नियमात् प्रवृत्तेः, विधिना प्रवचनोक्तेन वर्जयति न तु यथाकथंचिदिति, स चायं विधिः॥
उवउत्तो गुरुमूले संविग्गो इतरं व इयरं वा।
अणुदियहमणुसरंतो पालेइ विसुद्धपरिणामो॥१०॥ [उपयुक्तो गुरुमूले संविग्नो इत्वरं इतरहा। अनुदिवसमनुस्मरन् पालयति विशुद्धपरिणामः॥१०८॥]
Page #82
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं ।
उपयुक्तोऽन्तःकरणेन समाहितो, गुरुमूले आचार्यसन्निधौ, संविग्नो मोक्षसुखाभिलाषी न तु रिद्धिकाम इत्वरं चातुर्मासादिकालावधिनां, इतरद्वा यावत्कथिकमेव, प्राणवधं वर्जयतीति वर्तते, एवं वर्जयित्वानुदिवसमनुस्मरन, स्मृतिमूलो धर्म इति कृत्वा, पालयति विशुद्धपरिणामः, न पुनस्तत्र चेतसापि प्रवर्तत इति ॥
.७०
अत्राह
देसविरइपरिणामे सइ किं गुरुणा फलस्त भावाओ । उभयलिमंथदोसो निरत्थओ मोहलिंगं तु ॥ १०९॥ [ देशविरतिपरिणामे सति किं गुरुणा फलस्याभावात् । उभयलिमन्थदोषः निरर्थको मोहलिंगं तु ॥ १०९ ॥ ]
इह श्रावको यदाणुव्रतं प्रतिपद्यते तदास्य देशविरतिपरिणामः स्याद्वा न वा किं चात उभयथापि दोषः तमेवाह देशविरतिपरिणामे सति, स्वत एव तथाविधाणुत्रतरूपाध्यवसाये सति, किं गुरुणा, किमाचार्येण यत्संनिधौ तद्गृह्यते कुतः फलस्याभावात्तत्संनिधावपि प्रतिपत्तुः स एव फललाभः स च स्वत एव संजात इत्यफला गुरुमार्गणा किं च उभयपालिमन्यदोषः तथाविधाणुव्रत रूपाध्यवसाये सत्येव गुरुसंनिधौ तत्प्रतिपत्त्यभ्युपगमे उभयोराचार्यशिष्ययोर्मुधाव्यापारदोषः स च निरर्थको मोहलिंग एव न हि अमूढस्य प्रयोजनमन्तरेण प्रवृत्तिरिति ॥ द्वितीयं विकल्पमुररीकृत्याह ।
१ कालं विधिना
Page #83
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। दुन्हवि य मुसावाओ तयभावे पालणस्स वि अभावो।
न य परिणामेण विणा इच्छिज्जइ पालणं समए११० [छयोरपि मृषावादः तदभावे पालनस्याप्यभावः।
न च परिणामेन विना इष्यते पालनं समये ॥ ११०॥] . यदि न देशविरतिपरिणाम एव तर्हि द्वयोरपि प्रतिपत्तृप्रतिपादकयोः शिष्याचार्ययोः मृषावादः शिष्यस्यासदभ्युपगमाद्गुरोश्चासदभिधानादिति किं च तदभावे देशविरतिपरिणामस्याभावे पालनस्यापि व्रतसंरक्षणस्याप्यभावः एतदेव स्पष्टयति न च नैव परिणामेनानन्तरोदितेन विना इष्यतेऽभ्युपगम्यते पालनं संरक्षणं, व्रतस्येति प्रक्रमाद्गम्यते, समये सिद्धान्ते, परमार्थेन तस्यैव व्रतत्वादिति। एवं पराभिप्रायमाशङ्कय, पक्षद्वयेऽप्यदोष इत्यावेदयन्नाह
संते विय परिणामे गुरुमूलपवज्जणंमि एस गुणो। दृढया आणाकरणं कम्मखओवसमवुड़ी य॥१११॥ [सत्यपि च परिणामे गुरुमूलप्रतिपादने एष गुणः। दृढता आज्ञाकरणं कर्मक्षयोपशमवृद्धिश्च ॥ १११॥]
सत्यपि च परिणामे देशविरतिरूपे, गुरुमूलप्रतिपादने आचायसन्निधौ प्रतिपत्तिकरणे, एष गुण एषोऽभ्युच्चयः, यदुत दृढता तस्मिन्नेव गुणे दाय; तथाज्ञाकरणं अहंदाज्ञासंपादनं, यतस्तस्यैष उपदेशो गुरुसन्निधौ व्रतग्रहणं कार्यमिति, तथा कर्मक्षयोपशमवृद्धिश्च तथाकरणे दायाज्ञासंपादनशुभपरिणामतः अधिकतरक्षयोपशमोपपत्तेरिति ॥
Page #84
--------------------------------------------------------------------------
________________
७२ सटीकश्नावकप्रज्ञप्त्याख्यप्रकरणं । इय अहिए फलभावे न होइ उभयपलिमंथदोसो उ। तयभावम्मि विदुन्हवि न मुसावाओवि गुणभावा११२ [इय अधिके फलभावे न भवति उभयपलिमन्थदोषः। तद्भावेऽपि द्वयोरपिन मृषावादोऽपिगुणभावात्११२]
इय एवमधिके फलभावे पूर्वावस्थातः अभ्यधिकतरायां फलसत्तायां, न भवति न जायते, उभयपलिमन्थदोषः शिष्याचार्ययोमुंधाव्यापारदोष इत्यर्थः । एवं परिहतः प्रथमो विकल्पः ॥ द्वितीयमधिकृत्याह । तदभावेऽपि देशविरतिपरिणामाभावेऽपि, द्वयोरपि प्रत्याख्यातृप्रत्याख्यापयित्रोगुरुशिष्ययोर्न मृषावादोऽपि प्राकचोदितः कुतो गुणभावाद्गुणसंभवादिति । गुणभावमेवाह ॥ तग्गहणउ च्चिय तओ जायइ कालेण असठभावस्स । इयरस्स न देयं चिय सुद्धो छलिओ वि जइ असढो११३ [तगृहणत एव तको जायते कालेनाशठभावस्य । इतरस्य न देयमेव शुद्धः छलितोऽपि यतिरशठः११३]
तद्हणत एव विधिना गुरुसन्निधौ व्रतग्रहणादेव तको जायते कालेन असौ देशविरतिपरिणामो भवति कालेन तत् गुरुसन्निधिकारणत्वादित्यर्थः। किविशिष्टस्य अशठभावस्य श्राद्धस्य सत्त्वस्य शठविषयं दोषमाशङ्कयाह, इतरस्य शठस्य न देयमेव, व्रतं अस्थानदाने भगवदाशातनाप्रसङ्गात्, तदज्ञानविषयं दोषमाशङ्कयाह, शुद्धः छलितोऽपि यतिरशठः छद्मस्थप्रत्यपेक्षणया कृतयत्नो,
१ तत्कारणत्वादित्यर्थ
Page #85
--------------------------------------------------------------------------
________________
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
७३
मायाविना कथंचिद्व्यंसितोऽपि विप्रतारितोऽप्यार्जवः साधुरदोषवानेव, आज्ञानतिक्रमादिति ॥
अपरस्त्वाह ।
थूलगपाणाइवायं पञ्चरकंतस्स कह न इयरंमि । हो म जस्स वितिविहेण तिदंडविरयस्स ११४ [ स्थूरकप्राणातिपातं प्रत्याचक्षाणस्य कथं नेतरस्मिन् । भवत्यनुमतिर्यतेः त्रिविधेन त्रिदण्डावेरतस्य ॥ ११४ ॥ ] स्थूरकप्राणातिपातं द्वीन्द्रियादिप्राणजिघांसनं प्रत्याचक्षाणस्य तद्विषयां निवृत्तिं कारयतः कथं नेतरस्मिन् कथं न सूक्ष्मप्राणातिपाते भवत्यनुमतिर्यतेर्भवत्येवेत्यभिप्रायः, किंविशिष्टस्य यतेस्त्रिविधेन त्रिदण्डविरतस्य मनसा वाचा कायेन सावद्यं प्रति कृतकारितानुमतिविरतस्य, तथा चान्यत्रापि निषिद्ध एव यतेरेवं जातीयोऽर्थः, यत उक्तं “माणुमती केरिसा तुम्हे "त्ति ॥ अत्र गुरुराह
अविहीए हो चि विहीर नो सुयविसुद्धभावस्स । गाहावइसुअचोरग्गहणमोअणा इत्थ नायं तु ॥ ११५ ॥ [ अविधिना भवत्येव विधिना न श्रुतविशुद्धभावस्य । गृहपतिसुत चोरग्रहणमोचनं अत्र ज्ञातं तु ॥ ११५ ॥ ]
अविधिना भवत्येव अणुव्रत ग्रहणकाले सम्यगनाख्याय संसारासारताख्यापनपुरःसरं साधुधर्म प्रमादतोऽणुव्रतानि यच्छतो भवत्येवानुमतिः, विधिना पुनः साधुधर्मकथनपुरःसरेण नेति न भव
Page #86
--------------------------------------------------------------------------
________________
७४
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। त्यनुमतिः, किंविशिष्टस्य श्रुतविशुद्धभावस्य तत्वज्ञानान्मध्यस्थस्येत्यर्थः, अस्मिन्नेवार्थे दृष्टान्तमाह, गृहपतिसुतचोरग्रहणमोचना अत्र ज्ञातमिह उदाहरणमित्यर्थः, तच्चेदं
वंसतउरं नगरं, जियसत्तू राया धारिणी देवी दणहातिसएण परितुट्ठो से भत्ता, भणियाय णेण,भण किं ते पियं कीरउ,तीएभणियं, कोमुदीए अंतेउराणं जहिच्छा पयारेण निसि ऊस्सवपसाउत्ति । पडिसुयमणेण । समागओ सो दियहो । कारावियं च अणेण घोसणं, जहा जो एत्थ अन्ज पुरिसो वसिही तस्स मए सारीरो णिग्रहो कायव्वो, उग्गदंडो य रायत्ति । ततो णिग्गया सबे पुरिसा णवरमेगस्स सेट्ठिणो छ पुत्ता संववहारवावडयाए लहु,ण णिग्गया । ढकिया पओलिओ । भएण तत्थेव, खुसिया, वत्तो रयणीऊसवो । बीयदिवहे य पउत्ता चारिया गवेसह को ण णिग्गउत्ति । तेहिं निउणबुद्धीए गवेसिऊण साहियं रन्नो, अमुगसेट्ठिस्स छसुया ण णिग्गयत्ति । कुविओ राया भणियं चाणेण वावाएह ते दुरायारे । गहियो ते रायपुरिसेहिं । . एयं वायं णिऊण णरवईसमीवं समागओ तेर्सि पिया । विनतो यण राया देव खमसु एगमवराह, मुयह एक्कवारं मम एए । मा अन्नो वि एवं काहित्ति ण मुयई राया। पुणो पुणो भन्नमाणेण मा कुलखओ भवउत्ति मुक्को से जेट्टपुत्तो, वावाइया इयरे । ण य समभावस्स सव्वपुत्तेसु सेहिस्स सेसवावायणेसु अणुमई त्ति ॥ एस दिलुतो इमो एयस्स उवणओ। रायातुल्लो सावगो, वावाइजमाणवणियतुल्ला जीवणिकाया, पियतुल्लो साहू, विनवणतुल्ला अ
Page #87
--------------------------------------------------------------------------
________________
७५
संटीकश्रावकप्रज्ञाप्याख्यप्रकरणं। गुवयगहणकाले साधुघम्मदेसणा । एवं च असुयणे वि सावगस्स ण साधुस्स दोसो॥ न चैतत्स्वमनीषिकया परिकल्पितं उक्तं च सूत्रकृताङ्गे "गाहावइसुयचोरग्गहणविमोक्खणयाएत्ति” एतत्संग्राहकं चेदं गाथात्रयम् ॥ देवीतुट्ठो राया ओरोहस्स निसि ऊसवपसाओ।
घोसण नरनिग्गमणं छब्बणियसुयाणनिखेवो॥११६॥ [देव्यै तुष्टो राजा अन्तःपुरस्य निशि उत्सवप्रसादः ।
घोषणनरनिर्गमनं षड्वणिक्सुतानामनिक्षेपः ॥११६॥] .. चारियकहिए वज्झा मोएइ पिया न मिलइ राया।
जिट्ठमुयणे समस्सउ नाणुमई तस्स सेसेसु॥११७॥ [चारिककथिते वध्या मोचयति पिता न मुञ्चतिराजा। ज्येष्ठमोचने समस्य तु नानुमतिः तस्य शेषेषु॥ ११७॥] राया सडो वणिया काया साहू य तेसि पियतुल्लो।
मोयइ अविसेसेणं न मुयइ सो तस्स किं इत्थ११६ [राजा श्राद्धः वणिकपुत्राः कायाःसाधुश्च तेषां पितृतुल्यः मोचयति अविशेषेण न मुञ्चति स, तस्य किमत्र॥११८॥] एतद्गतार्थमिति न व्याख्यायते णवरमोरोहो अंतेउरं भन्नइ ॥
सांप्रतमन्यद्वादस्थानकं तसपाणघायविरई ततो थावरगयाण वहभावा। नागरगवहनिवित्तीनायाओ केइ नेच्छंति ॥११९ ॥
Page #88
--------------------------------------------------------------------------
________________
७६ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [त्रसप्राणघातविरतिं ततः स्थावरगतानां वधभावात् । नागरकवधनिवृत्तिज्ञाततो केचन नेच्छन्ति ॥ ११९॥] त्रसप्राणघातविरतिंद्वीन्द्रियादिप्राणव्यापत्तिनिवृत्तिं ततस्तस्मात्र- . सकायात् स्थावरगतानां पृथिव्यादिसमुत्पन्नानां वधभावाद्यापत्तिसंभवान्नागरकवधनिवृत्तिज्ञाततोनागरकवधनिवृत्त्युदाहरणेनकेचन वादिनो नेच्छन्ति नाभ्युपगच्छन्तीति गाथाक्षरार्थः,भावार्थत्वाह।
पच्चस्कायंमि इहं नागरगवहम्मि निग्गयं पितओ। तं वहमाणस्स न किं जायइ वहविरइभंगो उ॥१२०॥ [प्रत्याख्याते इह नागरकवधे निर्गतमपि ततः । तं नतो न किं जायते वधविरतिभङ्गः ॥ १२० ॥]
प्रत्याख्याते इह परित्यक्ते अत्र कस्मिन्नागरकजिघांसने निर्गतमपि निःक्रान्तमपि ततो नगरात् तं नागरकं नतो व्यापादयतो ऽन्यत्रापि न किं जायते वधविरतिभङ्गः प्रत्याख्यानभङ्गो जायत एवेति । इत्थं दृष्टान्तमभिधाय अधुना दार्शन्तिकयोजनां कुर्वन्नाह॥
इय अविसेसा तसपाणघायविरई काउ तं ततो। थावरकायमणुगयं वहमाणस्स धुवो भंगो ॥१२१॥ [इय अविशेषात् सप्राणघातविरतिं कृत्वा तं ततः। स्थावरकायमनुगतं नतो ध्रुवो भङ्गः॥ १२१ ॥] इय एवमविशेषात्सामान्येनैव त्रसप्राणघातविरतिमपि कृत्वा १ प्राणातिपात.
Page #89
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञत्याख्यप्रकरणं ।
तंत्रसं ततस्त्रसकायात् द्वीन्द्रियादिलक्षणात् स्थावरकायमनुगतं विचित्रकर्मपरिणामात्पश्चात्पृथिव्यादिषूत्पन्नं नतो व्यापादयतो ध्रुवो भङ्गोऽवश्यमेव भङ्गो निवृत्तेरिति । संभवति चैतद्यत्रसोऽपि मृत्वा श्रावकारम्भविषये स्थावरः प्रत्यागच्छति स च तं व्यापादयतीति ततश्च विशेष्यप्रत्याख्यानं कर्तव्यमनवद्यत्वादिति । आह च
७७
तसभूयपाणविरई तब्भावंभि वि न होइ भंगाय । खीरविगइपञ्चखाणे दहियपरिभोगकिरिय व १२२ [त्रसभूतप्राणविरतिः तद्भावे ऽपि न भवति भङ्गाय । क्षीरविकृतिप्रत्याख्यातृदधिपरिभोगक्रियावत् ॥१२२॥] त्रसभूतप्राणविरतिस्त्रसपर्यायाध्यासितप्राणवधनिवृत्तिः तद्भावेsपि स्थावर गतव्यापत्तिभावेऽपि न भवति प्रत्याख्यानभङ्गाय विशेष्यकृतत्वात् किंवत् क्षीरविकृतिप्रत्याख्यातृदधिपरिभोगक्रियावत् न हि क्षीरविकृतिप्रत्याख्यातुर्दधिपरिभोगक्रिया प्रत्याख्यानभङ्गाय क्षीरस्यैव दधिरूपत्वापत्तावपि विशेष्यप्रत्याख्यानादिति ॥ उपसंहरन्नाह ॥
तम्हा विसेसिणं इय विरई इत्थ होइ कायब्वा । अब्भरकाणं दुन्हवि इय करणे नावगच्छति ॥ १२३ ॥ [ तस्माद्विशिष्य इय विरतिरत्र भवति कर्तव्या । अभ्याख्यानं द्वयोरपि इयकरणे नावगच्छन्ति ॥ १२३ ॥ ] यस्मादेवं तस्माद्विशिष्य भूतशब्दोपादानेन इय एवं विरति -
१ प्रत्याख्यातत्त्वादिति
Page #90
--------------------------------------------------------------------------
________________
७८
सटीकश्रावकप्रज्ञत्याख्यप्रकरणं ।
निवृत्तिरत्र प्राणातिपाते भवति कर्तव्या अन्यथा भङ्गप्रसङ्गात् । इति पूर्वपक्षः । अत्रोत्तरमाह । अभ्याख्यानं तद्गुणशून्यत्वेऽपि तद्गुणाभ्युपगमलक्षणं द्वयोरपि प्रत्याख्यातृप्रत्याख्यापयित्रोराचाश्रावकयोः इयकरणे भूतशब्दसमन्वितप्रत्याख्यानासेवने नाव - गच्छन्ति नावबुध्यन्ते पूर्वपक्षवादिन इति ॥ तथा चाह ॥
(
ओवंमे तादत्थे व हुज्ज एसित्य भूयसहो ति । उभओ ओगकरणं न संगयं समयनीईए ॥ १२४ ॥ [ औपम्ये तायै वा भवेदेषो ऽत्र भूतशब्द इति । उभयथा प्रयोगकरणं न संगतं समयनीत्या ॥ १२४ ॥] औपम्ये तादर्थे वा भवेदेषोऽत्र प्रत्याख्यानविधौ भूतशब्द इति । उभयथापि प्रयोगकरणमस्य न संगतं समयनीत्या सिद्धान्तव्यवस्थयेतिं गाथाक्षरार्थः ॥ भावार्थमाह ।
ओ मे देसो खलु एसो सुरलोयभूय मो एत्थ । देसु च्चिय सुरलोगो न होइ एवं तसा तेवि ॥१२५॥ [ औपम्ये देशः खल्वेष सूरलोकभूत एव अत्र । देश एव सूरलोको न भवति एवं सास्तेऽपि ॥ १२५ ॥ ]
औपम्ये उपमाभावे भूतशब्दप्रयोगो यथा देशः खल्वेष लाटदेशादिः ऋध्यादिगुणोपेतत्वात्सुरलोकोपमः मो इत्यवधारणार्थो निपातः सूरलोकभूत एव अत्रास्मिन् पक्षे देश एव सुरलोको न १ व्यवस्थित्येति
Page #91
--------------------------------------------------------------------------
________________
सटीकश्रावकमज्ञप्याख्यप्रकरणं । भवति तेनोपमीयमानत्वाद्देशस्य एवं प्रसास्ते ऽपि यद्विषया निवृत्तिः क्रियते ते ऽपि त्रसा न भवन्ति त्रसभूतत्वात्रसैरुपमीयमानत्वादिति । ततः किमित्याह ।
अतसवहनिवित्तीए थावरघाए वि पावए तस्स ।
वहविरइभंगदोसो अतसता थावराणं तु ॥ १२६ ॥ [अवसवधनिवृत्तौ स्थावरघाते ऽपि प्रामोति तस्य । वधविरतिभङ्गदोषो ऽत्रसत्वात्स्थावराणां तु ॥१२६॥]
उक्तन्यायादत्रसवधनिवृत्तौ सत्यां स्थावरवधेऽपि कृते प्रामोति तस्य निवृत्तिकर्तुर्वधविरतिभङ्गदोषः कुतः अत्रसत्वात्स्थावराणामेव अत्रसाश्च त्रसभूता भवन्तीति अवसितः औपम्यपक्षः। सांप्रतं तादर्थ्यपक्षमाह। तादत्थे पुण एसो सीईभूयमुदगंति निदिहो।.
तजाइअणुच्छेया न य सो तसथावराणं तु॥१२७॥ [तायें पुनरेष शीतीभूतमुकमिति निर्दिष्टः । तजात्यनुच्छेदात् न चासौ बसस्थावरयोस्तु ॥१२७॥ ] तादर्थ्य पुनस्तदर्थभावे पुनरेष भूतशब्दप्रयोगः शीतीभूतमुदकमुष्णं सत्पर्यायान्तरमापन्नमिति निर्दिष्टस्तल्लक्षणः एवं प्रतिपादितः तजात्यनुच्छेदात् अत्रापि तदुदकजात्यनुच्छेदेनैवोष्णं सच्छीतीभूतं न चासौ जात्यनुच्छेदत्रसस्थावरयोर्भिन्नजातित्वादिति ॥
.
.
Page #92
--------------------------------------------------------------------------
________________
८० . सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। सिय जीवजाइमहिगिच्चअस्थि किं तीइ अपडिकुट्ठाए। भूअगहणेवि एवं दोसो अणिवारणिज्जो ओ॥१२८॥ [स्थाजीवजातिमधिकृत्यास्ति किं तया अप्रतिकुष्टया ।
भूतग्रहणे ऽप्येवं दोषो ऽनिवारणीय एव ॥ १२८ ॥] स्याजीवजातिमधिकृत्यास्ति जात्यनुच्छेदः द्वयोरपि जीवत्वानुच्छेदादित्याशङ्कयाह किं तया जीवजात्या अप्रतिकुष्टया अनिषिद्धया न तेन जीवजातिवधविरतिः कृता येन सा चिन्त्यते ततश्च भूतग्रहणेऽप्येवमुक्तन्यायात् दोषोऽनिवारणीय एवेति, किंच॥ तसभूयावि तसच्चिय जं ता किं भूयसद्दगहणेणं ।
तब्भावओ अ सिद्धे हंत विसेसत्थभावम्मि ॥१२९॥ [सभूता अपि वसा एव यत्तत्किं भूतशब्दग्रहणेन । तद्भावत एव सिद्धे हंत विशेषार्थभावे ॥ १२९ ॥]
त्रसभूता अपि वस्तुस्थित्या त्रसा एव नान्ये यद्यस्मादेवं तत्तस्मात्किं भूतशब्दग्रहणेन न किंचिदित्यर्थः तद्भावत एव त्रसभावत एव सिद्धे हन्त विशेषार्थभावे त्रसपर्यायलक्षणे, न हि त्रसपर्यायशून्यस्य त्रसत्वमिति ॥ किं च ।
थावरसंभारकडेण कम्मणा जं च थावरा भणिया। इयरेणं तु तसा खलु इतो च्चिय तेसि भेओउ॥१३०॥ स्थावरसंभारकृतेन कर्मणा यच्च स्थावरा भणिताः । इतरेण तु नसाः खलु अत एव तयोर्भेदः ॥ १३० ॥ ]
Page #93
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। स्थावरसंभारकृतेन पृथिव्यादिनिचयनिवर्तितेन कर्मणा यच्च यस्माच्च स्थावरा भणिताः परममुनिभिरिति गम्यते इतरेण तु त्रससंभारकृतेन तुरवधारणे त्रससंभारकृतेनैव त्रसाः खल्विति त्रसा एव खलुशब्दस्यावधारणार्थत्वात् अत एवास्मादेव निमित्तभेदात्तयोस्त्रसस्थावरयोर्भेदः, तस्मिन्सति अनर्थको भूतशब्द इति । इदानीं दृष्टान्तदान्तिकयोर्वैषम्यमाह ॥ नागरगंमि वि गामाइसंकमे अवगयंमि तब्भावे ।
नस्थि हु वहे विभंगो अणवगए किमिह गामेण१३१ [नागरकेऽपि ग्रामादिसंक्रमे अपगते तद्भावे। " नास्त्येव वधेऽपि भङ्गोऽनपगते किमिह ग्रामेण ॥१३१॥]
नागरकेऽपि दृष्टान्ततयोपन्यस्त इदं चिन्त्यते । ग्रामादिसंक्रमे तस्य किमसौ नागरकभावोऽपैति वा न वा । यद्यपैति ततो ग्रामादिसंक्रमे सति, अपगते तद्भावे नागरकभावे नास्त्येव वधेऽपि भङ्गः प्रत्याख्यानस्य तथाभिसन्धेः। अथ नापैत्यत्राह । अनपगते आपुरुषमभिसन्धिना अनिवृत्ते नागरकभावे किमिह ग्रामेण तत्रापि वधविरतिविषयस्तथापुरुषभावानिवृत्तेरिति ॥
न य सइ तसभावंमि थावरकायगयं नु सो वहइ ।
तम्हा अणायमेयं मुद्धमइविलोहणं नेयं ॥ १३२ ॥ [ न च सति त्रसभावे स्थावरकायगतमसौ हन्ति । तस्मादज्ञातमेतत् मुग्धमतिविलोभनं ज्ञेयं ॥ १३२॥ ] न च सति त्रसभावे नैव विद्यमान एव सत्वे स्थावरकायग
६
Page #94
--------------------------------------------------------------------------
________________
८२
सटीक श्रावकप्रज्ञघ्याख्यप्रकरणं ।
तमसौ हन्ति अपरित्यक्ते त्रसत्वे स्थावरकायगमनाभावात् तस्मादज्ञातमेतत् उक्तन्यायादनुदाहरणमेतत् मुग्धमतिविलोभनं ज्ञेयं ऋजुमतिविस्मयकरं ज्ञातव्यमिति ॥
इदानीं अन्यद्वादस्थानकम् ।
अने उ दुहियसत्ता संसारं परिअडंति पावेण । वावायवा खलु ते तरकवणडया बिंति ॥ १३३ ॥ [ अन्ये तु दुःखितसत्त्वाः संसारं पर्यटन्ति पापेन । व्यापादयितव्याः खलु ते तत्क्षपणार्थं ब्रुवते ॥ १३३ ॥] अन्ये तु संसारमोचका ब्रुवत इति योगः । किं ब्रुवत इत्याह दु:खितसत्त्वाः कृमिपिपीलिकादयः संसारं पर्यटन्ति संचारमवगाहन्ते पापेनापुण्येन हेतुना यतश्चैवमतो व्यापादयितव्याः खलु ते खल्वित्यवधारणे व्यापादयितव्या एव ते दुःखितसत्त्वाः, किमर्थमित्याह, तत्क्षपणार्थं पापक्षपणनिमित्तमिति ॥
ता पाणवहनिवित्ती नो अविसेसेण होइ कायवा । अवि अ सुहिए अन्नह करणिज्जनिसेहणे दोसो १३४ [ तत्प्राणवधनिवृत्तिः नो अविशेषेण भवति कर्तव्या अपि च सुखितेषु अन्यथा करणीयनिषेधने दोष: १३४ ] यस्मादेवं तत्तस्मात्प्राणवधनिवृत्तिर्नाविशेषेण भवति कर्तव्या अपि च सुखितेषु सुखितविषये कर्तव्या तद्व्यापादन एव दोषसंभवादन्यथा यद्येवं न क्रियते ततः करणीयनिषेधने दोषः कर्त
Page #95
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
व्यो हि परलोकार्थिना दुःखितानां पापक्षयः तन्निवृत्तिकरणे प्रत्रज्यादिदाननिवृत्तिकरणवद्दोष इत्येष पूर्वपक्षः ॥ अत्रोत्तरमाह ।
तहवहभावे पावरकओति न उ अट्टज्झाणओ बंधो।
तेसिमिह किं पमाणं नारगनाओवगं वयणं ॥१३५॥ [तथावधभावे पापक्षय इति न त्वार्तध्यानतो बन्धः। तेषामिह किं प्रमाणं नारकन्यायोपगं वचनम् ॥१३५॥]
तथा तेन प्रकारेण वधभावे व्यापत्तिकरणे पापक्षय एव न त्वातध्यानतो बन्धस्तेषां दुःखितानामपि किं प्रमाणं न किंचिदित्यर्थः, अत्राह, नारकन्यायोपगं वचनं नारकन्यायानुसारि वचनं प्रमाणमिति । एतदेव भावयति ॥ .. - तेसि वहिजमाण विपरमाहम्मिअसुरेहि अणवरयं ।
रुद्दज्झाणगयाण विन तहा बंधो जहा विगमो॥१३६॥ [तेषां वध्यमानानामपि परमाधार्मिकसुरैरनवरतम् । रौद्रध्यानगतानामपि न तथा बन्धो यथा विगमः१३६]
तेषां नारकाणां वध्यमानानां हन्यमानानामपि कैः परमाधार्मिकसुरैरम्बादिभिरनवरतं सततं रौद्रध्यानगतानामपि न तथा बन्धो यथा विगमः कर्मणो दुःखानुभवादिति गाथार्थः। कथमेतन्निश्चीयत इत्यत्राह।
नरगाउबंधविरहा अणंतरं तमि अणुववत्तीओ। तदभावेवि य खवणं परुष्परं दुककरणाओ॥१३७॥
Page #96
--------------------------------------------------------------------------
________________
८४ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [नरकायुर्वन्धविरहादनन्तरं तस्मिन्ननुत्पत्तेः। तभावेऽपि च क्षपणं परस्परं दुःखकरणात् ॥१३७॥]
नरकायुर्बन्धविरहात् न कदाचिन्नारको नरकायुर्बध्नाति, अत्रैव युक्तिमाह, अनन्तरं नरकोद्वर्तनसमनन्तरमेव तस्मिन्नरक एवानुत्पत्तेरनुत्पादात् न चाव्यवहितमुत्पद्यत इति सिद्धान्तः, ततश्च यथेदं न बध्नाति तथान्यदपीत्यभिप्रायः। तदभावेऽपि च परमाधार्मिकाद्यभावेऽपि च पङ्कादिपृथिवीषु क्षपणं कर्मणस्तेषां परस्परं दुःखकरणादन्योन्यपीडाकरणेन " परस्परोदीरितदुःखाः " ( तत्त्वार्थाधिगमसूत्रम् ३।४) इति वचनात् नान्यनिमित्तं क्षपणमिति स्यादप्रतिष्ठाने नान्यनिमित्तमित्येतदाशङ्कयाह ।
अपइट्ठाणमि वि संकिलेसओ चेव कम्मखवणं ति।
न हि तयभावंमि सुरोतत्थ विय खवेइ तं कम्म१३८ [अप्रतिष्ठानेऽपि संक्लेशत एव कर्मक्षपणमिति । न हि तदभावे सुरस्तत्रापि च क्षपयति तत्कर्म १३८ ]
अप्रतिष्ठानेऽपि सप्तमनरकपृथिवीनरके संक्लेशत एव तथोत्क्षेपनिपातजनितदुःखादेव कर्मक्षपणमिति नान्यथा, न यस्मात्तदभावे संक्लेशाभावे सुरो देवस्तत्रापि नरके यथासंभवं कथंचिद्गतः सन् चशब्दादन्यत्र च संक्लेशरहितः क्षपयति तत्कर्म यत्प्रवाहतो नरकवेदनीयमिति ॥ उपसंहरन्नाह ।
तम्हा ते वहमाणो अदृज्झाणाइगं जणंतो वि । तकम्मरकयोउं न दोसवं होइ णायवो ॥ १३९ ॥ १ सप्तमनरके.
Page #97
--------------------------------------------------------------------------
________________
सटीकश्रावकमज्ञप्त्याख्यप्रकरणं। [तस्मात्तान् भन्नार्तध्यानादिकं जनयन्नपि । तेषां कर्मक्षयहेतुन दोषवान् भवति ज्ञातव्यः ॥१३९॥]
यस्मादेवं तस्मात्तान दुःखितान्प्राणिनः नन् व्यापादयन् आतध्यानादिकं जनयन्नपि आरौिद्रध्यानं चित्रं च संक्लेशं कुर्वन्नपि तेषां कर्मक्षयहेतुस्तेषां दुःखितानां कर्मक्षयनिमित्तमिति कृत्वा न दोषवान् भवति ज्ञातव्यः संसारमोचक इति अयमपि पूर्वपक्षः। अत्रोत्तरमाह। चिट्ठउ ता इह अन्नं तकवणे तस्स को गुणो होइ।
कम्बकउति तं तुह किंकारणगं विणिदिई ॥१४॥ [तिष्ठतु तावदिहान्यत्तत्क्षपणे तस्य को गुणो भवति ।
कर्मक्षय इति तत्तव किंकारणकं निर्दिष्टम् ॥ १४०॥ - तिष्ठतु तावदिह प्रक्रमेऽन्यद्वक्तव्यं तत्क्षपणे दुःखितसत्त्वकर्मक्षपणे तस्य क्षपयितुर्दुःखितसत्त्वव्यापादकस्य को गुणो भवति न हि फलमनपेक्ष्य प्रवर्तते प्रेक्षावानिति, अथैवं मन्यसे कर्मक्षय इति कर्मक्षयो गुण इत्याशङ्कयाह । तत्कर्म तव हे वादिन किंकारणं किंनिमित्तं निर्दिष्टं प्रतिपादितं शास्त्र इति ॥
अन्नाणकारणं जइ तदवगमा चेव अवगमो तस्स । किं वहकिरियाइ तओ विवजओ तीइ अह हेज१४१ [अज्ञानकारणं यदि तदपगमादेवापगमस्तस्य । किं वधक्रियया ततः विपर्ययः तस्या अथ हेतुः॥१४१॥] अज्ञानकारणं अज्ञाननिमित्तं यदि एतदाशङ्कयाह तदपगमा
Page #98
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । आपद्यते, कुतो ऽन्योन्यापेक्षया अविरोधिनमप्यन्यमपेक्ष्यान्यस्य निवृत्तिरन्यं वान्यस्येति शून्यतापत्तिरिति ॥ अहतं अहेउगं चिय कह न अस्थि तिअवगमो कह य। नागासमाइयाणं कुओवि सिद्धो इह विणासो॥१४॥ [अथ तदहेतुकमेव कथं त्वस्तीति अपगमः कथं च । नाकाशादीनां कुतश्चिसिद्ध इह विनाशः॥ १४८॥]
अथैवं मन्यसे तत्कर्माहेतुकमेव निर्हेतुकमेवेत्येतदाशङ्कयाह कथं त्वस्तीति नैवास्ति तदहेतुत्वात् खरविषाणादिवत्,आकाशादिना अहेतुकेन सता व्यभिचारमाशङ्कयाह अपगमः कथं विनाशश्च कथमस्येति एतदेव भावयति नाकाशादीनां नाकाशधर्मास्तिकायप्रभृतीनां कुतश्चिल्लकुटादेः सिद्ध इह विनाशः अहेतुकत्वेन नित्यत्वादिति ॥
इतु छिय अफलता नो कायवो वहुति जीवाणं ।
वहहेउगं चिथ तयं कह निविती तओ तस्स॥१४॥ [अतोऽपि अफलत्वात् न कर्तव्यो वधो जीवानाम् । वधहेतुकमेव तत् कथं निवृत्तिस्ततस्तस्य ॥ १४९ ॥]
अतो ऽपि चाहेतुककर्माविनाशित्वेन अफलत्वात् कर्मक्षयफलशून्यत्वात् न कर्तव्यो वधो जीवानामिति । वधहेतुकमेव तत्स्याद्वधनिमित्तमेव तत्कर्मेत्येतदाशङ्कयाह कथं केन प्रकारेण निवृत्तियावृत्तिस्ततस्तस्माद्वधात्तस्य कर्मणः न हि यद्यतो भवति तत्तत एव न भवति भवनाभावप्रसङ्गादिति ।
Page #99
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञत्याख्यप्रकरणं ।
देवाज्ञाननिवृत्तेरेवापगमस्तस्य निवृत्तिस्तस्य कर्मणः कारणाभावात् कार्याभाव इति न्यायात्किं वधक्रियया ततः अप्रतिपक्षत्वातस्या विपर्ययः तस्या वधक्रियायाः अथ हेतुरवधक्रियैवेति एतदाशङ्कयाह ।
मुताण कम्मबंधो पावइ एवं निरत्यगा मुत्ती । अह तस्स पुन्नबंधो तओ वि न अंतरायाओ ॥ १४२ ॥ [ मुक्तानां कर्मबन्धः प्राप्नोति एवं निरर्थका मुक्तिः । अथ तस्य पुण्यबन्धः तकोऽपि नान्तरायात् ॥ १४२ ॥ ] मुक्तानां कर्मबन्धः प्राप्नोति तस्यावधक्रियानिमित्तत्वात् मुक्तानां चावधक्रियोपेतत्वात् एवं निरर्थका मुक्तिर्बन्धोपद्रुतत्वात् । अथैवं मन्यसे तस्य दुःखितसत्त्व व्यापादकस्य पुण्यबन्धो गुणो न तु कर्मक्षय इत्येतदाशङ्कयाह तकोऽपि न असावपि गुणो नान्तरायात्कारणादिति । एतदेव भावयति ।
"
८६
वहमाणो ते नियमा करेइ वहपुन्नमंतराय से | ता कह णु तस्स पुन्नं तेसिं रकवणं व हेऊओ ॥१४३॥ [नन् तान् नियमात्करोति वधपुण्यान्तरायममीषाम् ।
तत्कथं तु तस्य पुण्यं तेषां क्षपणवदहेतुकत्वात् ॥ १४३ ॥ ] घ्नन् व्यापादयंस्तान् दुःखितसत्त्वान्नियमादवश्यमेव करोति निर्वर्तयति असौ व्यापादकः वधपुण्यान्तरायममीषां दुःखितसत्वानां जीवन्तो हि तेऽन्यदुःखितवधेन पुण्यं कुर्वन्ति व्यापादने च तेषां अन्यवधाभावात्पुण्यान्तरायं यस्मादेवं तत्तस्मात्कथं नु
Page #100
--------------------------------------------------------------------------
________________
सटीकश्रावकमज्ञप्त्याख्यप्रकरणं। ८७ तस्य व्यापादकस्य पुण्यं नैवेत्यर्थः कुतः अहेतुकत्वादिति योगः। न ह्यन्यपुण्यान्तरायकरणं पुण्यहेतुरिति सिद्ध एव हेतुः। दृष्टान्तमाह तेषां क्षपणवत् तेषां दुःखितसत्त्वानां व्यापाद्यमानानां कर्मक्षपणवदिति, अयमत्र भावार्थः, दुःखितसत्त्वव्यापत्त्या कर्मक्षय इत्यभ्युपगमः ततश्च व्यापाद्यमानानामन्यव्यापादनाभावादहेतुकत्वात्कुतः कर्मक्षय इति ।
अह सगयं वहणं चिय हेऊ तस्स ति किं परवहेणं ।
अप्पा खलु हतब्बो कम्मकयमिच्छमाणेणं ॥१४४॥ [अथ स्वगतं हननमेव हेतुस्तस्य इति किं परवधेन। ..
आत्मैव हन्तव्यः कर्मक्षयमिच्छता ॥ १४४॥]
अथैवं मन्यसे स्वगतमात्मगतं हननमेव जिघांसनमेव हेतुस्तस्य कर्मक्षयस्यैतदाशङ्कयाह इति किं परवधेन एवं न किंचित्परव्यापादनेनात्मैव हन्तव्यः कर्मक्षयमिच्छता स्वगतवधस्यैव तन्निमित्तत्वादिति ॥
अह उभयकयहेज वह ति नो तस्स तन्निमिताओ।
अविरुद्धहेउजस्स य न निविती इयरभावेवि॥१४॥ [अथोभयक्षयहेतुर्वध इति न तस्य तन्निमित्तत्वात् ।
अविरुद्धहेतुजस्य च न निवृत्तिरितरभावेऽपि॥१४५॥]
अथैवं मन्यसे उभयक्षयहेतुर्वधः व्यापाद्यव्यापादककर्मक्षयहेतुळपादनं कर्तृकर्मभावेन तदुभयनिमित्तत्वादस्येत्येतदाशङ्कया
Page #101
--------------------------------------------------------------------------
________________
૨૮
सटीकश्रावकप्रज्ञत्याख्यप्रकरणं ।
ह नैतदेवं कुतस्तस्य कर्मणस्तन्निमित्तत्वात्तद्विरुद्धवधक्रियाजन्यत्वात्, यदि नामैवं ततः किमिति अत्राह अविरुद्धहेतुजस्य च निवृत्तिहेतुत्वाभिमताविरुद्धकारणजन्यस्य च वस्तुनो न निवृ तिर्न विनाशः इतरभावेऽपि विनाशकारणाविरोधिपदार्थभावेऽपीति । एतदेव भावयति ॥
हिमजणियं सीयं चिय अवेइ अनलाओ नायवो वेइ । एवं अणन्भुवगमे अइप्पसंगो बला होइ ॥ १४६ ॥ [ हिमजनितं शीतमेवापैत्यनलात् नातपोऽपैति । एवमनभ्युपगमेऽतिप्रसङ्गो बलाद्भवति ।। १४६ ॥ ] हिमजनितं शीतमेवापैत्यनलात् शीतकारणविरोधित्वादनलस्य नातपोऽपैति तत्कारणाविरोधित्वादनलस्य एवमनभ्युपगमे कारणविरोधिनः सकाशान्निवृत्तिरित्यनङ्गीकरणेऽतिप्रसङ्गो बलाद्भवति तन्निवृत्तिवत्तदन्यनिवृत्तिलक्षणा अव्यवस्था नियमेनापद्यत इति । एतदेवाह ।
तभावंमि अजं किंचि वत्थु जत्तो कुओ वि न हविज्जा एवं च सवभावो पावर अन्नुन्नविका ॥ १४७ ॥ [ तदभावेऽपि च यत्किंचित् वस्तुजातं कुतश्चित् न भवेत् । एवं च सर्वाभावः प्राप्नोत्यन्योन्यापेक्षया ॥ १४७ ॥ ] तद्भावेऽपि चातिप्रसङ्गभावे च यत्किंचिदत्र वस्तुजातं यतः कुतश्चित्सकाशान्न भवेत् अप्रतिपक्षादपि निवृत्त्यभ्युपगमात् । अत्रानिष्टमाह, एवं च सति सर्वाभावः प्राप्नोति अशेषपदार्थाभाव
Page #102
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञस्याख्यप्रकरणं । तम्हा पाणवहोवज्जियस्स कम्मस्स कवणहेउता।
तविरई कायवा संवररूव ति नियमेणं ॥ १५० ॥ [ तस्मात्प्राणवधोपार्जितस्य कर्मणः क्षपणहेतुत्वात् । - तद्विरतिः कर्तव्या संवररूपति नियमेन ॥ १५० ॥ .
यस्मादेवं वधहेतुकमेव तत्तस्मात्प्राणवधोपार्जितस्य कर्मणः क्षपणहेतुत्वात्तद्विरतिर्वधविरतिः कर्तव्या संवररूपेति वधविरतिविशेषणा नियमेनावश्यतयेति ॥ किं च सुहिएसु विवहविरई कह कीरइ नत्थि पावमह तेसु। पुन्नकओ वि हु फलं तब्भावे मुतिविरहाओ ॥११॥ [सुखितेष्वपि वधविरतिः किं क्रियते नास्ति पापमथ तेषु। पुण्यक्षयोऽपि फलमेव तद्भावे मुक्तिविरहात् ॥१५॥]
सुखितेष्वपि प्राणिषु वधविरतिापादननिवृत्तिः किं क्रियते भवद्भिर्नास्ति पापं क्षपणीयमथ तेषु सुखितेषु पुण्यनिमित्तत्वात्सुखस्य एतदाशङ्कयाह पुण्यक्षयो ऽपि तद्व्यापत्तिजनितः फलमेव अतस्तेष्वपि वधविरतिप्रसङ्गः कथं पुण्यक्षयः फलं तद्भावे पुण्यभावे मुक्तिविरहात् मोक्षाख्यप्रधानफलाभावात् पुण्यापुण्यक्षयनिमित्तत्वात्तस्येति । अह तं सयं चिय तओ खवेइ इयरं पि किं न एमेव। कालेणं खवइ च्चिय उवक्कमो कीरइ वहेण ॥१५२॥
Page #103
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [अथ तत्वयमेव तकःक्षपयति इतरपि किं न एवमेव। कालेन क्षपयत्येव उपक्रमः क्रियते वधेन ॥ १५२ ॥]
अथैवं मन्यसे तत्पुण्यं स्वयमेव तक आत्मनैवासौ सुखितः क्षपयत्यनुभवेनैव वेदयतीत्येतदाशङ्कयाह इतरदपि पापं किं न एवमेव किं न स्वयमेव दुःखितः क्षपयति क्षपयत्येवेत्यर्थः । अ. थैवं मन्यसे कालेन प्रदीर्घेण क्षपयत्येव नानान्यथाभाव उपक्रमः क्रियते वधेन तस्यैव प्रदीर्घकालवेद्यस्य पापस्य स्वल्पकालवेद्यत्वमापाद्यते व्यापत्तिकरणेनेति एतदाशङ्कयाह ।
इयरस्स किं न कीरइ सुहीण भोगंगसाहणेणेवं।
न गुण ति तंमि खविए सुहभावो चेव ततुति १५३ [इतरस्य किं न क्रियते मुखिना भोगाङ्गसाधनेन एवं । न गुण इति तस्मिन् क्षपिते सुखभावादेव तदिति १५३ ]
इतरस्येति पुण्यस्य किं न क्रियते उपक्रमः सुखिनां भोगाङ्गसाधनेन काश्मीरादेः कुंकुमादिसंपादनेन। अथैवं मन्यसे एवमुपक्रमद्वारेण न गुण इति तस्मिन्पुण्ये क्षपिते कुतः सुखभावादेव तत् इति ततः पुण्यात्सुखस्यैव प्रादुर्भावादिति एतदाशङ्कयाह । निरुवमसुको मुको नय सइ पुन्ने तओ ति किंन गुणो। पावोदयसंदितो इयरंमि उ निच्छओ केण ॥ १५४॥ [निरुपमसौख्योमोक्षानच सति पुण्ये तक इति कथं नगुणः पापोदयसंदिग्ध इतरस्मिन् तु निश्चयः केन ॥ १५४ ॥] निरुपमसौख्यो मोक्षः सकलाबाधानिवृत्तेरुभयसिद्धत्वान्न च
Page #104
--------------------------------------------------------------------------
________________
९२ . सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । सति पुण्ये तकोऽसौ पुण्यक्षयनिमित्तत्वात्तस्येति एवं कथं न गुणः पुण्योपक्रमकरणे गुण एव । अथैवं मन्यसे पापोदयसंदिग्धो ऽसौ न ह्यत्र निश्चय उपक्रमेण पुण्ये क्षपिते तस्य मोक्ष एव भविष्यति न तु पापोदय इति , एतदाशङ्कयाह इतरस्मिन् तु दु:खितपापक्षपणे निश्चयः केन यदुत तस्यैवमेवार्थो न पुनरनर्थ इति एतदेव भावयति ॥ दुहिओ विनरगगामी वहिओ सो अवहिओ बहू अन्ने। वहिऊण न गच्छिज्जा कयाइ ता कह न संदेहो॥१५॥ [दुःखितोऽपि नरकगामी हतः सो ऽहतो बहूनन्यान् । हवा न गच्छेत् कदाचित् तस्मात्कथं न संदेहः १५५]
दुःखितोऽपि मत्स्यबन्धादिर्नरकगामी हतः सन् कदाचित्स्यादिति योगः नरकसंवर्तनीयस्य कर्मणः आसकलनसंभवात् वेद्यमानोपक्रमे च तदुदयप्रसङ्गात् स एवाहतोऽव्यापादितः सन् बहूनन्यान् दुःखितान् हत्वा त्वन्मतेनैव पापक्षयान्न गच्छेत् कदाचित् यस्मादेवं तस्मात्कथं न संदेहः दुःखितपापक्षपणेऽपि संदेह एवेति ॥ अधुना प्रागुपन्यस्तं नारकन्यायमधिकृत्याह ।
नेरइयाण वि तह देहवेयणातिसयभावओ पायं। नाईवसंकिलेसो समोहयाणं व विनेओ॥ १५६ ॥ [नारकानामपि तथा देहवेदनातिशय भावतः प्रायः। नातीवसंक्लेशः समवहतानामिव विज्ञेयः ॥ १५६॥]
Page #105
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। नारकानामप्युदाहरणतयोपन्यस्तानां तथा तेन प्रकारेण नरकवेदनीयकर्मोदयजनितेन देहवेदनातिशयभावतः शरीरवेदनायास्तीवभावेन प्रायो बाहुल्येन नातीवसंक्लेशः क्रूरादिपरिणामलक्षणः समवहतानामिव विज्ञेयः वेदनातिशयेनान्त:करणव्यापाराभिभवादिति एतदेवाह।
इत्थ वि समोहया मढचेयणा वेयणाणभवखिन्ना । तंमितचितकिरिया न संकिलिस्संति अन्नन्थ १५७ [अत्रापि समवहता मूढचेतना वेदनानुभवखिन्नाः। तन्मात्रचित्तक्रिया न संक्लिश्यन्ते अन्यत्र ॥ १५७ ॥]
अत्रापि तिर्यग्लोके समवहता वेदनासमुद्धातेनावस्थान्तरमुपनीता मूढचेतना विशिष्टस्वव्यापाराक्षमचैतन्या वेदनानुभवखिन्नाः तीव्रवेदनासंवेदनेन श्रान्ताः तन्मानचित्तक्रिया वेदनानुभवमात्रचित्तव्यापारा न संक्लिश्यन्ते न रागादिपरिणामं यान्ति अन्यत्र ज्यादौ तत्रैव निरोधादिति। . ता तिवरागदोसाभावे बंधो वि पयणुओ तेर्सि।
सम्मोहओ च्चिय तहा खओ वि णेगंतमुक्कोसो१५६ [तत्तीवरागद्वेषाभावे बन्धोऽपि प्रतनुस्तेषाम् । सम्मोहत एव तथा क्षयोऽपि नैकान्तोत्कृष्टः ॥१५८॥]
यस्मादेवं तत्तस्मात्तीवरागद्वेषाभावे बन्धोऽपि प्रतनुस्तेषां समवहतानां निमित्तदौर्बल्यात् सम्मोहत एव तथा क्षयोऽपि
Page #106
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। बन्धस्य नैकान्तोत्कृष्टस्तेषां सम्यग्ज्ञानादिविशिष्टतत्कारणाभावादिति । यथा नोत्कृष्टक्षयस्तथा चाह ।
जं नेरइओ कम्म खवेइ बहुआहि वासकोडीहिं । तन्नाणी तिहि गुतो खवेइ ऊसासमितेण ॥१५९ ॥ [यन्नारकः कर्म क्षपयति बह्वीभिर्वर्षकोटीभिः । तज्ज्ञानी तिसृभिर्गुप्तः क्षपयत्युच्छासमात्रेण ॥१५९॥ ]
यन्नारकः कर्म क्षपयति बह्वीभिर्वर्षकोटीभिस्तथा दुःखितः सन् क्रियामात्रक्षपणात् तज्ज्ञानी तिसृभिर्गुप्तिभिर्गुप्तः क्षपयत्युच्छासमात्रेण संवेगादिशुभपरिणामस्य तत्क्षयहेतोस्तीव्रत्वात् ॥ निगमयन्नाह।
एएण कारणेणं नेरइयाणं पि पावकम्माणं । तह दुरिकयाण वि इहं न तहा बंधो जहा विगमो १६० [एतेन कारणेन नारकाणामपि पापकर्मणाम् । तथा दुःखितानामपीह न तथा बन्धो यथा विगमः१६०]
एतेनानन्तरोदितेन कारणेन नारकाणामपि पापकर्मणां तथा तेन प्रकारेण दुःखितानामपीह विचारे न तथा बन्धो यथा विगमः प्रायो रौद्रध्यानाभावादिति । अह उ तहाभापि हु कुणइ वहंतो न अनहा जेण । ता कायवो खु तओ नो तप्पडिवकबंधाओ ॥१६१॥
Page #107
--------------------------------------------------------------------------
________________
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
९५
[ अथ तु तथाभावमपि करोति नन्नेव नान्यथा येन । तत्कर्तव्य एव तको नो तत्प्रतिपक्षबन्धात् ॥ १६९ ॥ ] अथैवं मन्यसे तथाभावमपि सम्मोहभावमपि प्रतनुबन्धेन कर्मक्षयहेतुं करोति नन्नेव व्यापादयन्नेव नान्यथा येन कारणेन तत्तस्मात्कर्तव्य एव तको वध इत्याशङ्कयाह नो नैतदेवं तत्प्रतिपक्षबन्धाद्वधप्रतिपक्षोऽवधस्तस्माद्बन्धादन्यथावधात्तत्क्षयानुप
पत्तिरविरोधादिति ।
एवं च मुत्तबंधादओ इहं पुव्ववन्निया दोसा । अणिवारणिज्जपसरा अन्भुवगयवाहगा नियमा १६२ [ एवं च मुक्तबन्धादय इह पूर्ववर्णिता दोषाः । अनिवारितप्रसरा अभ्युपगमबाधका नियमेन ॥ १६२ ॥ ] एवं चावधाद्वन्धापत्तौ मुक्तबन्धादय इह पूर्ववर्णिता दोषा अनिवारितप्रसरा अभ्युपगमबाधका वधात्कर्मक्षय इत्यङ्गीकृतविरोधिनो नियमेन अवश्यतयेति उपसंहरन्नाह ।
इय एवं पुव्वावरलोगविरोहाइदोससयकलियं । मुरुजणविम्हयकरं मिच्छत्तमलं पसंगेणं ॥ १६३ ॥ [ इति एवं पूर्वापरलोकविरोधादिदोषशतकलितम् । मुग्धजनविस्मयकरं मिध्यात्वमलं प्रसङ्गेन ॥ १६३ ॥ ]
इय एवमेतत्पूर्वापर लोकविरोधादिदोषशतकलितं मुग्धजनविस्मयकरं संसारमोचकमतं मिथ्यात्वं अलं पर्याप्तं प्रसङ्गेनेति ॥
Page #108
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
अधुनान्यद्वादस्थानकमाह अन्ने आगंतुगदोससंभवा विंति वहनिवितीओ। दोण्ह विजणाण पावं समयंमि अदिवपरमत्था॥१६४॥ [अन्ये आगन्तुकदोषसंभवात् ब्रुवते वधनिवृत्तेः । द्वयोरपि जनयोः पापं समये अदृष्टपरमार्थाः ॥ १६४ ॥]
अन्ये वादिनः आगन्तुकदोषसंभवात्कारणात् ब्रुवते किं वधनिवृत्तेः सकाशाद्वयोरपि जनयोः प्रत्याख्यातृप्रत्याख्यापयित्रोः पापं समये आगमे अदृष्टपरमार्था अनुपलब्धभावार्था इति ॥
आगन्तुकदोषसंभवमाह । सबवहसमत्थेणं पडिवन्नाणुव्वएण सिंहाई ।
ण घाईओ ति तेणं तु घाइतो जुगष्पहाणो उ॥१६५॥ [सर्ववधसमर्थन प्रतिपन्नाणुव्रतेन सिंहादिः। न घातित इति तेन तु घातितो युगप्रधानस्तु ॥१६५॥] सर्ववधसमर्थेन सिंहादिक्रूरसत्त्वव्यापादनक्षमेण प्रतिपन्नाणुव्रतेन सता सिंहादिः सिंहः शरभो वा न घातित इति तेन तु सिंहादिना घातितो युगप्रधानो ऽनुयोगधर एक एवाचार्यः । संभवत्येतदिति॥ ततो तिथुच्छेओ धणियमणत्यो पभूयसताणं । ता कह न होइ दोसो तेसिमिह निवित्तिवादीणं॥१६६॥ [ततः तीर्थोच्छेदः अत्यर्थ अनर्थः प्रभूतसत्त्वानाम् । तत्कथं न भवति दोषातेषामिह निवृत्तिवादिनाम्१६६]
Page #109
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। ९७ ततस्तस्मादाचार्यघातात्तीर्थोच्छेदः धनितमत्यर्थमनर्थः प्रभूतसत्त्वानां दर्शनाद्यनवाया मुमुक्षूणां यतश्चैवं तत्तस्मात् कथं न भवति दोषः तेषां प्रत्याख्यातृप्रत्याख्यापयितॄणां इह विनाशकरणे निवृत्तिवादिनां भवत्येवेति ।
तम्हा नेव निविती कायचा अवि य अप्पणा चेव ।
अद्धोचियमालोचिय अविरुद्ध होइ कायवं ॥१६७॥ [तस्मात् नैव निवृत्तिः कार्या अपि चात्मनैव । अडोचितमालोच्य अविरुद्धं भवति कर्तव्यम् ॥१६७।।
यस्मादेवं तस्मान्नैव निवृत्तिः कार्या अपि चात्मनैवाद्धोचितं कालोचितमालोच्य अविरुद्धं भवति कर्तव्यं यद्यस्यामवस्थायां परलोकोपकारीति एषः पूर्वपक्षः। अत्रोत्तरमाह ।
सीहवहरकिओ सो उड्डाहं किंपि कहवि काऊणं। किं अप्पणो परस्स य न होइ अवगारहेउ ति १६९ [सिंहवधरक्षितोऽसौ उड्डाहं किमपि कथमपि कृत्वा। किं आत्मनः परस्य च न भवत्यपकारहेतुरिति ॥१६८॥]
एवमपि दोषसंभवे नन्विदमपि संभवति । सिंहवधरक्षितो ऽसावाचार्य उड्डाहमुपघातं किमपि योषिदासेवनादिकं कथमपि क्लिष्टकर्मोदयात् कृत्वा किमात्मनोऽबोधिलाभनिवर्तनीयकर्मबंधहेतुत्वेन परस्य च श्रावकादेविपरिणामकरणेन न भवत्यपकारहेतु. र्भवत्येवेति॥
Page #110
--------------------------------------------------------------------------
________________
९८ सटीकश्नावकप्रज्ञप्त्याख्यप्रकरणं ।
किं इय न तित्थहाणी किं वावहिओ नगच्छई नरयं। . सीहो किं वा सम्मं न पावई जीवमाणो उ ॥१६॥ [किमेवं न तीर्थहानिः किं वा वधितो न गच्छति नरकम् ।। सिंहः किं वा सम्यक्त्वं न प्राप्नोति जीवन तु ॥१६९॥] किमेवं न तीर्थहानिस्तीर्थहानिरेव । किं वा वधितो व्यापादितः क्रूराशयत्वान्न गच्छति नरकं सिंहो गच्छत्येव । किं वा सम्यक्त्वं न प्राप्नोति जीवन सिंहोऽतिशयवत्साधुसमीपे संभवति प्राप्तिरिति॥ किं वा तेणावहिओकहिंचि अहिमाइणा न खजेजा
सो ता इहंपि दोसो कहं न होइ ति चिंतमिणं १७० [किंवा तेनाहतः कथंचित् अह्यादिना न खायेत ।
स तस्मादिहापि दोषः कथं न भवतीति चिन्त्यमिदं१७०] किंवा तेन सिंहनाहतोऽव्यापादितः सन् कथंचिद्रजन्यांप्रमादादह्यादिनां सर्पण गोनसेनवा न खायेत स आचार्यः संभवति सर्वमेतत् यस्मादेवं तस्मादिहापि दोषो भवदभिमतः कथं न भवतीति चिन्त्यमिदं विचारणीयमेतदिति ॥ यतश्चैवमतः ।
सन्चपवितिअभावो पावइ एवं तु अनदाणे वि । ततो विसूइयाई न संभवंतित्थ किं दोसा ॥ १७१ ॥ [सर्वप्रवृत्त्यभावः प्राप्नोत्येवं तु अन्नदानेऽपि। ततः विसूचिकादयः न संभवन्त्यत्र किं दोषाः॥१७॥] सर्वप्रवृत्त्यभावःप्राप्नोत्येवमागन्तुकदोषसंभवात् एवं च सत्यन्न
Page #111
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञयाख्यप्रकरणं।
दानेऽपि न प्रवर्तितव्यं । अपिशब्दाददानेऽपि । ततोऽन्नदानादेविसूचिकादयो विसूचिका मरणं अदाने प्रद्वेषतो धनहरणव्यापादनादयो न संभवन्त्यत्रान्नदानादौ किं दोषाः संभवन्त्येवेति ॥ तथा
सयमविय अपरिभोगो एतोच्चिय एवं गमणमाई वि
सच्वं न जुझाइ च्चिय दोसासंकानिवित्तीओ ॥१७२॥ [स्वयमपि चापरिभोगः अत एव एवं गमनाद्यपि । सर्व न युज्यत एव दोषाशंकानिवृत्तेः ॥ १७२॥ स्वयमपि चापरिभोगोऽन्नादेरत एवागन्तुकदोषसंभवादेव । एवं गमनाद्यपि गमनमागमनमवस्थानं सर्व न युज्यत एव दोषाशङ्कानिवृत्तेः गच्छतोऽपि कण्टकवेधादिसंभवादागच्छतोऽपि अवस्थानेऽपि गृहपातादिसंभवदर्शनादिति ॥
अणिवित्ती विहु एवं कह कायब तिभणियदोसाओ।
आलोयणं पि अवराहसंभवाओ ण जुतं ति॥१७३॥ [अनिवृत्तिरपि खलु एवं कथं कर्तव्येति भणितदोषात् । आलोचनमपि अपराधसंभवात् न युक्तमिति॥१७३॥]
अनिवृत्तिरप्येवं कथं कर्तव्येति भणितदोषादनिवृत्तित एव राजमयूरादिव्यापादनेन दोषसंभवात् । आलोचनमपि प्रागुपदिष्टं (१६७) आत्यन्तिककार्यविघ्नत्वात् किमप्येते आलोचयन्तीति चान्यापकारप्रवृत्तेरपराधसंभवान्न युक्तमेवेति ॥ उपसंहरन्नाह इय अणुभवलोगागमविरुद्धमेयं न नायसमयाणं । मइविन्भमस्स हेऊ वयणं भावत्थनिस्सारं ॥१४॥
Page #112
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञस्याख्यप्रकरणं । एवं अनुभवलोकागमविरुद्धमेतत् न ज्ञातसमयानाम्। मतिविभ्रमस्य हेतुः वचनं भावार्थनिस्सारम् ॥१७४॥] इय एवं अनुभवलोकागमविरुद्धमेतत् । निवृत्तौ परिणामशुद्ध्यनुभवादनुभवविरुद्धं समुद्रादिप्रतरणादिप्रवृत्तेर्लोकविरुद्धं यस्य कस्यचिद्विधानादागमविरुद्धं एतत्पूर्वपक्षवादिवचनमिति योगः। न ज्ञातसमयानां नावगतसिद्धान्तानां मतिविभ्रमस्य हेतुः कथमेतच्छोभनं मतिविप्लवस्य कारणं किं विशिष्टं वचनं भावार्थनिस्सारं अभिप्रेतगर्भार्थशून्यमिति । यस्मादेवं ।
तम्हा विसुद्धचिता जिणवयणविहीइ दोवि सद्धाला। वहविरइसमुज्जुता पावं छिदंति धिइबलिणो॥१७॥ तस्माद्विशुद्धचित्तौ जिनवचनविधिना द्वावपि श्रद्धावन्तौ वधविरतिसमुद्युक्तौ पापं छित्तः धृतिबलिनौ ॥१७॥] तस्माद्विशुद्धचित्तौ अपेक्षारहितौ जिनवचन विधिना प्रवचनोकेन प्रकारेण द्वावपि प्रत्याख्यातृप्रत्याख्यापयितारौ श्रद्धावन्तौ वधविरतिसमुद्युक्तौ यथाशक्त्या पालनोद्यतौ पापं छित्तः कर्म क्षपयतः धृतिबलिनौ अप्रतिपतितपरिणामाविति ॥
- सांप्रतमन्यद्वादस्थानकम् । निच्चाण वहाभावा पयइअणिचाण चेव निविसया।
एगंतेणेव इहं वहविरई केइ मन्नंति ॥ १७६ ॥ [नित्यानां वधाभावात्प्रकृत्यनित्यानां चैव निर्विषया। एकान्तेनैव इह वधविरतिः केचन मन्यन्ते ॥ १७६ ॥]
Page #113
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं। १०१ जीवाः किल नित्या वा स्युरनित्या वेत्युभयथापि दोषः नित्यानां वधाभावात् प्रकृत्यनित्यानां चैव स्वभावभङ्गुराणां चैव वधाभावात् निर्विषया निरालंबना एकान्तेनैव अत्र पक्षद्वये का वधविरतिः संभवाभावात् केचन वादिनो मन्यन्त इति । एतदेव भावयति
एगसहावो निच्चो तस्स कह वहो अणिच्चभावाओ। पयइअणिच्चस्स वि अन्नहेऊभावाणवेकाओ॥१७७॥ [एकस्वभावो नित्यः तस्य कथं वधः अनित्यभावात् । प्रकृत्यनित्यस्यापि अन्यहेतुभावानपेक्षातः ॥ १७७॥]
एकस्वभावोऽप्रच्युतानुत्पन्नस्थिरैकधर्मा नित्यः तस्य कथं वधः -जिघांसनमनित्यभावादतादवस्थो नानित्यत्वापत्तेरित्यर्थः प्रकृत्यनित्यस्यापि स्वभावतोऽप्यनित्यस्य कथं वध इति वर्तते कथं च नेत्याह अन्यहेतुभावानपेक्षातः स्वव्यतिरिक्तहेतुसत्तानपेक्षत्वातू तत्स्वभावत्वे च स्वत एव निवृत्तेरिति । प्रक्रान्तोपचयमाह ।
किं च सरीरा जीवो अन्नो णन्नो व हुज्ज जइ अन्नो
ता कह देहवहंमि वि तस्स वहो घडविणासेव १७६ [किं च शरीरात् जीवः अन्योऽनन्यो वा भवेत् यद्यन्यः। तत्कथं देहवधेऽपि तस्य वधः घटविनाश इव ॥१७८॥] किं चान्यच्छरीरात्सकाशाजीवोऽन्योऽनन्यो वा भवेत् द्वयी गतिः किं चातः यद्यन्यस्तत्कथं देहवधे प्रकृतिविकारत्वेनार्थान्त
Page #114
--------------------------------------------------------------------------
________________
१०२
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। रभूतदेहविनाशे तस्य जीवस्य वधो नैवेत्यर्थः घटविनाश इव न हि घटे विनाशिते जीववधो दृष्टः तदर्थान्तरत्वादिति । द्वितीयं विकल्पमधिकृत्याह अह उ अणन्नो देह व सो तओ सब्बहा विणस्सिज्जा।
एवं न पुण्णपावा वहविरई किंनिमिता भे॥१७९॥ [अथ त्वनन्यः देह इवासौ ततः सर्वथा विनश्येत्। एवं न पुण्यपापे वधविरतिः किं निमित्ता भवताम्१७९
अथ त्वनन्यः शरीराजीव इत्येतदाशङ्कयाह । देह इवासौ ततः अनन्यत्वाद्धेतोः सर्वथा विनश्येत् । शरीरं च विनश्यत्येव न परलोकयायि । एवं च न पुण्यपापे भोक्तुरभावात् वधविरतिः किंनिमित्ता में भवतां विरतिवादिनामिति एष पूर्वपक्षः । अत्रोत्तरमाह। निच्चाणिच्चो जीवो भिन्नाभिन्नो य तह सरीराओ।
तस्स वहसंभवाओ तबिरई कहमविसया ॥१०॥ [नित्यानित्यो जीवो भिन्नाभिन्नश्च तथा शरीरात् । तस्य वधसंभवात् तद्विरतिः कथमविषया तु ॥१८०॥]
एकान्तनित्यत्वादिभेदप्रतिषेधेन नित्यानित्यो जीवो द्रव्यपर्यायरूपत्वात् भिन्नाभिन्नश्च तथा शरीरात् तथोपलब्धेः अन्यथा दृष्टेष्टविरोधात् तस्य वधसंभवाद्धेतोस्तद्विरतिर्वधविरतिः कथमविषया नैवेत्यर्थः।
Page #115
--------------------------------------------------------------------------
________________
सटीकश्नावकप्रज्ञप्त्याख्यप्रकरणं। १०३ नित्यानित्यत्वव्यवस्थापनायाह निच्चाणिच्चो संसारलोगववहारओ मुणेयवो।
न य एगसहावंमी संसाराई घडंति ति ॥११॥ [नित्यानित्यः संसारलोकव्यवहारतः मुणितव्यः ।
न चैकखभावे संसारादयो घटन्त इति ॥ १८१॥] नित्यानित्यो जीव इति गम्यते कुतः संसाराल्लोकव्यवहारतो मुणितव्यः त एव सत्त्वा नरकं व्रजन्तीत्यादि संसारात् गत आगत इति लोकव्यवहाराच्च विज्ञेय इति । विपक्षव्यवच्छेदार्थमाह । न चैकस्वभावे न च नित्यायेकधर्मिण्येवात्मनि संसारादयो घटन्त इति गाथासमुदायार्थः ॥ अधुना अवयवार्थमाह । निच्चस्स सहावंतरमपावमाणस कह णु संसारो।
जंमाणंतरनहस्स चेव एगंतओ मूलो ॥ १२॥ [नित्यस्य स्वभावान्तरमप्राप्नुवतः कथं नु संसारः। जन्मानन्तरनष्टस्यैव एकान्ततोऽमूलः ॥ १८२॥] नित्यस्याप्रच्युतानुत्पन्नस्थिरैकस्वभावेन हेतुना स्वभावान्तरमप्राप्नुवतः सदैवैकरूपत्वात् कथं नु संसारो नैव विचित्रत्वात्तस्य जन्मानन्तरनष्टस्यैव च सर्वथोत्पत्त्यनन्तरापवर्गिणःएकान्ततोऽमूलः तस्यैव तथापरिणामवैकल्यत एकान्तेनैवाकारणः कुतः संसार इति एतो च्चिय ववहारो गमणागमणाइ लोगसंसिद्धो न घडइ जं परिणामी तम्हा सो होइ नायच्चो॥१३॥
Page #116
--------------------------------------------------------------------------
________________
१०४ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । [अत एव व्यवहारो गमनागमनादिर्लोकसंसिद्धः । न घटते यत् परिणामी तस्मात् असौभवति ज्ञातव्यः१८३]
अत एवानन्तरोदितादेकान्तनित्यत्वादेर्हेतोर्व्यवहारो गमनागमनादिर्न घटते एकत्रैकस्वभावस्याध्यासितदेशव्यतिरेकेण देशान्तराध्यासायोगात् अन्यत्र च तस्यैवाभावेनापरानुत्पत्तेरिति । आदिशब्दात्स्थानशयनासनभोजनादिपरिग्रहः यद्यस्मादेवं तस्मात्परिणाम्यसावात्मा भवति ज्ञातव्यः, परिणामलक्षणं चेदं । परिणामो ह्यर्थान्तरगमनं न तु सर्वथा व्यवस्थानं । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥१॥ इति । एतदेव भावयति जह कंचणस्स कंचणभावेण अवडियरस कडगाई।
उप्पज्जति विणस्संति चेव भावा अणेगविहा॥१४॥ [ यथा कांचनस्य कांचनभावन अवस्थितस्य कटकादयः। उत्पद्यन्ते विनश्यन्ति चैव भावा अनेकविधाः॥१८४॥] यथा काञ्चनस्य सुवर्णस्य काञ्चनभावेन सर्वभावानुयायिन्या सुवर्णसत्तया अवस्थितस्य कटकादत कटककेयूरकर्णालंकारादयः उत्पद्यन्ते आविर्भवन्ति विनश्यति च तिरोभवन्ति च भावाः पर्यायाः अनेकविधा अन्वयव्यतिरेकवन्तः स्वसंवेदनसिद्धा अनेकप्रकारा इति
एवं च जीवदवस्स दवपज्जवविसेसभइयस्स। निच्चतमणिञ्चतं च होइ णाओवलभंतं ॥ १५ ॥
Page #117
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं ।
[ एवं च जीवद्रव्यस्य द्रव्यपर्यायविशेषभक्तस्य । नित्यत्वमनित्यत्वं च भवति न्यायोपलभ्यमानम् १८५ ] एवं च जीवद्रव्यस्य किंविशिष्टस्य द्रव्यपर्यायविशेषभक्तस्यानुभवसिद्धया उभयरूपतया विकल्पितस्य नित्यत्वमनित्यत्वं च भवति न्यायोपलभ्यमानं । पृथग्विभक्तिकरणं द्वयोरपि निमित्तभेदख्यापनार्थ न्यायः पुनरिह नारकाद्यवस्थासु मिथो भिन्नास्वपि जीवान्वय उपलभ्यते तस्मिंश्च नारकादिभेद इति ।
द्वितीयपक्षमधिकृत्याह ।
१०५
एगंतेण सरीरादन्नत्ते तस्स तकओ बंधो । न घडइ न य सो कत्ता देहादत्थंतरभूओ ॥१४६॥ [ एकान्तेन शरीरादन्यत्वे तस्य तत्कृतः बन्धः । न घटते न चासौ कर्ता देहादर्थान्तरभूतः ॥ १८६ ॥ ]
एकान्तेन सर्वथा शरीरादन्यत्वे अभ्युपगम्यमाने तस्य जीवस्य किं तत्कृतो बन्धः जीवस्य शरीरनिवर्तितो बन्धो न घटते न हि स्वत एव गिरिशिखरपतितपाषाणतो जीवघाते देवदत्तस्य बन्ध इति । स्यादर्थान्तरस्यापि तत्करणकर्तृत्वेन बंध इत्येतदाशंक्याहन चासौ कर्ता देहादर्थान्तरभूतः निः क्रियत्वान्मुक्तादिभिरतिप्रसङ्गादिति । स्यादेतत्प्रकृतिः करोति पुरुष उपभुंक्त इत्येतदाशंक्याह
अन्नकयफलुवभोगे अइप्पसंगो अचेयणं कह य । कुणइ तकं तदभावे भुंजइ य कहं अमुत्तोति ॥ १७ ॥
Page #118
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । [अन्यकृतफलोपभोगेऽतिप्रसंगः अचेतनं कथं च । करोति तकं तदभावे भुक्ते च कथं अमूर्त इति॥१८७॥]
अन्यकृतफलोपभोगे प्रकृत्यादिनिवर्तितफलानुभवेऽभ्युपगम्यमानेऽतिप्रसङ्गः भेदाविशेषेऽन्यकृतस्यान्यानुभवप्रसङ्गात् वास्तवसंबंधाभावात् अचेतनं च कथं करोति तत्प्रधानं किंचिदध्यवसायशून्यत्वात् घटवत् न हि घटस्यापराप्रेरितस्य क्वचित्करणमुपलब्धं न च प्रेरकः पुरुषः उदासीनत्वादेकस्वभावत्वाच्च तदभावे भोग्याभावे शरीराभावे वा भुंक्ते च कथं अमूर्त इति बुद्धिप्रतिबिम्बोदयरूपोऽपि भोगो न युज्यते अमूर्तस्य प्रतिबिम्बाभावात् भावेऽपि मुक्तादिभिरतिप्रसङ्गः न च सन्निहितमपि किंचिदेव प्रतिबिंब्यते न सर्व तत्स्वभावमिति विशेषहेत्वभावात् अलं प्रसङ्गेन। किंच
न य चेयणा वि अणुभवसिद्धा देहमि पावई एवं ।
तीए विरहमि दढं सुहदुस्काई न जुज्जति ॥१४॥ [न च चेतनापि अनुभवसिद्धा देहे प्राप्नोति एवम् । तस्या अभावे दृढं सुखदुःखायो न युज्यन्ते ॥१८८॥]
न च चेतनापि अनुभवसिद्धा स्पृष्टोपलब्धिद्वारेण देहे प्राप्नोति एवमेकान्तभेदे सति, न हि घटे काष्ठादिना स्पृष्टे चैतन्यं, वेद्यते च देह इति, तस्याश्चेतनाया विरहे चाभावे च दृढमत्यर्थं सुखदुःखादयो न युज्यन्ते, न हि पाषाणप्रतिमायां सुखादयोऽचेतनत्वादिति, यदि न युज्यन्ते नाम का हानिरित्येतदाशंक्याह
Page #119
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । सगचंदणविससत्थाइजोगओ तस्स अह य दीसंति।
तब्भावंमि वि तन्भिन्नवत्थुपगए ण एवं तु ॥१९॥ [स्रक्चन्दनविषशस्त्रादियोगतः तस्य अथ च दृश्यन्ते । . तद्भावेऽपि तद्भिन्नवस्तुप्रगते न एवं तु ॥ १८९॥]
स्रक्चन्दनविषशस्त्रादियोगतस्तस्य शरीरस्याथ च दृश्यन्ते स्वकीयेऽनुभवेन अन्यदीये रोमाञ्चादिलिङ्गत इति । विपक्षे बाधामाह । तद्भावेऽपि नगादिभावेऽपि तद्भिन्नवस्तुप्रगते आत्मभिन्नघटादिवस्तुसंगते न एवं सुखादयो दृश्यन्ते। न हि घटे लगादिभिश्चर्चितेऽपि देवदत्तस्य सुखादय इति । उपसंहरन्नाह • अनुन्नाणुगमाओ भिन्नाभिन्नो तओ सरीराओ।
तस्स य वहमि एवं तस्स वहो होइ नायबो॥१९०॥ [अन्योन्यानुगमात् भिन्नाभिन्नोऽसौ शरीरात् ।। तस्य च वधे एवं तस्य वधो भवति ज्ञातव्यः ॥१९०॥]
अन्योन्यानुगमाज्जीवशरीरयोरन्योन्यानुवेधाद्भिन्नाभिन्नो ऽसौ जीवः शरीरातू आहान्योन्यरूपानुवेधे इतरेतररूपापत्तिस्ततश्च नामूर्त मूर्ततां याति मूर्त नायायमूर्ततां । द्रव्यं त्रिष्वपि कालेषु च्यवते नात्मरूपतः ॥ इति वचनाद्भगवन्मतविरोधो न भगवद्वोदृढदानात् आलदानात् नह्यनुभवविरुद्धवस्तुवादी भगवान् नयविषयत्वात् , तस्य च
Page #120
--------------------------------------------------------------------------
________________
१०८ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । शरीरस्य वधे घाते एवमुक्तन्यायाजीवानुवेधसिद्धौ, तस्य जीवस्य वधो भवति ज्ञातव्य इति । अधुना वधलक्षणमेवाह तप्पज्जायविणासो दुकुप्पाओ अ संकिलेसो य।
एस वहो जिणभणिओ. वज्जेयच्चो पयत्तेणं ॥१९१॥ [तत्पर्यायविनाशः दुःखोत्पादश्च संक्लेशश्च । एष वधो जिनभणितः वर्जयितव्यः प्रयत्नेन ॥१९१॥]
तत्पर्यायविनाशः मनुष्यादिजीवपर्यायविनाशः, दुःखोत्पादश्च व्यापाद्यमानस्य, चित्तसंक्लेशश्च क्लिष्टचित्तोत्पादश्चात्मनः एष वधो व्यस्तः समस्तो वा ओघतो जिनभणितः तीर्थकरोक्तो वर्जयितव्यः प्रयत्नेनोपयोगसारेणानुष्ठानेनेति ॥
इदानीमन्यद्वादस्थानकम् । अन्ने अकालमरणसभावओ वहनिवितिमो मोहा वंझासुअपिसियासणनिवितितुलं ववइसंति ॥१९२॥ [अन्येऽकालमरणस्याभावात् वधनिवृत्तिर्मोहात् । वंध्यासुतपिशिताशननिवृत्तितुल्यां व्यपदिशन्ति१९२]
अन्ये वादिनः स्वकृतकर्मफलं प्रत्युपभोगभावेन अकालमरणस्याभावाद्वधनिवृत्तिमेव मोहाद्धेतोर्वन्ध्यासुतपिशिताशननिवृत्तितुल्यां व्यपदिशन्ति। वन्ध्यासुतस्यैवाभावात्तत्पिशितस्याप्यभावः, पिशितं मांसमुच्यते, तदभावाच्च कुतस्तस्याशनं भक्षणं, असति
Page #121
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञत्याख्यप्रकरणं ।
१०९
तस्मिन्निर्विषया तन्निवृत्तिः । एवमकालमरणाभावेन वधाभावाहूधनिवृत्तिरपीति । एतदेव समर्थयति
अज्झीणे पुचकए न मरइ झीणे य जीवइ न कोइ । सयमेव ता कह वहो उवक्कमाओ वि नो जुत्तो १९३ [ अक्षीणे पूर्वकृते न म्रियते क्षीणे च जीवति न कश्चित् । स्वयमेव तत्कथं वधः उपक्रमादपि न युक्तः ॥ १९३ ॥] अक्षीणे पूर्वकृते आयुष्ककर्मणि न म्रियते कश्चित्, स्वकृतकर्मफलं प्रत्युपभोगाभावप्रसङ्गात्, क्षीणे च तस्मिन् जीवति न कश्चित् अकृताभ्यागमकृतनाशप्रसङ्गात्, स्वयमेवात्मनैवैतदेवमिति तत्तस्मात्कथं वधो निमित्ताभावात् नास्त्येवेत्यभिप्रायः । कर्मोपक्रमाद्भविष्यतीत्येतदाशङ्कयाह उपक्रमादपि अपान्तराल एव तत्क्षयलक्षणान्न युक्त इति । अत्रैवोपपत्तिमाह
कम्मोवक्कामिज्जइ अपत्तकालं पि जइ तओ पत्ता | अकयागमकयनासा मुरकाणासासया दोसा ॥ १९४॥ [ कर्मी पक्राम्यते अप्राप्तकालमपि यदि ततः प्राप्तौ । अकृतागमकृतनाशौ मोक्षानाश्वासता दोषाः ॥ १९४ ॥ ] कर्मोपक्राम्यते अर्धमार्ग एव क्षयमुपनीयतेऽप्राप्तकालमपि स्वविपाकापेक्षा यदि ततः प्राप्तावकृतागमकृतनाशौ अपान्तराल एव मरणादकृतागमः प्रभूतकालोपभोग्यस्यारत एवं क्षयात्कृतनाशः मोक्षानाश्वासता अतः मोक्षेऽनाश्वासता अनाश्वासभावः मृत्युवत्
Page #122
--------------------------------------------------------------------------
________________
११०
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। अकृतस्यापि कर्मणो भावाशङ्कानिवृत्तेः कृतस्यापि च कर्मक्षयश्च (कर्मणःक्षयश्च!) नाशसंभवादू एत एव दोषा इति एष पूर्वपक्षः । अधुनोत्तरपक्षमाह न हि दीहकालियस्स विनासो तस्साणुभूइओ खिप्पं बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो १९५ [न हि दीर्घकालिकस्यापि नाशः तस्यानुभतितःक्षिप्रम बहुकालाहारस्येव द्रुतमग्निकरोगिणो भोगः ॥१९५॥]
न हि नैव दीर्घकालिकस्यापि प्रभूतकालवेद्यस्यापि उपक्रमतः स्वल्पकालवेदनेऽपि नाशस्तस्य कर्मणः अनुभूतितः क्षिप्रं समस्तस्यैव शीघ्रमनुभूतेः। अत्रैव निदर्शनमाह । बहुकालाहारस्येव सेतिकापलभोगेन वर्षशताहारस्येव द्रुतं शीघ्रमग्निकरोगिणो भस्मकव्याधिमतो भोगः स हि तमेकदिवसेनैव भुक्ते व्याधिसामर्थ्यात् न च तत्र किंचिन्नश्यति संपूर्णभोगात् एवमुपक्रमकर्मभोगेऽपि योज्यमिति । एतदेवाह
सव्वं च पएसतया भुज्जइ कम्ममणुभावओ भइयं । तेणावस्साणुभवे के कयनासादओ तस्स ॥१९६॥ [ सर्व च प्रदेशतया भुज्यते कर्म अनुभावतो भाज्यम्। तेनावश्यानुभवे के कृतनाशादयः तस्य ॥ १९६॥] सर्वं च प्रदेशतया कर्मप्रदेशविचटनक्षपणलक्षणया भुज्यते कर्म अनुभावतो भाज्यं विकल्पनीयं विपाकेन तु कदाचिद्भज्यते १ तस्य-हन्यमानस्य ।
Page #123
--------------------------------------------------------------------------
________________
सटीकश्श्रावकप्रज्ञप्त्याख्यप्रकरणं ।
१११.
कदाचिन्नेति क्षपकश्रेणिपरिणामादावन्यथापि भोगसिद्धेरन्यथा निर्मोक्षप्रसङ्गात् तेन कारणेन अवश्यानुभवे प्रदेशतया नियमवेदने के कृतनाशादयः नैव कृतनाशादय इति । किं च
उदयक्खयक्खओवसमोवसमा जं च कंमुणो भणिया । दवा पंचयं पर जुत्तमुवक्कामणमओ वि ॥ १९७ ॥ [ उदयक्षपक्षयोपशमोपशमाः यच्च कर्मणो भणिताः । द्रव्यादिपंचकं प्रति युक्तमुपक्रामणमतोऽपि ॥ १९७ ॥] उदयक्षयक्षयोपशमोपशमाः यच्च यस्मात्कारणात्कर्मणो भणितास्तीर्थकरगणधरैः द्रव्यादिपञ्चक प्रति द्रव्यं क्षेत्रं कालं भवं भावं च प्रतीत्य यथा द्रव्यं माहिषं दधि क्षेत्रं जांगलं कालं प्रावृडुक्षणं भवमेकेन्द्रियादिकं भावमौदयादिकादिकमालस्यादिकं वा प्रतीत्योदयो निद्रावेदनीयस्य एवं व्यत्ययादिना क्षयादियोज - ना कार्या युक्तमुपक्रमणमतोऽपि अनेन कारणेन कर्मण उपक्रमो युज्यत इति इत्थं चैतदङ्गीकर्तव्यम् । अन्यथेदमनिष्टमापद्यते इति दर्शयन्नाह ।
जइ याणुभूइओ च्चिय खविज्जए कम्म नन्नहाणुमयं । तेणासंखभवज्जियनाणागइकारणत्तणओ ॥ १९४ ॥ [ यदि चानुभूतित एव क्षप्यते कर्म नान्यथा अनुमतम् । तेनासंख्यातभवार्जितनानागतिकारणत्वात् ॥ १९८ ॥ ]
यदि चानुभूतित एव विपाकानुभवेनैव क्षप्यते कर्म नान्यथानुमतमुपक्रमद्वारेण तेन प्रकारेणासङ्ख्यातभवार्जितनानागतिकार
Page #124
--------------------------------------------------------------------------
________________
११२ . सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । णत्वात् कर्मणः असङ्ख्यातभवार्जितं हि विचित्रगतिहेतुत्वान्नारकादिनानागतिकारणमेव भवतीति । तत्र नाणाभवाणुभवणाभावा एगंमि पज्जएणं वा
अणुभवओ बंधाओ मुकाभावो सचाणिट्ठो॥१९९॥ [नानाभवानुभवनाभावादेकस्मिन् पर्यायतो वा।
अनुभवतः बन्धात् मोक्षाभावः स चानिष्टः॥ १९९॥]
नानाभवानुभवनाभावादेकस्मिन् तथाहि नानुपक्रमतो नारकादिनानाभवानुभवनमेकस्मिन् भवे पर्यायतो वानुभवतः विपाकानुभवक्रमेण वा क्षपयतः बन्धादिति नारकादिभवेषु चारित्राभावेन प्रभूततरबन्धान्मोक्षाभाव आपद्यते स चानिष्ट इति । निदर्शनगभंमुपपत्त्यन्तरमाह। किंचिदकाले वि फलं पाइज्जइ पच्चए य कालेण ।
तह कम्मं पाइज्जइ कालेण विपञ्चए चनं ॥२०॥ [किंचिदकालेऽपि फलं पाच्यते पच्यते च कालेन । तथा कर्म पाच्यते कालेन विपच्यते चान्यत् ॥२०० ॥
किञ्चिदकालेऽपि पाककालादारतोऽपि फलमाम्रफलादि पाच्यते गर्ताप्रक्षेपकोद्रवपलालस्थगनादिनोपायेन पच्यतेच कालेन किंचित्तत्रस्थमेव स्वकालेन पच्यते । यथेदं तथा कर्म पाच्यते उपक्राम्यते विचित्रैरुपक्रमहेतुभिः कालेन विपच्यते चान्यत् विशिष्टानुपक्रमहेतन्विहाय विपाककालेनैव विपाकं गच्छतीति । दृष्टान्तान्तरमाह १ नारकादीनामनुभवनमेकस्मिन् मनुष्यादिभवे.
Page #125
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । ११३ भिन्नो जहेह कालो तुले वि पहमि गइविसेसाओ
सत्थे व गहणकालो मइमेहाभेयओ भिन्नो ॥२०१॥ [भिन्नो यथेह कालः तुल्येऽपि पथि गतिविशेषात् ।
शास्त्रे वा ग्रहणकालो मतिमेधाभेदाद्भिन्नः ॥२०१॥] भिन्नो यथेह कालो ऽर्धप्रहरादिलक्षणस्तुल्ये ऽपि पथि समाने योजनादौ मार्गे गतिविशेषाद्गमनविशेषेण शीघ्रगतिरर्धग्रहरेण गच्छति मध्यमः प्रहरेणेत्यादि । शास्त्रे वा व्याकरणादौ ग्रहणकालो मतिमेधाभेदाद्भिन्नः कश्चिद्वादशभिवः तदधीते कश्चिद्वर्षद्वयेनेत्यादि ॥ एष दृष्टान्तोऽयमर्थोपनयः। . ....
तह तुलंमि वि कम्मे परिणामाइकिरियाविसेसाओ। भिन्नो अणुभवकालो जिट्ठो मज्झो जहन्नो य॥२०२॥ [तथा तुल्येऽपि कर्मणि परिणामादिक्रियाविशेषात् । भिन्नोऽनुभवकालः ज्येष्ठः मध्यः जघन्यश्च ॥ २०२॥]
तथा तुल्येऽपि कर्मणि कर्मद्रव्यतया परिणामादिक्रियाविशेषात्तीव्रतीव्रतरपरिणामबाह्यसंयोगक्रियाविशेषेण भिन्नोऽनुभवकालः कर्मणः कथं ज्येष्ठो मध्यो जघन्यश्च ज्येष्ठो निरुपक्रमस्य यथाबद्धवेदनकालः मध्यस्तस्यैव तथाविधतपश्चरणभेदेने जघन्यः क्षपकश्रेण्यनुभवनकालः शैलेस्यनुभवनकालो वा तथाविधपरिणामबद्धस्य तत्तत्परिणामानुभवनेन अन्यथा विरोध इति दृष्टान्तान्तरमाह।
१ वेदने.
Page #126
--------------------------------------------------------------------------
________________
११४ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
जह वा दीहा रज्जू डन्झइ कालेण पुंजिया खिप्पं । वियओ पडो विसूसइ पिण्डीभूओ उकालेणं॥२०३॥ [ यथा वा दीर्घा रज्जुः दह्यते कालेन पुंजिता क्षिप्रम्।। विततः पटोऽपि शुष्यति पिंडीभूतस्तु कालेन॥२०॥
यथा वा दीर्घा रज्जुः पर्यन्तदीपिता सती तथा क्रमेणैव दह्यते कालेन प्रदीर्घेणेति भावः । पुञ्जिता क्षिप्रं शीघ्रमेव दह्यते । विततः पटो वा जलार्दोऽपि शुष्यति क्षिप्रमिति वर्तते पिण्डीभूतस्तु 'कालेन शुष्यति प्रदीर्घेणेति हृदयं न च तत्राधिकंजलमिति। अत्राह
नणु तं न जहोवचियं तहाणुभवओ कयागमाईया।
तप्पाओग्गं चिय तेण तं चियं सज्झरोग व ॥२०४॥ [ननु तत् न यथोपचितं तथानुभवतः अकृतागमादयः। तत्प्रायोग्यमेव तेन तचितं साध्यरोगवत् ॥२०४॥]
नन्वेवमपि तत्कर्म न यथोपचितं तथानुभवतः वर्षशतभोग्यतयोपचितं उपक्रमेणारादेवानुभवतोऽकृतागमादयस्तदवस्था एव । अत्रोत्तरमाह तत्प्रायोग्यमेवोपक्रमप्रायोग्यमेव तेन तच्चितं बद्धं किंवदित्याह साध्यरोगवत् साध्यरोगो हि मासादिवेद्योऽप्यौषधैरपान्तराल एवोमक्रम्यत इति । तथा चाह
अणुवकमओ नासइ कालेणोवक्कमेण खिप्पं पि। कालेणेवासज्झो सज्झासझं तहा कम्मं ॥२०५॥ [अनुपक्रमतः नश्यति कालेनोपक्रमेण क्षिप्रमपि । कालेनैवासाध्यः साध्यासाध्यं तथा कर्म ॥२०५॥]
Page #127
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । अनुपक्रमतः औषधोपक्रममन्तरेण नश्यत्यपैति कालेनात्मीयेनैव उपक्रमेण क्षिप्रमपि नश्यति साध्ये रोगे इयं स्थितिः कालेनैवासाध्य उभयमत्र न संभवति साधासाध्यं तथा कर्म साध्ये उभयं असाध्ये एक एव प्रकार इति।साध्यासाध्ययोरेव स्वरूपमाह
सोवक्कममिह सज्झं इयरमसज्झं ति होइ नायवं ।
सज्झासज्झविभागो एसो नेओ जिणाभिहिओ २०६ [सोपक्रममिह साध्यं इतरवदसाध्यमेव भवति ज्ञातव्यम्। साध्यासाध्यविभागः एष ज्ञेयः जिनाभिहितः॥२०६॥]
सोपक्रममिह साध्यं तथाविधपरिणामजनितत्वात् इतरन्निरुपक्रममसाध्यमेव भवति ज्ञातव्यं साध्यासाध्यविभागः एष ज्ञेयो जिनाभिहितस्तीर्थकरोक्त इति । निगमयन्नाह .
आउस्स उवक्कमणं सिद्धं जिणवयणओ य सद्धेयं । जं छउमथो सम्मं नो केवलिए मुणइ भावे ॥२०७॥ [आयुष उपक्रमणं सिद्धं जिनवचनाच अडेयम् । यच्छद्मस्थः सम्यग्न केवलिकान जानाति भावान्॥२०७॥
आयुष उपक्रमणं सिद्धमुक्तन्यायात् जिनवचनाच्च भवति श्रद्धेयं किमित्यत्रोपपत्तिमाह यद्यस्माच्छद्मस्थः अर्वाग्दी सम्यगशेषधर्मापेक्षया न केवलज्ञानगम्यान मुणति भावान् जानाति पदार्थानिति । प्रकृतयोजनायाह
एयस्स य जो हेऊ सो वहाओ तेण तन्निवित्तीय। वंझासुयपिसियासणनिवितितुला कहं होइ ॥२०॥
Page #128
--------------------------------------------------------------------------
________________
११६
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
[ एतस्य च यो हेतु: स वधकः तेन तन्निवृत्तिरेवं । वंध्यासुतपिशिताशननिवृत्तितुल्या कथं भवति २०८ ]
एतस्य चोपक्रमस्य यो हेतुर्दण्डादिपीडाकरणेन स वधकः असौ हन्ता येन कारणेन तन्निवृत्तिः वधनिवृत्तिः एवं वंध्यासुतपिश - ताशननिवृत्तितुल्या कथं भवति सविषयत्वाद्वधनिवृत्तेरिति ॥
अधुनान्यद्वादस्थानकम्
अन्ने भांति कम्मं जं जेण कयं स भुंजइ तयं तु । चित्तपरिणामरूवं अणेगसहकारिताविक्खं ॥ २०९ ॥ [ अन्ये भणन्ति कर्म यद्येन कृतं स भुंक्ते तदेव । चित्रपरिणामरूपं अनेक सहकारिसापेक्षम् ॥ २०९ ॥ ] अन्ये भणन्ति कर्म ज्ञानावरणादि यद्येन कृतं प्राणिना स भुंक्ते तदेव चित्रपरिणामरूपं कर्मानेकसहकारिसापेक्षं अस्मादिदं प्राप्तव्यमित्यादिरूपमिति ।
तक्कंयसहकारितं पवज्जमाणस्स को वहो तस्स । तस्सेव तओ दोसो जं तह कम्मं कयमणेणं ॥ २१० ॥ [ तत्कृतसहकारित्वं प्रपद्यमानस्य को वधस्तस्य । तस्यैव असौ दोषः यत्तथा कर्म कृतमनेन ॥ २१० ॥ ] तत्कृतसहकारित्वं व्यापाद्यकृतसहकारित्वं प्रपद्यमानस्य को - वधस्तस्य व्यापादकस्य तस्यैव व्यापाद्यस्यासौ दोषो यत्तथा कर्म अस्मान्मया मर्तव्यमिति विपाकरूपं कृतमनेन व्यापाद्येनेति । एतदेव समर्थयति ।
Page #129
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। ११७ जइ तेण तहा अकए तं वहइ तओ सततभावेण । अन्नं पि किंन एवं वहेइ अणिवारियप्पसरो॥२११॥ [यदि तेन तथा अकृते तं हन्ति तक स्वतन्त्रभावेन ।
अन्यमपि किं न एवं हन्ति अनिवारितप्रसरः ॥२१॥]
यदि तेन व्यापायेन तथा तेन प्रकारेण अस्मान्मर्तव्यमित्यादिलक्षणेन अकृते अनुपात्ते कर्मणीति गम्यते तं व्यापाद्यं हन्ति व्यापादयति तको वधकः स्वतन्त्रभावेन स्वयमेव कथंचित् । अत्र दोषमाह । अन्यमपि देवदत्तादिकं किं न एवं हन्ति यथा तं निमित्ताभावस्याविशेषात् अनिवारितप्रसरः स्वातन्त्र्येण व्यापादनशील इति ।
न य सब्बो सवं चिय वहेइ निययस्सभावओ अह न।
वज्झस्स अफलकम्मं वहगसहावेण मरणाओ २१२ [ न च सर्वः सर्वमेव हन्ति नियतखभावतः अथ न । वध्यस्याफलं कर्म वधकखभावेन मरणात् ॥ २१२॥]
न च सर्वो व्यापादकः सर्वमेव व्यापाद्यं हन्ति अदर्शनान्नियतस्वभावतो ऽथ न अथैवं मन्यसे नियतहन्तृस्वभावात् न सर्वान्हन्तीत्येतदाशङ्कयाह । वध्यस्य व्यापाद्यस्याफलं कर्म कुतो वधकस्वभावेन मरणात् यो हि यद्व्यापादनस्वभावः स तं व्यापादयतीति निःफलं कर्मापद्यते न चैतदेव तस्मातस्यैवासौ दोषो य१ प्रवृत्तिनिमित्तभावस्याविशेषाह
Page #130
--------------------------------------------------------------------------
________________
११८ सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । तथा कर्म कृतमनेनेति । वधकोऽनपराध इति एष पूर्वपक्षः। अत्रोत्तरमाह। नियकयकम्मुवभोगे विसंकिलेसो धुवं वहंतस्स।
ततो बंधोतं खलु तबिरईए विवजिज्जा ॥२१३॥ [निजकृतकर्मोपभोगे ऽपि संक्लेशः ध्रुवं प्रतः। ततः बन्धः तं खलु तद्विरत्या वर्जयेत् ॥ २१३॥] निजकृतकर्मोपभोगेऽपि व्यापाद्यव्यापत्तौ स्वकृतकर्मविपाकेऽपि सति तस्य संक्लेशोऽकुशलपरिणामो ध्रुवमवश्यं नतो व्यापादयतस्ततस्तस्मात्संक्लेशाद्वन्धस्तं खलु तमेव बन्धं तद्विरत्या वधविरत्या वर्जयेदिति ॥ तत चिय मरियवं इय बद्धे आउयंमि तश्विरई।
नणु किं साहेइ फलं तदारओ कम्मखवणं तु॥२१४॥ [ततः एव मर्तव्यं एवं बढे आयुषि तद्विरतिः। . ननु किं साधयति फलं तदारतः कर्मक्षपणम् ॥२१४॥]
तत एव देवदत्तादेः सकाशात् मर्तव्यं इय एवमनेन प्रकारेण बद्धे आयुषि उपात्ते आयुष्कर्मणि व्यापायेन वधविरतिर्ननु किं साधयति फलं तस्यावश्यभावित्वेन तदसंभवात् विरत्यसंभवात् ...। न किंचिदित्यभिप्रायः । अत्रोत्तरं तदारतः कर्मक्षपणं तु मरणकालादारतः वधविरतिः कर्मक्षयमेव साधयतीति गाथार्थः । एतदेव भावयति ।
Page #131
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। ११९ ततु च्चिय सो भावो जायइ सुद्धेण जीववीरिएण। कस्सइ जेण तयं खलु अवहिता गच्छई मुक्ख॥२१॥ [तत एव स भावः जायते शुद्धेन जीववीर्येण । कस्यचित् येन तकं खलु अहत्वा गच्छतिमोक्षम् ॥२१५॥]
तत एव वधविरतेः स भावः चित्तपरिणामलक्षणो जायते . शुद्धेन जीववीर्येण कर्मानभिभूतेनात्मसामर्थ्येन कस्यचित्पाणिनो येन भावेन तकं व्यापाद्यं अवधित्वा अहत्वैव गच्छति मोक्षं प्राप्नोति निर्वाणमिति॥ इय तस्स तयं कम्मं न जहकयफलं ति पावई अह तु । तं नो अज्झवसाणा ओवट्टणमाइभावाओ ॥२१६ ॥ [एवं तस्य तकं कर्म न यथाकृतफलमेव प्राप्नोति अथ तु। तन्न अध्यवसायात् अपवतेनादिभावात् ॥ २१६ ॥]
इय एवमुक्तेन न्यायेन तस्य व्यापाद्यस्य तत्कर्म अस्मान्मतव्यमित्यादिलक्षणं न यथाकृतफलमेव ततो मरणाभावात्प्राप्नोत्यापद्यते अथ त्वमेवं मन्यसे इत्याशङ्कयाह ॥ तन्न तदेतन्न अध्यवसायात्तथाविधचित्तविशेषादपवर्तनादिभावात्तथा हाससंक्रमानुभवश्रेणिवेदनादिति गाथार्थः । सकयं पि अणेगविहं तेण पगारेण भुंजिउं सव्वं । अपुव्वकरणजोगा पावइ मुक्खं तु किं तेण ॥२१७॥
Page #132
--------------------------------------------------------------------------
________________
सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं ।
[ स्वकृतमपि अनेकविधं तेन प्रकारेण अनुक्त्वा सर्व । अपूर्वकरणयोगात् प्राप्नोति मोक्षं तु किं तेन ॥ २१७॥ ] किं च स्वकृतमप्यात्मोपात्तमप्यनेकविधं चतुर्गतिनिबंधनं तेन प्रकारेण चतुर्गतिवेद्यत्वेन अभुक्त्वा सर्वमननुभूय निरवशेषं अपूर्वकरणयोगात् क्षपकश्रेण्यारंभकादपूर्वकरणसंबन्धात्प्राप्नोति मोक्षमेवासादयति निर्वाणमेव किं तेन व्यापादकभावनिबंधनत्वपरिकल्पितेन कर्मणेति स्यात्तस्मिन् सति न चरणभाव एवेति अत्राह परकयकम्मनिबंधा चरणाभावंमि पावइ अभावो । सकयस्स निष्फलत्ता सुहदुहसंसारमुक्खाणं ॥ २१४॥ [ परकृतकर्मनिबन्धात् चरणाभावे प्राप्नोत्यभावः । स्वकृतस्य निष्फलत्वं सुखदुःख संसारमोक्षाणाम् २१८] परकृतकर्मनिबंधाव्यापाद्यकृतकर्मनिबंधनेन व्यापादकस्य चरणाभावे अभ्युपगम्यमाने प्राप्नोत्यभावः सुखदुःखसंसारमोक्षाणामिति योगः कुतः स्वकृतस्य निःफलत्वान्निः फलत्वं चान्यकृतेन प्रतिबंधादिति ।
अकयागमकयनासा सपरेगत्तं च पावई एवं । तच्चरणाउ च्चिय तओ खओ वि अणिवारियप्पसरो२१९ [ अकृतागमकृतनाशौ खपरैकत्वं च प्राप्नोत्येवम् । तच्चरणतः एव ततः क्षयो ऽपि अनिवारितप्रसरः २१९] अकृतागमकृतनाशौ तेनाकृतमपि तस्य प्रतिबंधकमित्यकृता
Page #133
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । गमः शुभपरिणामभावेऽपि च ततः प्रतिबंधात्तत्फलमिति कृतनाशः स्वपरैकत्वं च प्रतिबंधकाविशेषात् प्राप्नोत्येवं तच्चरणत एव ततः क्षयोऽप्यनिवारितप्रसरस्तस्येत्युपसंहरन्नाह ॥ एवंपि य वहविरई कायवा चेव सव्वजतेणं । तदभावंमि पमाया बंधो भणिओ जिणिंदेहिं ॥२२०॥ [एवमपि च वधविरतिः कर्तव्या एव सर्वयत्नेन ।
तदभावे प्रमादात् बन्धो भणितः जिनेन्द्रैः ॥२२०॥ एवमपि चोक्तप्रकाराद्वधविरतिः कर्तव्यैव सर्वयत्नेनाप्रमादेनेत्यर्थः। तदभावे च विरत्यभावे च प्रमादाद्वन्धो भणितो जिनेन्द्रैरिति ।
इदानीमन्यद्वादस्थानकम् केइ बालाइवहे बहुतरकम्मस्सुवकमाउ ति। मन्नंति पावमहियं वडाईसं विवज्जासं ॥ २२१ ॥ [ केचित् बालादिवधे बहुतरकर्मण उपक्रमादेव । मन्यन्ते पापमधिकं वृद्धादिषु विपर्यासम् ॥ २२१॥]
केचिद्वादिनो बालादिवधे बालकुमारयुवव्यापादने बहुतरकमेण उपक्रमणात्कारणान्मन्यन्ते पापमधिकं । वृद्धादिषु विपर्यासं स्तोकतरस्य कर्मण उपक्रमादिति । अत्रोत्तरमाह एयं पि न जुतिखमं जं परिणामाउ पावमिह वुतं । दव्वाइभेयभिन्ना तह हिंसा वन्निया समए ॥ २२२ ॥ [ एतदपि न युक्तिक्षमं यत्परिणामापापमिहोक्तम् । द्रव्यादिभेदभिन्ना तथा हिंसा वर्णिता समये ॥२२२॥]
Page #134
--------------------------------------------------------------------------
________________
१२२
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। एतदपि न युक्तिक्षम यद्यस्मात्परिणामात्पापमिहोक्तं स च न नियतो बालवृद्धादिषु क्लिष्टेतररूपो द्रव्यादिभेदभिन्ना तथा हिंसा वर्णिता समये यथोक्तं “दव्वउ णामेगे हिंसा ण भावउ" इत्यादि प्रथमहिंसाभेदमाह ।
उच्चालियंमि पाए इरियासमियस्स संकमठाए। वावज्जिज कुलिंगी मरिज तं जोगमासज ॥ २२३॥ [उच्चालिते पादे ईर्यासमितस्य संक्रमार्थम् । व्यापद्येत कुलिङ्गी म्रियेत तं योगमासाद्य ॥ २२३ ॥]
उच्चालिते उत्क्षिप्ते पादे संक्रमार्थ गमनार्थमिति योगः ईर्यासमितस्योपयुक्तस्य साधोः किं व्यापद्येत महतीं वेदनां प्राप्नुयात् म्रियेत प्राणत्यागं कुर्यात् कुलिङ्गी कुत्सितलिङ्गवान् द्वीन्द्रियादिसत्त्वः तं योगमासाद्य तथोपयुक्तसाधुव्यापारं प्राप्येति॥ न य तस्स तन्निमितो बंधो सुहुमो विदेसिओ समए। जम्हा सो अपमतो सा उ पमाउ ति निद्दिहा॥२२४॥ [न च तस्य तन्निमित्तः बन्धः सूक्ष्मोऽपि देशितःसमये। यस्मात्सोऽप्रमत्तः सा च प्रमाद इति निर्दिष्टा २२४ ] न च तस्य साधोस्तन्निमित्तः कुलिङ्गिव्यापत्तिकारणो बन्धः सूक्ष्मोऽपि देशितः समये किमिति यस्मात्सोऽप्रमत्तः सूत्राज्ञया प्रवृत्तेः सा च हिंसा प्रमाद इत्येवं निर्दिष्टा तीर्थकरगणधरैरिति इयं द्रव्यतो हिंसा न भावतः।सांप्रतं भावतोन द्रव्यत इत्युच्यते॥
Page #135
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १२३ मंदपगासे देसे रज्जु किलाहिसरिसयं दई।
अच्छितु तिकखग्गं वहिज्ज तं तप्परीणामो॥२२५॥ [ मन्दप्रकाशे देशे रज्जु कृष्णाहिसदृशीं दृष्ट्वा ।
आकृष्य तीक्ष्णखङ्गं हन्यात् तां तत्परिणामः॥२२॥] मन्दप्रकाशे देशे ध्यामले निम्नादौ रज्जु दर्भादिविकाररूपां कृष्णाहिसदृशीं कृष्णसर्पतुल्यां दृष्ट्वा आकृष्य तीक्ष्णखङ्गं वधेत्तां हन्यादित्यर्थः तत्परिणामो वधपरिणाम इति ॥
सप्पवहाभामि वि वहपरिणामाउ चेव एयस्स। नियमेण संपराइयबंधो खलु होइ नायव्वो ॥२२६॥ [ सर्पवधाभावेऽपि वधपरिणामादेवैतस्य । नियमेन सांपरायिको बन्धः खलु भवति ज्ञातव्यः २२६]
सर्पवधाभावेऽपि तत्त्वतः वधपरिणामादेवैतस्य व्यापादकस्य नियमेन सांपरायिको बन्धो भवपरंपराहेतुः कर्मयोगः खलु भवति ज्ञातव्य इति । तृतीयं हिंसाभेदमाह॥ मिगवहपरिणामगओ आयण्णं कड्रिऊण कोदंडं ।
मुतूण मिसुं उभओ वहिज्ज तं पागडो एस॥२२७॥ [ मृगवधपरिणामगतः आकर्ण आकृष्य कोदण्डम् । मुक्त्वा इषु उभयतः हन्यात् तं प्रकट एषः ॥ २२७॥]
मृगवधपरिणामपरिणतः सन्नाकर्णमाकृष्य कोदण्डं धनुर्मुक्त्वे. धुं बाणं उभयतो वधेत् हन्यात् द्रव्यतो भावतश्च तं मृगं प्रकट एष हिंसक इति । चतुर्थ भेदमाह
Page #136
--------------------------------------------------------------------------
________________
१२४ सटीकश्रावकप्रज्ञयाख्यप्रकरणं । उभयाभावे हिंसा धणिमितं भंगयाणुपुव्वीए। तहवि य दंसिजती सीसमइविगोवणमदुट्ठा ॥२२८ ॥ [उभयाभावे हिंसा ध्वनिमात्रं भंगकानुपूर्व्या । तथापि च दयमाना शिष्यमतिविकोपनाय अदुष्टा२२८] ___ उभयाभावे द्रव्यतो भावतश्च वधाभावे हिंसा ध्वनिमात्रं न विषयतः भङ्गकानुपूायाता तथापि च दय॑माना शिष्यमतिविकोपनं विनेयबुद्धिविकाशायादुष्टैवेति।
इय परिणामा बंधे बालो वुडति थोवमियमित्थ । बाले विसो न तिव्वो कयाइ वुड़े वि तिव्वुति ॥२२९॥ [एवं परिणामाद्वन्धे बालो वृद्ध इति स्तोकमिदमत्र । बालेऽपि असौ न तीन कदाचिद् वृद्धे ऽपि तीव्र इति२२९
इय एवं परिणामाद्वन्धे सति बालो वृद्ध इति स्तोकमिदमत्र हिंसाप्रक्रमे किमिति बालेप्यसौ न तीव्रः परिणामः कदाचिद्वृद्धेऽपि तीव्र इति जिघांसतामाशयवैचित्र्यादिति ।
अह परिणामाभावे वहे वि बंधो न पावई एवं । कह न वहे परिणामो तब्भावे कह य नो बंधो॥२३०॥ [अथ परिणामाभावे वधेऽपि बंधो न प्रामोत्येवम् ।
कथं न वधे परिणामः तद्भावे कथं च न बन्धः ॥२३०॥] - अथैवं मन्यसे परिणामाभावे सति वधेऽप्यबंध एव प्राप्नोत्येवं परिणामवादे एतदाशङ्कयाह कथं न वधे परिणामः किं तर्हि
Page #137
--------------------------------------------------------------------------
________________
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
१२५
भवत्येवादुष्टाशयस्य तत्राप्रवृत्तेः तद्भावे वधपरिणामभावे कथं च वधे न बन्धो बन्ध एवेति ॥
सियन वहे परिणामो अन्नाणकुसत्यभावणाओ य । उभयत्थ तदेव तओ किलिट्ठबंधस्स हेउ ति ॥२३१॥ [ स्यान्न वधे परिणाम: अज्ञानकुशास्त्र भावनातश्च । उभयत्र तदेव तकः क्लिष्टबन्धस्य हेतुरिति ॥ २३१ ॥ ] स्यान्न वधे परिणामः क्लिष्टः अज्ञानात् अज्ञानं व्यापादयतः कुशास्त्र भावनातश्च यागादावेतदाशङ्कयाह । उभयत्र तदेवाज्ञानमसौ परिणामः क्लिष्टबन्धस्य हेतुरिति सांपरायिकस्येति ॥
जम्हा सो परिणामो अन्नाणादवगमेण नो होइ । तम्हा तयभावत्थी नाणाईसुं सइ जइज्जा ॥२३२॥ [यस्मादसौ परिणाम: अज्ञानाद्यपगमेन न भवति । तस्मात्तदभावार्थी ज्ञानादिषु सदा यतेत ॥ २३२ ॥ ]
यस्मादसौ वधपरिणामो अज्ञानाद्यपगमेन हेतुना न भवति सति । त्वज्ञानादौ भवत्येव वस्तुतस्तस्यैव तद्रूपत्वात्तस्मात्तदभावाथीं वधपरिणामाभावार्थी ज्ञानादिषु सदा यतेत तत्प्रतिपक्षत्वात् इति एवं वस्तुस्थितिमभिधायाधुना परोपन्यस्तहेतोरनेकान्तिकत्वमुद्भावयति ।
बहुतरकम्मोवक्कमभावो वेगंतिओ न जं केइ । बाला वि य घोवाऊ हवंति वुड्डा वि दीहाऊ ॥ २३३॥
Page #138
--------------------------------------------------------------------------
________________
१२६ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । [बहुतरकर्मोपक्रमभावोऽपि एकान्तिको न यत् केचित् । बाला अपि च स्तोकायुषःभवन्ति वृद्धा अपि दीर्घायुषः२३३
बहुतरकर्मोपक्रमभावोऽपि बालादिवृद्धादिष्वेकान्तिको न यद्यस्मात्केचन बाला अपि स्तोकायुषो भवन्ति वृद्धा अपि दीर्घायुषस्तथा लोके दर्शनादिति । तम्हा सव्वेसि चिय वहमि पावं अपावभावहिं। भणियमहिगाइभावो परिणामविसेसओ पाय॥२३४॥ [तस्मात्सर्वेषामेव वधे पापं अपापभावैः।। भणितमधिकादिभावः परिणामविशेषतःप्रायः २३४]
यस्मादेवं तस्मात्सर्वेषामेव बालादीनां वधे पापमपापभावैवींतरागैर्भणितं अधिकादिभावस्तस्य पाप्मनः परिणामविशेषतःप्रायो भणित इति वर्तते प्रायोग्रहणं तपस्वीतरादिभेदसंग्रहार्थमिति ॥
सांप्रतमन्यवादस्थानकम् संभवइ वहो जेसिं जुज्जइ तेसिं निवितिकरणं पि।
आवडियाकरणमि य सतिनिरोहा फलं तत्थ॥२३५॥ [संभवति वधो येषु युज्यते तेषु निवृत्तिकरणमपि ।
आपतिताकरणे च शक्तिनिरोधात् फलं तत्र ॥२३५॥] संभवति वधो येषु कृमिपिपीलिकादिषु युज्यते तेषु निवृत्तिकरणमपि विषयाप्रवृत्तेः आपतिताकरणे च पर्युपस्थितानासेवने च सति शक्तिनिरोधात्फलं तत्र युज्यत इति वर्तते अविषयशस्यभावयोस्तु कुतः फलामति । तथा चाह
Page #139
--------------------------------------------------------------------------
________________
सटीकश्श्रावकप्रज्ञप्त्याख्यप्रकरणं। १२७ नो अविसए पविती तन्निवित्तिइ अचरणपाणिस्स। झसनायधम्मतुलं तत्थ फलमबहुभयं केइ ॥ २३६ ॥ [नोऽविषये प्रवृत्तिः तन्निवृत्त्या अचरणपाणेः।। झषज्ञातधर्मतुल्यं तत्र फलमबहुमतं केचित् ॥ २३६ ॥]
नोऽविषये नारकादौ प्रवृत्तिर्वधक्रियायास्ततश्च तन्निवृत्त्या अविषयप्रवृत्तिनिवृत्त्या अचरणपाणेः छिन्नगोदुकरस्य झपज्ञातधर्मतुल्यं छिन्नगोदुकरस्य मत्स्यनाशे धर्म इत्येवं कल्पं तत्र निवृत्ती फलं अबहुमतं विदुषामश्लाघ्यं केचन मन्यन्त इत्येष पूर्वपक्षः । अनोत्तरमाह।संभवति वधो येष्वित्युक्तं अथ कोऽयं संभव इति ।
किं ताव तव्वहु च्चिय उयाहु कालंतरेण वहणं तु । किंवावहु ति किं वा सतीको संभवोएत्थ ॥२३७॥ [किं तावत्तदध एव उताहो कालान्तरेण हननमेव । किं वा अवधः किं वा शक्तिः कः संभवः अत्र ॥२३७॥]
किं तावत्तद्वध एव तेषां व्यापाद्यमानानां वधस्तद्वधः क्रियारूप एव उताहो कालान्तरेण हननं जिघांसनमेव वा किं अवधो अव्यापादनमित्यर्थः किं वा शक्तिः व्यापादकस्य व्यापाद्यविषया कः संभवोऽत्र प्रक्रम इति सर्वेऽप्यमी पक्षा दुष्टाः। तथा चाह जइ ताव तव्वहुच्चिय अलं निवितिइ अविसयाए उ। कालंतरवहणंमि वि किं तीए नियमभंगाओ॥२३॥ १ सर्वेषूपलब्धपुस्तकादशेषु एतादृशमेवेति नास्माकं मनीषोन्मेषोऽत्र।
Page #140
--------------------------------------------------------------------------
________________
१२८ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । [ यदि तावत्तवध एव अलं निवृत्त्या अविषययैव । कालान्तरहननेऽपि किं तया नियमभंगात् ॥ २३८॥]
यदि तावत्तद्वध एव तेषां व्यापाद्यमानवधक्रियैव संभव इति अत्र दोषमाह अलं निवृत्त्या न किंचिद्वधनिवृत्त्याविषययेति हेतुः निमित्तकारणहेतुषु सर्वासां प्रायो दर्शनमिति वचनात् अविषयत्वं च वधक्रियाया एव संभवत्वात्संभवे च सति निवृत्त्यभ्युपगमात् ततश्च वधक्रियानियमभावे अविषया वधनिवृत्तिरिति । कालान्तरहननेऽपि नियमतः संभवेऽभ्युपगम्यमाने किं तया निवृत्त्या न किंचिदित्यर्थः कुत इत्याह नियमभङ्गात् संभव एव सति निवृत्यभ्युपगमः संभवश्च कालान्तरहननमेवेति नियमभङ्ग इति। चरमविकल्पद्वयाभिधित्सयाह अवहे वि नो पमाणं सुद्द्यरं अविसओ य विसओ से। सती उ कज्जगम्मा सइ तंमि किं पुणो तीए॥२३९॥ [अवधेऽपिनप्रमाणंसुष्टुतरं अविषयश्च विषयः तस्याः । शक्तिस्तु कार्यगम्या सति तस्मिन् किं पुनस्तया २३९]
अवधेऽपि न प्रमाणं यद्यवधः संभवः इत्यत्रापि प्रमाणं न ज्ञायते एतेषामस्मादवध इति सुष्ठुतरं अतितरां अविषयश्च विषय से तस्या निवृत्तेः अविषयत्वं तु तेषां वधासंभवात् अवधस्यैव संभवत्वात् अस्मिंश्च सति निवृत्त्यभ्युपगमादिति । शक्तिस्तु कार्यगम्या वधशक्तिरपि संभवो न युज्यते यतोऽसौ कार्यगम्यैवेति
Page #141
--------------------------------------------------------------------------
________________
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
१२९
न वधमन्तरेण ज्ञायते सति च तस्मिन्वधे किं पुनस्तया निवृत्त्या तस्य संपादितत्वादेवेति । संभवमधिकृत्य पक्षान्तरमाह
जज्जाईओ अ हओ तज्जाईएस संभवो तस्स । तेसु सफला निवित्ती न जुत्तमेयं पि वभिचारा २४० [ यज्जातीय एव हतः तज्जातीयेषु संभवस्तस्य । तेषु सफला निवृत्तिः न युक्तमेतदपि व्यभिचारात् २४० ] यज्जातीय एव हतः स्यात् कृम्यादिस्तज्जातीयेषु संभवस्तस्य वधस्य अतस्तेषु सफला निवृत्तिः सविषयत्वादिति एतदाशङ्कयाह । न युक्तमेतदपि व्यभिचारात् व्यभिचारमेवाह ॥ - वावाइज्जइ कोई हए वि मनुर्यमि अन्नमणुणं । अहविय सीहाओ दीसइ वहणं पि वभिचारा२४१ [ व्यापाद्यते कश्चित् हते ऽपि मनुष्ये ऽन्यमनुष्येण । अहतेऽपि च सिंहादौ दृश्यते हननं अपि व्यभिचारात् २४१
व्यापाद्यते कश्चिदेव हते ऽपि मनुष्ये सकृत् अन्यमनुष्येण तथा लोके दर्शनात् अतो यज्जातीयस्तु हतस्तज्जातीयेषु संभवस्तंस्येति नैकान्तः तेनैव अन्यमनुष्येणैव व्यापादनात् तथा अहते ऽपि च सिंहादौ आजन्म दृश्यते हननं कादाचित्कमिति व्यभिचार इति । नियमो न संभवो इह हंतचा किं तु सत्तिमित्तं तु सा जेण कज्जगम्मा तयभावे किं न सेसेसु ॥ २४२ ॥ [ नियमो न संभव इह हन्तव्याः किंतु शक्तिमात्रमेव । सायेन कार्यगम्य तदभावे किं न शेषेषु ॥ २४२ ॥ ]
....
Page #142
--------------------------------------------------------------------------
________________
१३० सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
नियमो न संभव इहावश्यता न संभव इहोच्यते यदुत यजातीय एको हतस्तज्जातीयाः सर्वे ऽपि हन्तव्या यज्जातीयस्तु न हतस्तजातीया न हन्तव्या एव किन्तु शक्तिमात्रमेव तजातीयेतरेषु व्यापादनशक्तिमात्रमेव संभवः । तत्कथं दोषो ऽनन्तरोदितो नैवेत्यभिप्राय इति एतदाशङ्कयाह ॥ सा येन कार्यगम्येति सा शक्तिर्यस्मात्कार्यगम्या वर्तते अतो दोष इति वधमन्तरेण तदपरिज्ञानात् सति च तस्मिन् किं तयेत्यभिहितमेवैतत् । अथ सा कार्यमन्तरेणाप्यभ्युपगम्यते इति एतदाशङ्कयाह । तदभावे कार्याभावे किं न शेषेषु सत्त्वेषु साभ्युपगम्यते तथा च सत्यविशेपत एव निवृत्तिसिद्धिरिति । स्यादेतन्न सर्वसत्त्वेषु सा अतो नाभ्युपगम्यत इति आह च
नारगदेवाईसुं असंभवा समयमाणसिद्धीओ।
इतु च्चिय तस्सिद्धी असुहासयवजणमदुट्ठा ॥२४३॥ [नारकदेवादिष्वसंभवात्समयमानसिद्धेः।
अत एव तत्सिद्धिः अशुभाशयवर्जनमदुष्टा ॥२४३॥]
नारकदेवादिष्वसंभवाद्व्यापादनशक्तेर्निरुपक्रमायुषस्त इति आदिशब्दादेवकुरुनिवास्यादिपरिग्रहः कुत एतदिति चेत् समयमानसिद्धेरागमप्रामाण्यादिति । एतदाशङ्कयाह । अत एव समयमानसिद्धेः तसिद्धिः सर्वप्राणातिपातनिवृत्तिसिद्धिः "सव्वं भंते पाणाइवायं पच्चक्खामि" इत्यादिवचनप्रामाण्याद् आगमस्याप्यविषयप्रवृतिर्दुष्टैवेति एतदाशङ्कयाह अशुभाशयवर्जनमिति
Page #143
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । १३१ कृत्वा अदुष्टा तद्वधनिवृत्तिः अन्तःकरणादिसंभवालंबनत्वाच्चेति वक्ष्यतीति ॥
आवडियाकरणं पिहु न अप्पमायाओ नियमओ अन्नं । अन्नते तब्भावे वि हंत विहला तई होइ ॥ २४४॥ [आपतिताकरणमपि नैवाप्रमादान्नियमतो ऽन्यत् । अन्यत्वे तद्भाचे ऽपि हन्त विफला तका भवति॥२४४॥]
आपतिताकरणमपि पूर्वपक्षवाद्युपन्यस्तं नाप्रमादानियमतो ऽन्यत् अपि त्वप्रमाद एव तदिति । अन्यत्वे ऽप्रमादादर्थान्तरत्वे आपतिताकरणस्य तद्भावे ऽप्यप्रमादभावे ऽपि हंत विफलासौ नि. वृत्तिर्भवति इष्यते चाविप्रतिपत्त्या अप्रमत्ततायां फलमिति ॥
अह परपीडाकरणे ईसिंवहसत्तिविप्फुरणभावे ।
जो तीइ निरोहो खलु आवडियाकरणमेयं तु ॥२४॥ [अथ परपीडाकरणे ईषद्धशक्तिविस्फुरणभावे ।
यः तस्याः निरोधः खलु आपतिताकरणमेतदेव॥२४॥]
अथैवं मन्येत परः परपीडाकरणे व्यापाद्यपीडासंपादने सति ईषद्वधशक्तिविस्फुरणभावे व्यापादकस्य मनाग्वधसामर्थ्य विजुंभणसत्तायां सत्यां यस्तस्याः शक्तनिरोधो दुष्करतर आपतिताकर. णमेतदेवेति एतदाशङ्कयाह ॥
विहिउत्तरमेवयं अणेण सती उ कजगम्मति । विप्फुरणं पि हु तीए बुहाण नो बहुमयं लोए॥२४६॥
Page #144
--------------------------------------------------------------------------
________________
१३२
सटीक श्रावकप्रज्ञध्याख्यप्रकरणं ।
[ विहितोत्तरमेवेदं अनेन शक्तिस्तु कार्यगम्येति । विस्फुरणमपि तस्याः एव बुधानां न बहुमतं लोके ॥ २४६ ॥] विहितोत्तरमेवेदं केनेति अत्राह अनेन शक्तिस्तु कार्यगम्येति (२४२)विस्फुरणमपि तस्याः शक्तेर्बुधानां न बहुमतं लोके मरणाभावे ऽपि परपीडाकरणे बन्धादिति ॥
एवं च जानिवित्ती सा चेव वहो ऽहवावि वहहेऊ । विसओ विसु च्चिय फुडं अणुबंधा होइ नायचा २४७ [ एवं च या अनिवृत्तिः सैव वधो ऽथवापि वधहेतुः । विषयो ऽपि सैव स्फुटं अनुबन्धात् भवति ज्ञातव्या २४७ एवं च व्यवस्थिते सति, या अनिवृत्तिः सैव वधो निश्चयतः प्रमादरूपत्वात्, अथवापि वधहेतुरनिवृत्तितो वधप्रवृत्तेः विषयो ऽपि वस्तुतो गोचरो ऽपि सैवानिवृत्तिर्वधस्य स्फुटं व्यक्तं अनुबंधात्म वृत्यध्यवसायानुपरमलक्षणाद्भवति ज्ञातव्या अस्या एव वधसाधकत्वप्राधान्यख्यापनार्थ हेतुविषयाभिधानमदुष्टमेवेति । अमुमेवार्थ समर्थयन्नाह
हिंसाइपायगाओ अप्पडिविरयस्स अत्थि अणुबंधो । अत्तो अणिवत्तीओ कुलाइवेरं व नियमेण ॥ २४४ ॥ [ हिंसादिपातकात् अप्रतिविरतस्य अस्त्यनुबन्धः । अतः अनिवृत्तेः कुलादिवैरवत् नियमेन ॥ २४८ ॥ ] हिंसादिपात कादादिशब्दात् मृषावादादिपरिग्रहः अप्रतिविरतस्यानिवृत्तस्यास्त्यनुबन्धः प्रवृत्त्यध्यवसायानुपरमलक्षणः उपप
Page #145
--------------------------------------------------------------------------
________________
सटीकश्रावकज्ञप्त्याख्यप्रकरणं। १३३ त्तिमाह अत एवानिवृत्तेः प्रवृत्तेः कुलादिवैरवन्नियमेनावश्यतयेति । दृष्टान्तं व्याचिख्यासुराह ॥ जेसि मिहो कुलवेरं अप्पडिविरईउ तेसिमन्नोन्नं । वहकिरियाभामिविन तं सयं चेव उवसमइ॥२४९॥ [येषां मिथः कुलवैरं अप्रतिविरतेः तेषामन्योऽन्यम् । वधक्रियाभावे ऽपि न तत्वयमेवोपशाम्यति ॥२४९॥]
येषां पुरुषाणां मिथः परस्परं कुलवैरमन्वयासंखटं अप्रतिविरतेः कारणात्तेषां अन्योन्यं परस्परं वधक्रियाभावे ऽपि सति न तत्स्वयमेवोपशाम्यति किं तूपशमितं सदिति
ततो य तन्निमितं इह बंधणमाइ जह तहा बंधो।
सन्वेसु नाभिसंधी जह तेसुं तस्स तो नत्थि ॥२५०॥ [ ततश्च तन्निमित्तं इह बन्धनादि यथा तथा बन्धः । सर्वेषु न अभिसंधिः यथा तेषु तस्य ततो नास्ति २५०]
ततश्च तस्मादनुपशमात्तन्निमित्तं वैरनिबन्धनमिह बंधनादि बंधवधादि यथा भवति तेषां, तथेतरेषामनिवृत्तानां तन्निबन्धनो बन्ध इति अत्राह सर्वेषु प्राणिषु नाभिसंधियापादनपरिणामो यथा तेषु द्रंगनिवासिषु वैरवत इति तस्य प्रत्याख्यातुस्ततो नास्ति बन्धः इति तथाहि ते ऽपि न यथादर्शनमेव प्राणिनां बंधादि कुर्वन्ति किंतु वैरिद्रंगनिवासिनामेव एवं प्रत्याख्यातुरपि न सर्वेषु वधाभिसंधिरिति तद्विषये बंधाभाव इति । एतदाशंक्याह
Page #146
--------------------------------------------------------------------------
________________
१३४ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। अस्थि च्चिय अभिसंधी अविसेसपवितिओ जहा तेसु । अपविती य विणिवित्तीजो उ तेसि वदोसो उ॥२५१॥ [अस्त्येवाभिसंधिरविशेषप्रवृत्तितः यथा तेषु । अप्रवृत्तावपि अनिवृत्तिज एव तेषां दोष एव ॥२५१॥]
अस्त्येवाभिसंधिरनन्तरोदितलक्षणः सर्वेषु कुतो ऽविशेषप्रवृत्तितः सामान्येन वधप्रवृत्तेः यथा तेषु रिपुद्रंगनिवासिषु वैरवतः . ततश्चाप्रवृत्तावपि वधे अनिवृत्तिज एव तेषामिव वैरवतां दोष एवमनिवृत्तस्य गर्भार्थो भावित एवेति अदृष्टान्त एवायं सर्वसत्वैवैरासंभवादिति आशङ्कयाह
सब्जेसि विराहणओ परिभोगाओ य हंत वेराई । सिद्धा अणाइनिहणो जं संसारो विचितो य ॥२५२॥ [सर्वेषां विराधनात् परिभोगाच हन्त वैरादयः । सिद्धाः अनादिनिधनो यत् संसारो विचित्रश्च॥२५२॥]
सर्वेषां प्राणिनां विराधनात्तेन तेन प्रकारेण परिभोगाच्च स्रक्चन्दनोपकरणत्वेन हन्त वैरादयः सिद्धाः हंत संप्रेषणे स्थानान्तरप्रापणे सति वैरोन्माथकादयः कूटयन्त्रकादयः प्रतिष्ठिताः सर्वसत्त्वविषया इति । उपपत्त्यन्तरमाह । अनादिनिधनो यत्संसारो विचित्रश्चातो युज्यते सर्वमेतदिति उपसंहरन्नाह ।
ता बंधमणिच्छंतो कुजा सावज्जजोगविनिविति । अविसयअनिवित्तीए सुहभावा दढयरं सभवे॥२५३॥
Page #147
--------------------------------------------------------------------------
________________
सटीकनावकप्रज्ञल्याख्यप्रकरणं। १३५ [तस्मात् बन्धमनिच्छन् कुर्यात् सावद्ययोगनिवृत्तिम् । अविषयानिवृत्त्या अशुभभावात् दृढतरं स भवेत्॥२५३॥]
यस्मादेवं तस्माद्वन्धमनिच्छन्नात्मनः कर्मणां कुर्यात्सावद्ययोगविनिवृत्तिमोघतः सपापव्यापारनिवृत्तिमित्यर्थः अविषयानिवृत्या नारकादिवधाभावे ऽपि तदनिवृत्त्या अशुभभावादविषये पि वधविरतिं न करोतीत्यशुभो भावस्तस्मात् दृढतरं सुतरांस भवेद्वन्धो भावप्रधानत्वात्तस्येति इतो य इमा जुता जोगतिगनिबंधणा पवितीओ।
जंता इमीइ विसओ सबु च्चिय होई विनेओ॥२५४॥ [इतश्चेयं युक्ता योगत्रिकनिबंधना प्रवृत्तिः।। यद् अस्याः विषयः सर्व एव भवति विज्ञेयः ॥२५४॥]
इतश्चेयं निवृत्तियुक्ता योगत्रिकनिबन्धना मनोवाकाययोगपूविका प्रवृत्तिर्यद्यस्मादस्या अनिवृत्तेविषयः सर्व एव भवति विज्ञेयः पाठान्तरं योगत्रिकनिबन्धना निवृत्तिर्यस्मात्संगतार्थमेवेति तथा चाह। किं चिंतेइ न मणसा किं वायाए न जंपए पावं । न य इतो वि न बंधो ता विरई सबहा कुज्जा २५५ [किं चिन्तयति न मनसा किं वाचा न जल्पति पापम् । न चेतो ऽपि न बन्धः तस्माद्विरतिं सर्वथा कुर्यात्५५]
किं चिन्तयति न मनसा अनिरुद्धत्वात्सर्वत्राप्रतिहतत्वात् तस्य किं वाचा न जल्पति पापं तस्या अपि प्रायोऽनिरुद्धत्वादिति न
Page #148
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। चातो ऽपि योगद्वयव्यापारान्न बन्धः किं तु बन्ध एव यस्मादेवं तत्तस्माद्विरतिं सर्वथा कुर्यात् अविशेषेण कुर्यादित्यर्थः ॥ . ' एवं मिच्छादसणवियप्पवसओ ऽसमंजसं केई।
जंपति जं पि अन्नं तं पि असारं मुणेयच्वं ॥ २५६ ॥ [एवं मिथ्यादर्शनविकल्पवशतः असमंजसं केचित् । जल्पन्ति यदपि अन्यत् तदपि असारं मुणितव्यम् २५६
एवमुक्तप्रकारं मिथ्यादर्शनविकल्पसामर्थ्येन असमंजसमघटमानक केचन कुवादिनो जल्पन्ति यदप्यन्यत्किंचित्तदप्यसारं मुणितव्यमुक्तन्यायानुसारत एवेति । उक्तमानुषङ्गिकम् । अधुना प्रकृतमाह।
पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं ।
संपुनपालणट्ठा परिहरियच्वा पयत्तेणं ॥ २५७॥ [प्रतिपद्य च व्रतं तस्यातिचारा यथाविधि ज्ञात्वा । संपूर्णपालनार्थ परिहर्तव्याः प्रयत्नेन ॥ २५७ ॥ :
प्रतिपद्य चाङ्गीकृत्य च व्रतं तस्य व्रतस्यातिचारा अतिक्रमणहेतवो यथाविधि यथाप्रकारं ज्ञात्वा परिहर्तव्याः सर्वैः प्रकारैर्वजनीयाः प्रयत्नेनेति योगः किमर्थ संपूर्णपालनार्थ न ह्यतिचारवतः संपूर्णा तत्पालना तद्भावे तत्खंडनादिप्रसंगादिति । तथा चाह बंधवहछविच्छेए अइभारे भतपाणवुच्छेए । कोहाइदूसियमणो गोमणुयाईण नो कुज्जा ॥२५॥
Page #149
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञत्याख्यप्रकरणं ।
१३७
[ बन्धवधछविच्छेदान् अतिभारं भक्तपानव्यवच्छेदम् । क्रोधादिदूषितमनाः गोमनुष्यादीनां न कुर्यात् २५८ ] तत्र बन्धनं बन्धः संयमनं रज्जुदामनकादिभिः ॥ १॥ हननं वधस्ता डनं केशादिभिः । २। छविः शरीरं तस्य छेदः पाटनं करपत्रादिभिः । ३ । भरणं भारः अतिभरणं अतिभारः प्रभूतस्य पूगफलादेः स्कन्धपृष्ठारोपणमित्यर्थः । ४ । भक्तमशनमोदनादि पानं पेयमुदकादि तस्य व्यवच्छेदो निरोधः अदानमित्यर्थः । ५। एतान्समाचरन्नतिचरति प्रथमाणुव्रतं एतान् क्रोधादिदूषितमना न कुर्यादिति अनेनापवादमाह अन्यथाकरणेऽप्रतिषेधावगमात् ॥
तदत्रायं पूर्वाचार्योक्तविधिः । बंधो दुविहो दुपयाणं चउप्पयाणं च अट्ठाए अणट्ठाए अणट्टाए न वट्टए बंधिरं, अट्ठाए दुविहो सावेक्खो निरवेक्खो य, निरवेक्खो निचलं धणियं जं बंधइ, सावेक्खो जं दामगंठिणा जं च सक्केइ पलिवणगादिसु मुंचिडं छिंदिडं वा ण संसरपासएणं बंधेयव्वं एवं ताव उप्पयाणं, दुपयापि दासो दासी वा चोरो वा पुत्तो वा ण पढंतगाइ जइ बज्झन्ति तो सावेक्खा बंधेयव्वा रक्खियव्वा य जहा अग्गिभयादिसु ण विणस्संति, ताणि किर दुपयचउप्पयाणि सावगेणं गेहियव्वाणि जाणि अबद्धाणि चैव अच्छंति । वहो वि तह चेव वो नाम तालणं अट्ठाए णिरवेक्खो निद्दयं तालेइ सावेक्खो पुण पुव्वमेव भीयपरिसेण होयव्वं जइ न करेज्ज तो मम्मं मोतुं ताहे लयाए दोरेण वा एक्कं दो तिन्निवा वारे तालेइ । छविच्छेओ
Page #150
--------------------------------------------------------------------------
________________
१३८ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। अणढाए तहेव णिरवेक्खो हत्थपायकन्नहोठ्ठणक्काइ निद्दयाए छिदइ सावेक्खो गंडं वा अरइयं वा छिंदेज वा दहेज वा ।अइभारोण आरोवेयव्यो, पुट्विं चेव जा वाहणाए जीविया सा मुत्तव्वा न होज अन्ना जीविया ताहे दुपदो जं सयं चेव उक्खिवइ उत्तारेइ वा भारं एवं वहाविजइ बइल्लाणं जहा साभावियाओ वि भाराओ ऊणओ कीरइ हलसगडेसु वि वेलाए चेव मुंचइ आसहत्थीसु वि एस चेव विही । भत्तपाणओच्छेओ ण कस्सइ कायव्यो तिक्खच्छुहो मा मरेज तहेव अणट्ठाए दोसा परिहरेजा सावेक्खो पुण रोगनिमित्तं वा वायाए वा भणेजा अजं ण ते देमित्ति संतिणिमित्तं वा उववासं कारावेजा सव्वत्थ वि जयणा जहाथूलगपाणाइवा• यस्स अइयारो न भवइ तहा पइयव्वंति ॥ आह च
परिसुद्धजलग्गहणं दारुयधन्नाइयाण तह चेव । गहियाण वि परिभोगो विहीइ तसरक्खणट्ठाए २५९ [परिशुद्धजलग्रहणं दारुधान्यादीनां तथैव च । गृहीतानामपि परिभोगो विधिना सरक्षणार्थम्२५९]
परिशुद्धजलग्रहणं वस्त्रपूतत्रसरहितजलग्रहणमित्यर्थः दारुधान्यादीनां च तथैव परिशुद्धानां ग्रहणं अनीलाजीर्णानां दारूणां अकीटविशुद्धस्य धान्यस्य आदिशब्दात्तथाविधोपस्करपरिग्रहः । गृहीतानामपि परिभोगो विधिना कर्तव्यः परिमितप्रत्युपेक्षितादिना किमर्थं त्रसरक्षणार्थ द्वीन्द्रियादिपालनार्थमिति ॥
Page #151
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञष्ट्याख्यप्रकरणं ।. १३९ उक्तं सातिचारं प्रथमाणुव्रतम् अधुना द्वितीयमुच्यते । थूलमुसावायस्स उ विरई दुच्चं स पंचहा होइ।
कन्नागोभुआलियनासहरणकूडसक्खिज्जे ॥२६०॥ [स्थूलमृषावादस्य तु विरतिः द्वितीयं स पञ्चधा भवति। कन्यागोभूम्यनृतन्यासहरणकूटसाक्षित्वानि ॥२६०॥]
स्थूलमृषावादस्य तु विरतिद्धितीयमणुव्रतमिति गम्यते । मृषावादो हि द्विविधः स्थूलः सूक्ष्मश्च । तत्र परिस्थूलवस्तुविषयो ऽतिदुष्टविवक्षासमुद्भवः स्थूलो विपरीतस्त्वितरो न च तेनेहाधिकारः श्रावकधर्माधिकारत्वात्स्थूलस्यैव प्रक्रान्तत्वात् । तथा चाह । स पञ्चहा भवति स स्थूलो मृषावादः पञ्चप्रकारो भवति । कन्यागोभूम्यनृतन्यासहरणकूटसाक्षित्वानि । अनृतशब्दः पदत्रये प्रत्येकमभिसंबध्यते । तद्यथा । कन्यानृतमित्यादि तत्र कन्याविषयमनृतं कन्यानृतं अभिन्नकन्यकामेव भिन्नकन्यका वक्ति विपर्ययो वा । एवं गवानृतं अल्पक्षीरामेव बहुक्षीसं वक्ति विपर्ययो वा । एवं भूम्यनृतं. परसत्कामेवात्मसत्कां वक्ति व्यवहारे वा नियुक्तो ऽनाभवद्व्यवहारेणैव कस्यचिद्रागाद्यभिभूतो वक्ति अस्येयमाभवतीति । न्यस्यते निक्षिप्यत इति न्यासो रूपकाद्यर्पणं तस्या
पहरणं न्यासापहारः अदत्तादानरूपत्वादस्य कथं मृषावादत्वमि। ति उच्यते अपलपतो मृषावाद इति । कूटसाक्षिकं उत्कोचमत्सराधभिभूतः प्रमाणीकृतः सन् कूटं वक्तीति
वज्जणमिह पञ्चतं आह कमाराइगोयरो कह ण। एयग्गहणाउ च्चिय गहिओ नणु सो वि दिडब्बो २६१
Page #152
--------------------------------------------------------------------------
________________
१४०
सटीक श्रावकप्रज्ञघ्याख्यप्रकरणं ।
[ वर्जनमिह पूर्वोक्तं आह कुमारादिगोचरः कथं नु । एतग्रहणादेव च गृहीतो ननु ऽसावपि दृष्टव्यः २६१] वर्जनमिह मृषावादे पूर्वोक्तं " उवउत्तो गुरुमूले" ( १०८ ) इत्यादिना ग्रन्थेन आह परः कुमारादिगोचरः कथं नु अकुमारं कुमारं ब्रुवतः आदिशब्दादविधवाद्यनृतपरिग्रहः अतिदुष्टविवक्षासमुद्भवो ऽप्येष भवति न तु सूत्रे उपात्तः तदेतत्कथं आचार्य आह एतग्रहणादेव च कन्यानृतादिग्रहणादेव च ननु गृहीतो ऽसावपि कुमारादिगोचरो मृषावादो द्रष्टव्यः उपलक्षणत्वादिति ॥
पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं । संपुन पालणट्ठा परिहरिया पयत्तेणं ॥ २६२ ॥ पूर्ववत् ( २५७ )
सहसा अब्भक्खाणं रहसा य सदारमंतभेयं च । मोसोवएसयं कूडलेहकरणं च वज्जिज्जा ॥ २६३ ॥ [ सहसाभ्याख्यानं रहस्येन च खदारमंत्रभेदं च । मृषोपदेशं कूटलेखकरणं च वर्जयेत् ॥ २६३ ॥ . सहसानालोच्याभ्याख्यानं सहसाभ्याख्यानं अभ्याख्यानमभिशपनमसदध्यारोपणं तद्यथा “चौरः त्वं पारदारिको वा" इत्यादि |१| रहः एकान्तस्तत्र भवं रहस्यं तेन तस्मिन्वाभ्याख्यान रहस्याभ्याख्यानं एतदुक्तं भवति एकान्ते मन्त्रयमाणान् वक्त्येते । हीदं चेदं च राजापकारित्वादि मन्त्रयन्ते इति |२| स्वदारमन्त्रभेदं 'च स्वकलत्रविश्रब्धभाषितान्यकथनं चेत्यर्थः ॥ ३॥ मृषोपदेशमसदुप
Page #153
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
१४१
देशमिदमेवं चैवं च कुर्वित्यादिलक्षणं ।४। कूटलेखकरणमन्यमुद्राक्षरविम्वसरूपलेखकरणं च वर्जयेत्।५। यत एतानि समाचरन्नतिचरति द्वितीयमणुव्रतमिति ॥ बुद्धीइ निएऊणं भासिज्जा उभयलोगपरिसुद्धं । सपरोभयाण जं खलु न सबहा पीडजणगं तु ॥२६४॥ [बुद्ध्या निरीक्ष्य भाषेत उभयलोकपरिशुद्धम् ।
खपरोभयानां यत् खलुन सर्वथा पीडाजनकं तु॥२६४॥] बुद्ध्या निरीक्ष्य सम्यगालोच्येति भावः भाषेत ब्रूयात् उभयलोकपरिशुद्धं इहलोकपरलोकाविरुद्धं स्वपरोभयानां यत् खलु न सर्वथा पीडाजनकं तत्र स्वपीडाजनकं पिङ्गलस्थपतिवचनवत् प रपीडाजनकं चौरस्त्वमित्यादि एवमुभयपीडाजनकमपि द्रष्टव्यमिति
उक्तं द्वितीयाणुव्रतं सांप्रतं तृतीयमाह । थूलमदतादाणे विरई तच्चं दुहा य तं भणियं ।
सचिताचितगयं समासओ वीयरागेहिं ॥२६५ ॥ [स्थूलादत्तादाने विरतिः तच्च द्विधा च तद् भणितम् । सचित्ताचित्तगतं समासतः वीतरागैः॥२६५॥
इहादत्तादानं द्विधा स्थूलं सूक्ष्मं च । तत्र परिस्थूलविषयं चौयोरोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूलं । विपरीतमितरत् । तत्र स्थूलादत्तादानविषया विरतिनिवृत्तिस्तृतीयमणु-. व्रतमिति गम्यते । द्विधा च तददत्तादानं भणितं समासतः संक्षेपेण वीतरागैरहद्भिरिति योगः। सचित्ताचित्तगतमिति सचित्ता
Page #154
--------------------------------------------------------------------------
________________
१४२ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। दत्तादानं अचित्तादत्तादानं च । तत्र द्विपदादेवस्तुनः क्षेत्रादौ सुन्यस्तदुन्यस्तविस्मृतस्य स्वामिना अदत्तस्य चौर्यबुद्ध्या ग्रहणं सचित्तादत्तादानं तथा वस्त्रकनकादेरचित्तादत्तादानमिति ।
भेएण लवणघोडगसुवनरुप्पाइयं अणेगविहं । - वज्जणमिमस्स सम्मं पुवुतेणेव विहिणा उ ॥२६६॥ [ भेदेन लवणघोटकरूप्यसुवर्णाद्यनेकविधम् । वर्जनमस्य सम्यक् पूर्वोक्तेनैव विधिना ॥ २६६॥]
भेदेन विशेषेणादत्तादानं लवणघोटकरूप्यसुवर्णाद्यनेकविधमनेकप्रकारं लवणघोटकग्रहणात्सचित्तपरिग्रहः रूप्यसुवर्णग्रहणादचित्तपरिग्रह इति वर्जनमस्यादत्तादानस्य सम्यक् पूर्वोक्तेन विधिना उपयुक्तो गुरुमूले (१०८) इत्यादिनेति ।
पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं । संपुनपालणठा परिहरियवा पयतेणं ॥ २६७ ॥ पूर्ववत् (२५७), अतिचारानाह।
वज्जिज्जा तेनाहडतकरजोगं विरुद्धरजं च। • कूडतुलकूडमाणं तप्पडिरूवं च ववहारं ॥ २६ ॥ [वर्जयेत् स्तेनाहृतं तस्करप्रयोग विरुद्धराज्यं च । कूटतुलाकूटमाने तत्प्रतिरूपं च व्यवहारम् ॥ २६८ ॥
वर्जयेत् स्तेनाहृतं स्तेनाश्चौरास्तैराहतमानीतं किंचित्कुंकुमादि देशान्तरात् तत्समर्थमिति लोभान्न गृह्णीयात्।।तथा तस्करप्रयोगं तस्कराश्चौरास्तेषां प्रयोगो हरणक्रियायां प्रेरणमभ्यनुज्ञा हरत यू
Page #155
--------------------------------------------------------------------------
________________
सटीकश्रावकमज्ञप्त्याख्यप्रकरणं। १४३ यमिति तस्करप्रयोगः एनं च वर्जयेत्।शविरुद्धराज्यमिति च सूचनाद्विरुद्धराज्यातिक्रमं च वर्जयेत् विरुद्धनृपयो राज्यं विरुद्धराज्यं तत्रातिक्रमो न हि ताभ्यां तत्र तदागमनमनुज्ञातमिति ।। तथा कूटतुलाकूटमाने तुला प्रतीता मानं कुडवादि कूटत्वं न्यूनाधिकत्वं न्यूनया ददाति अधिकया गृह्णाति ।४। तथा तत्प्रतिरूपव्यवहरणं तेनाधिकृतेन प्रतिरूपं सदृशं तत्प्रतिरूपं तेन व्यवहरणं यद्यत्र घटते व्रीह्यादिघृतादिषु पलञ्जीवसादि तस्य तत्र प्रक्षेपेण विक्रयस्तं च वर्जयेत्।५।यत एतानि समाचरन्नतिचरति तृतीयाणुव्रतमिति
उचियं मुतूण कलं दबाइकमागयं च उक्करिसं । निवडियमवि जाणतो परस्स संतं न गिन्हिज्जा २६९ [उचितां मुक्त्वा कलां द्रव्यादिक्रमायातं चोत्कर्षम् । निपतितमपि जानानः परस्य सत्कं न गृह्णीयात् २६९]
उचितां मुक्त्वा कलां पञ्चकशतवृद्धयादिलक्षणां । द्रव्यादिक्रमायातं चोत्कर्ष यदि कथंचित्पूगफलादेः क्रयः संवृत्त इत्यष्टगुणो लाभकः अक्रूराभिसंधिना ग्राह्य एवेत्यर्थः आदिशब्दः स्वभेदप्रख्यापकः । तथा निपतितमपि जानानः परस्य सत्कं न गृह्णीयात् प्रयोजनान्तरं चोद्दिश्य समर्पिते प्रतिबुध्यतीत्यादि गृहीत्वा प्रत्यर्पयेदपीति ॥
___ उक्तं तृतीयाणुव्रतं सांप्रतं चतुर्थमाह । परदारपरिच्चाओ सदारसंतोस मो वि य चउत्थं । दुविहं परदारं खलु उरालवेउविभेएणं ॥ २७० ॥
Page #156
--------------------------------------------------------------------------
________________
१४४
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [परदारपरित्यागः खदारसंतोषो ऽपि च चतुर्थम् । द्विविधं परदारं खलु औदारिकवैक्रियभेदेन ॥२७०॥]
परदारपरित्यागः परकलत्रपरिहारः न वेश्यापरित्यागः स्वदार-. संतोषश्च स्वकलत्रसेवनमेव न वेश्यागमनमपि चतुर्थमित्येतच्चतुर्थमणुव्रतं । परदारमपि द्विविधमौदारिकवैक्रियभेदेन औदारिक ख्यादिषु वैक्रियं विद्याधर्यादिष्विति ॥ वज्जणविह पुवुतं पावमिणं जिणवरेहिं पन्नतं ।
रागाईण नियाणं भवपायवबीयभूयाणं ॥ २७१ ॥ [वर्जनमिह पूर्वोक्तं पापमिदं जिनवरैः प्रज्ञप्तम्। .
रागादीनां निदानं भवपादपबीजभूतानाम् ॥२७१॥ ]
वर्जनमिह पूर्वोक्तं उपयुक्त इत्यादिना ग्रन्थेन (१०८ गाथा ) किमेतद्वय॑ते इत्याशङ्कयाह पापमिदं परदारासेवनं जिनवरैः प्रज्ञप्तं तीर्थकरगणधरैः प्ररूपितमिति किंविशिष्टं रागादीनां निदानं कारणं किंविशिष्टानां भवपादपबीजभूतानां रागादीनामिति॥ .. · पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं।
संपुनपालणहा परिहरियव्वा पयतेणं ॥ २७२ ॥ पूर्ववत् (२५७), अतीचारानाह। इतरियपरिग्गहियापरिगहियागमणणंगकीडं च ।
परविवाह करणं कामे तिब्वाभिलासं च ॥ २७३ ॥ [इत्वरपरिगृहीतापरिगृहीतागमनानंगक्रीडाः च । परविवाहकरणं कामे तीव्राभिलाषः च ॥२७३॥ .
Page #157
--------------------------------------------------------------------------
________________
सटीकनावकज्ञप्त्याख्यप्रकरणं। १४५ इत्वरपरिगृहीतागमनं स्तोककालपरिगृहीतागमनं भाटीप्रदानेन कियन्तमपि कालं स्ववशीकृतवेश्यामैथुनासेवनमित्यर्थः।१। अपरिगृहीतागमनं अपरिगृहीता नाम वेश्या अन्यसत्तागृहीतभाटी कुलाङ्गना वा अनाथेति तद्गमनं यथाक्रमं स्वदारसंतोषवत्परदारवर्जिनोरतीचारः ।२। अनङ्गक्रीडा नाम कुचकक्षोरुवदनांतरक्रीडा तीव्रकामाभिलाषेण वा परिसमाप्तसुरतस्याप्याहाः स्थूलकादिभिोषिदवाच्यप्रदेशासेवनमिति । ३। परविवाहकरणमन्यापत्यस्य कन्याफललिप्सया स्नेहसंबन्धेन वा विवाहकरणं स्वापत्येष्वपि सङ्खयाभिग्रहो न्याय्य इति ।४।कामे तीव्राभिलाषश्चेति सूचनात्कामभोगतीव्राभिलाषः कामा शब्दादयः भोगा रसादयः एतेषु तीब्राभिलाषः अत्यन्ततदध्यवसायित्वम्।५।एतानि समाचरन्नतिचरति चतुर्थमणुव्रतमिति ॥
वज्जिज्जा मोहकरं परजुवइदंसणाइ सवियारं एए खु मयणबाणा चरितपाणे विणासंति ॥ २७४ ॥ [ वर्जयेत् मोहकर परयुवतिदर्शनादि सविकारम् । एते खलु मदनबाणा: चारित्रप्राणान् विनाशयन्ति २७४]
वर्जयेन्मोहकरं परयुवतिदर्शनं आदिशब्दात्संभाषणादिपरिग्रहः किंभूतं सविकारं सविभ्रमं । एते दर्शनादयो यस्मान्मदनबाणाश्चारित्रप्राणान् विनाशयन्तीति ॥ उक्तं च ।
अनिशमशुभसंज्ञाभावनासन्निहत्या कुरुत कुशलपक्षप्राणरक्षां नयज्ञाः।
१०
Page #158
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञघ्याख्यप्रकरणं ।
हृदयमितरथा हि स्त्रीविलासाभिधाना मदनशबरवाणश्रेणयः काणयन्ति ॥ इति उक्तं चतुर्थमणुव्रतमधुना पश्चममाह । सचित्ताचित्तेसुं इच्छा परिणाममो य पचमयं । भणियं अणुवयं खलु समासओ गंतनाणिहिं २७५ [ सचित्ताचित्तेषु इच्छापरिमाणं च पञ्चमकम् । भणितमणुव्रतं खलु समासतः अनन्तज्ञानिभिः २७५ ]
१४६
सचित्ताचित्तेषु द्विपदादिहिरण्यादिषु इच्छायाः परिमाणमिच्छापरिमाणं एतावतामूर्ध्वमग्रहणमित्यर्थः । एतत्पञ्चममुपन्यासक्रमप्रामाण्याद्भणितमणुव्रतं खलु समासतः सामान्येनानन्तज्ञानिभिस्तीर्थकरैरिति ॥
भेण वित्तवत्थूहिरण्णमाईसु होइ नाय । दुपयांईसु य सम्मं वज्जणमेयस्स पुग्वृत्तं ॥ २७६ ॥ [ भेदेन क्षेत्र वास्तुहिरण्यादिषु भवति ज्ञातव्यम् । द्विपदादिषु च सम्यक् वर्जनमेतस्य पूर्वोक्तम् ॥ २७६ ॥
भेदेन विशेषेण क्षेत्र वास्तु हिरण्यादिषु भवति ज्ञातव्यं, किं इच्छापरिमाणमिति वर्तते, तत्र क्षेत्रं सेतु केतु च उभयं च, वास्त्वगारं खातमुच्छ्रितं खातोच्छ्रितं च, हिरण्यं रजतमघटितमादिशब्दाद्धनधान्यादिपरिग्रहः एतदचित्तविषयं द्विपदादिषु चेत्येतत्सचित्तविषयं द्विपदचतुःपदापदादिषु दासीहस्तिवृक्षादिषु सम्यक् प्रवच
Page #159
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १४७ नोक्तेन विधिना वर्जनमेतस्य पञ्चमाणुव्रतविषयस्य पूर्वोक्तं उपयु. को गुरुमूले इत्यादिना ग्रन्थेनेति ।
पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं । संपुन्नपालणहा परिहरियवा पयत्तेणं ॥२७७ ॥
पूर्ववत (२५७) खिताइहिरन्नाईधणाइदुपयाइकुवियगस्स तहा।
सम्म विसुद्धचितो न पमाणाइक्कम कुज्जा ॥२७॥ [क्षेत्रादेः हिरण्यादेः धनादेः द्विपदादेः कुप्यकस्य तथा।
सम्यग्विशुद्धचित्तो न प्रमाणातिक्रमं कुर्यात् ॥२७८॥] क्षेत्रादेरनन्तरोदितस्य तथा हिरण्यादेर्धनादेर्द्विपदादेः कुप्यस्य तथा आसनशयनादेरुपस्करस्य सम्यक् विशुद्धचित्तो ऽनिर्मायो ऽप्रमत्तः सन् न प्रमाणातिक्रमं कुयोदिति ॥
भाविज्ज य संतोसं गहियमियाणिं अजाणमाणेणं।
थोवं पुणो न एवं गिहिस्सामोति चिंतिजा २७९ [भावयेच्च संतोषं गृहीतमिदानीमजानानेन । स्तोकं पुनः न एवं ग्रहीष्यामीति चिन्तयेत् ॥ २७९ ॥
भावयेच्च संतोषं किमनेन वस्तुना परिगृहीतेन तथा गृहीतमिदानीमजानानेन स्तोकमिच्छापरिमाणमिति पुन वमन्यस्मिंश्चतुमासके गृहीष्यामीति न चिन्तयेदतिचार एष इति गाथार्थः ॥
उक्तान्यणुव्रतानि सांप्रतमेषामेवाणुव्रतानां परिपालनाय भाव
Page #160
--------------------------------------------------------------------------
________________
१४८
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
नाभूतानि गुणव्रतान्यभिधीयन्ते । तानि पुनस्त्रीणि भवन्ति । तद्यथा । दिग्वतमुपभोगपरिभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति
तत्राद्यगुणवतस्वरूपाभिधित्सयाह । उडमहे तिरियं पि य दिसासु परिमाणकरणमिह पढम। भणियं गुणव्वयं खलु सावगधम्मम्मि वीरेण ॥२०॥ [ऊर्ध्वमस्तिर्यगपि च दिक्षु परिमाणकरणमिह प्रथमम्।
भणितं गुणवतं खलु श्रावकधर्मे वीरेण ॥ २८० ॥1 ऊर्ध्वमधस्तिर्यक् किं दिक्षु परिमाणमिति। दिशो ह्यनेकप्रकारा वर्णिताः शास्त्रे तत्र सूर्योपलक्षिता पूर्वा शेषाश्च दक्षिणादिकास्तदनुक्रमेण द्रष्टव्याः । तत्रोर्ध्वदिक्पूरिमाणमूर्ध्वदिव्रतमेतावती दिगूर्व पर्वताद्यारोहणादवगाहनीया न परत इति । एवंभूतमधोदिक्परिमाणं अधोदिग्व्रतं एतावत्यधोदिक् इन्द्रकूपाद्यवतरणादवगाहनीया न परत इति । एवंभूतं तिर्यग्दिक्परिमाणकरणं तियन्दिग्नतं एतावती दिग्क्पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि न परत इत्येवमात्मकं एतदित्थं त्रिधा दिक्षु परिमाणकरणं इह प्रवचने प्रथममाचं सूत्रक्रमप्रामाण्यात् गुणाय व्रतं गुणव्रतं इत्यस्मिन् हि सत्यवगृहीतक्षेत्राद्वहिः स्थावरजंगमप्राणिगोचरो दण्डः परित्यक्तो भवतीति गुणः श्रावकधर्म इति श्रावकधर्मविषयमेव केन भणितमिति आह वीरेण .
विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः॥
Page #161
--------------------------------------------------------------------------
________________
सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं ।
तेन इति चरमतीर्थकृता गुणव्रतमित्युक्तमतो गुणदर्शनायाह, अथवा गुणत्रताकरणे दोषमाह ॥
तत्तायगोलकप्पो पमत्तजीवोऽनिवारियप्पसरो । सर्व्वत्थ किं न कुज्जा पार्व तक्कारणाणुगओ ॥ २१ ॥ [ ततायो गोलकल्पः प्रमत्तजीवोऽनिवारितप्रसरः । सर्वत्र किं न कुर्यात् पापं तत्कारणानुगतः ॥ २८९ ॥ ] तप्तायोगोलकल्पस्तप्त लोहपिण्डसदृशः कोऽसौ प्रमत्तजीवः प्रमादयुक्त आत्मासावनिवारितप्रसरोऽनिवृत्त्या अप्रतिहतप्रमादसामर्थ्यः सन् तथागतेः सर्वत्र क्षेत्रे किं न कुर्यात्कुर्यादेव पाप अपुण्यं तत्कारणानुगतः प्रमादपापकारणानुगत इति ॥
१४९
पडिवन्नम्मिय विहिणा इमम्मि तवज्जणं गुणो नियमा । अइयाररहियपालणभावस्स वि तप्प सूईओ ॥ २४२ ॥ [ प्रतिपन्ने च विधिना अस्मिन् तद्वर्जनं गुणो नियमात् । अतिचाररहितपालनभावस्यापि तत्प्रसूतेः ॥ २८२ ॥ ]
प्रतिपन्ने चाङ्गीकृते च विधिना सूत्रोक्तेन अस्मिन् गुणत्रते तद्वर्जनं प्रमादपापवर्जनं गुणो नियमादात्मोपकारोऽवश्यंभावी न चैवं मंतव्यं एतदर्थपरिपालनभाव एव ज्यायान् नत्वेतत्प्रतिपत्तिः कथमतिचाररहितपालनभावस्यापि निरतिचारपालनभावस्यापि तत्प्रसूतेर्गुणत्रतादेवोत्पादात्तथाप्रतिपत्तौ हि तथाप्रतिपन्न इति इदमतिचाररहितमनुपालनीयमतोऽस्यैवातिचारानभिधित्सुराह ॥
Page #162
--------------------------------------------------------------------------
________________
१५०
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। उडमहे तिरियं पि य न पमाणाइक्कम सया कुज्जा। तह चेव खितवुढेि कहिंचि सइअंतरद्धं च ॥२३॥ [ऊर्ध्वमधस्तियंगपि च न प्रमाणातिक्रमं सदा कुर्यात् । तथैव क्षेत्रवृद्धि कथंचित् स्मृत्यन्तर्धानं च ॥ २८३ ॥]
ऊर्ध्वमधस्तियंगपि च न प्रमाणातिक्रमं सदा कुर्यादिति ऊर्ध्वदिक्प्रमाणातिक्रमो यावत्परिमाणं गृहीतं तस्य अतिलंघनं तन्न कुर्यात् ।। एवमधोदिकूतिर्यदिक्प्रमाणातिक्रमयोरपि भावनीयं।२,३।तथैव क्षेत्रवृद्धिं न कुर्यात् यथेदं अतिचारत्रयं क्षेत्रवृद्धिश्चैकतो योजनशतमभिगृहीतमन्यतो दशयोजनानि ततस्तस्यां दिशि समुत्पन्ने कार्य योजनशतमध्यादपनीयान्येषां दशादियोजनानां तत्रैव स्वबुद्ध्या प्रक्षेपो वृद्धिकरणमिति ।४। कथंचित् स्मृत्यन्तर्धानं न कुर्यादिति वर्तते स्मृतेभ्रंशोऽन्तर्धानं स्मृत्यन्तर्धानं किं मया परिगृहीतं कया वा मर्यादयेत्येवमनुस्मरणमित्यर्थः । स्मृतिमूलं हि नियमानुष्ठानं तद्भशे तु नियमत एव तद्भश इति अतिचारतेति ५
तत्र वृद्धसंप्रदायः । उर्दु जं पमाणं गहियं तस्स उवरि पव्वयसिहरे रुरके वा पक्खी वा मकडो वा सावगस्स वत्थं वा आभरणं वा गिहिउ पमाणाइरेगं भूमि वच्चेजा तत्थ से ण कप्पए गंतुंजाहे तं पडियं अन्नेण वा आणियं ताहे कप्पइ एयं पुण अट्ठावयउज्जंतादिसु हवेजा एवं अहे कुवियाईसु विभासा। तिरियं जपमाणं गहियं तं तिविहेण विकरणेण णाइक्कमियव्वं । खेत्तवुड्डी ण कायब्वा सो पुब्वेणं भंडं गहाय गओ जावतं परिमाणं तओ परेण तं भंडं अग्घइत्ति काउं
Page #163
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १५१ अवरेण जाणि जोयणाणि ताणि पुव्वदिसाए ण छुभेजा सिय वोलीणो होज्जा णियत्तियव्वं विस्सरीए वाण गंतव्वं अन्नो विन विसज्जियव्वो अणाणाए कोइ गओ होजा जं विसुमरियखेत्तगएण लद्धं अणाणाहिगएण वा तं ण गिहिजइ । उक्तं सातिचारं प्रथमं गुणवतं अधुना द्वितीयमुच्यते। उवभोगपरीभोगे बीयं परिमाणकरणमो नेयं । अणियमियवाविदोसा नभवंति कयम्मि गुणभावो२६४ [उपभोगपरिभोगयोः द्वितीयं परिमाणकरणं विज्ञेयम् । अनियमितव्यापिदोषाः न भवन्ति कृते गुणभाव।२८४॥]
उपभोगपरिभोगयोरिति उपभोगपरिभोगविषये यत्परिमाणकरणं तदेव द्वितीयं गुणवतं विज्ञेयमिति पदघटना पदार्थस्तु उपभुज्यत इत्युपभोगः अशनादिरुपशब्दस्य सकृदर्थत्वात्सकृद्भुज्यत इत्यर्थः परिभुज्यत इति परिभोगो वस्त्रादिः पुनः पुनः भुज्यत इति भावः परिशब्दस्याभ्यावृत्त्यर्थत्वादयं चात्मक्रियारूपो पि भावतो विषये उपचरितो विषयविषयिणोरभेदोपचारादन्त गो वा उपभोगः उपशब्दस्यान्तर्वचनत्वात् बहि गो वा परिभोगः परिशब्दस्य बहिर्वाचकत्वादेतत्परिमाणकरणं एतावदिदं भोक्तव्यमुपभोक्तव्यं वा अतोऽन्यन्नेत्येवंरूपं अस्मिन् कृते गुणमाह अनियमिते असंकल्पिते ये व्यापिनस्तद्विषयं व्याप्तुं शीला दोषास्ते न भवन्ति कृते. ऽस्मिंस्तद्विरतेरिति गुणभावोऽयमत्र गुण इति सांप्रतमुपभोगादिभेदमाह ॥
Page #164
--------------------------------------------------------------------------
________________
१५२ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
सो दुविहो भोयणओ कम्मयओ चेव होइ नायबो।
अइयारेविय इत्थं वुच्छामि पुढो समासेणं ॥२५॥ [स द्विविधः भोजनतो कर्मतश्चैव भवति ज्ञातव्यः ।
अतिचारानपिच एतयोः वक्ष्ये पृथक् समासेन ॥२८५॥] स उपभोगः परिभोगश्च द्विविधो द्विप्रकारः भोजनतो भोजनमाश्रित्य कर्मतश्चैव भवति ज्ञातव्यः कर्म चाङ्गीकृत्येत्यर्थः । तत्र भोजनतः श्रावकेणोत्सर्गतो निरवद्याहारभोजिना भवितव्यं । कर्मतो ऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेन विचित्रत्वाच्च देशविरतेश्चित्रो ऽत्रापवाद इत्यत एवेदमेवेदमेवेति वा सूत्रे न नियमितमतिचाराभिधानाच्च विचित्रस्तद्विधिः स्वधियावसेय इति ।
तथा च वृद्धसंप्रदायः । “ भोजनओ सावगो उस्सग्गेण फासुयं एसणियं आहारं आहारेज्जा, तस्सासति अणेसणीयमवि सचित्तवजं तस्सासति अणंतकायं बहुबीयाणि परिहरेजा, असणे अल्लगमूलगमंसादि पाणे मंसरसमजाइ खाइमे पंचुंबरिंगादि सादिमे महुमाइ एवं परिभोगे वि वत्थाणि थूलधवलप्पमुल्लाणि परिमियाणि परिभुजेजा सासणगोरवत्थसुचरिओ वरसिभाषा याव देवदूसाइ परिभोगेण वि परिमाणं करेजा, कम्मओ वि अकम्मो ण तरइ जीविउं ताहे अञ्चन्तसावजाणि परिहरेजा एत्थं पि एकसिं चेव जं कीरइ कम्मं पहरववहरणादि विवरकाए तमुवभोगो पुणो पुणो य जंतं पुण परिभोगो त्ति अन्ने पुण कम्मपरके उवभोगपरिभोगजोयणं ण करिति उवन्नासोय एयस्सुवभोगपरिभोगकारणभावणंति" इति कृतं प्रसङ्गेन ।
Page #165
--------------------------------------------------------------------------
________________
सटीकश्रावकज्ञप्त्याख्यप्रकरणं। १५३ इहेदमपि चातिचाररहितमनुपालनीयमिति तदभिधित्सयाह । अतिचारानपि चैतयोर्भोजनकर्मणोर्वक्ष्येऽभिधास्ये पृथक् प्रत्येक समासेन संक्षेपेणेति। तत्र भोजनतोऽभिधित्सयाह ।
सचिताहारं खलु तप्पडिबद्धं च वजए सम्म ।
अप्पोलियदुप्पोलियतुच्छोसहिभक्खणं चेव ॥२६॥ [सचित्ताहारं खलु तत्प्रतिबद्धं च वर्जयेत् सम्यक् । अपक्कदुःपक्कतुच्छौषधिभक्षणं चैव ॥ २८६ ॥]
सचित्ताहारं खलु सचेतनं मूलकन्दादिकं तत्प्रतिबद्धं च वृक्षस्थगुन्दपक्कफलादिलक्षणं वर्जयेन्निहरेत्सम्यक प्रवचनोक्तेन विधिना तथा अपक्वदुःपक्वतुच्छौषधिभक्षणं च वर्जयेदिति वर्तते तत्रापक्काः प्रसिद्धाः दुःपक्कास्त्वर्धस्विन्नाः तुच्छास्त्वसारा मुद्गफलीप्रभृतय इति, उक्ता भोजनातिचाराः सांप्रतं कर्माश्रित्याह ।
इंगालीवणसाडीभाडीफोडीसु वजए कम्मं । वाणिजं चेव दंतलक्खरसकेसविसविसायं ॥ २७॥ [अङ्गारवनशकटभाटकस्फोटनेषु वर्जयेत् कर्म। वाणिज्यं चैव दन्तलाक्षारसकेशविषविषयम् ॥२८७॥]
अङ्गारवनशकटभाटकस्फोटनेषु एतद्विषयं वर्जयेत् कर्म न कुयोत् । तत्राङ्गारकर्मागारकरणविक्रयविषया । एवं शेषेष्वप्यक्षरगमनिका कार्या तथा वाणिज्यं चैव दन्तलाक्षारसकेशविषविषयं दन्तादिगोचरं वर्जयेत्परिहरेदिति ॥
Page #166
--------------------------------------------------------------------------
________________
१५४ सटीकभावकप्रज्ञप्त्याख्यप्रकरणं ।
एवं खु जंतपीलणकम्मं निलंछणं च दवदाणं ।
सरदहतलायसोसं असईपोसंच वजिज्जा ॥२८॥ [एवं खलु यन्त्रपीडनकर्मनिलाञ्छनं च वदानम् । सरोह्रदतडागशोषं असतीपोषं च वर्जयेत् ॥ २८८ ॥] एवमेव शास्त्रोक्तेन विधिना यन्त्रपीडनकर्म निल्छनं च कर्म दवदानं सरोह्रदतडागशोषं असतीपोषं च वर्जयेदिति गाथाद्वः याक्षरार्थः । भावार्थस्तु वृद्धसंप्रदायादेव अवसेयः स चायम् ।
इंगालकमंति इंगाले दहिउँ विक्किणइ तत्थ छहं कायाणं वहो तंन कप्पइ । वणकम्मं जो वणं किणइ पच्छा रुरके छिंदिर मुल्लेण जीवइ एवं पत्तिगाइवि पडिसिद्धा भवंति । साडीकम्म सागडियत्तणेण जीवइ तत्थ बंधवहाई बहुदोसा । भाडीकम्म सएण भंडोवरकरेण भाडएण वहइ परायगं ण कप्पइ अन्नेसि वा सगडे बइल्लयवेइ एवमाइ ण कप्पइ । फोडीकम्मं उडत्तणं हलेण वा भूमि फाडेउं जीवइ । दंतवाणिजं पुव्वं चेव पुलिंदाणं मुलं देइ दंते देजाहित्ति पच्छा पुलिंदा हत्थिं घाएंति अचिरा सो वाणियओ एतित्ति काउं एवं धीवराणं संखमुलं देइ एवमाइ न कप्पइ पुव्वाणीयं किणइ । लरकवाणिजे वि एए चेव दोसा तत्थ किमिया होति । रसवाणिज कल्लावालगत्तणं तत्थ सुरादिपाणे बहुदोसा मारण अक्कोस वहाई तम्हा न कप्पइ । केसवाणिजं दासीओ गहाय अन्नत्थ विकिणइ जत्थ अग्घेति एत्थ वि अणेगे दोसा परवसत्तादयो । विसवाणिजं विसविक्कओ सो ण कप्पइ
Page #167
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञध्याख्यप्रकरणं ।
१५५
तेण बहूण जीवाण विराहणा । जंतपीलणकम्मं तेल्लियजंतं उच्छुर्जतं चक्क मादी तं न कप्पइ । निल्लंछणकम्मं वड्रेडं बलद्दाइ न कप्पइ । दवग्गिदावणयाकम्मं वणदवं देइ छेत्तररकण - निमित्तं जहा उत्तरावहे पच्छा दड्डे तरुणगतणं उट्ठेइ तत्थ सत्ताणं सयसहस्साण वहो । सरदहतलायसोसणयाकम्मं सरदहतलागाईणि सोसेइ पच्छा वाविज्जइ एयं ण कप्पइ । असईपोसयाम्मं असईओ पोसेइ जहा गोलविसए जोणिपोसगा दासीण भणियं भाडिं गेहूंति । "
प्रदर्शनं चैतद्बहुसावद्यानां कर्मणामेवंजातीयानां न पुनः परिगणनमिति ।
उक्तं सातिचारं द्वितीयं गुणव्रतं सांप्रतं तृतीयमाह । विरई अणत्थदंडे तच्चं स चउनिहो अवज्झाणो । पमायायरियर्हिसप्पयाणपावोवएसे य ॥ २४९ ॥ [विरतिरनर्थदण्डे तृतीयं स चतुर्विधः अपध्यानः । प्रमादाचरितः हिंसाप्रदानः पापोपदेशश्च ॥ २८९ ॥ ] विरतिर्निवृत्तिरनर्थदण्डे अनर्थदण्डविषया इह लोकमप्यङ्गीकृत्य निःप्रयोजनभूतोपमर्दनिग्रहविषया तृतीयं गुणव्रतमिति गम्यते स चतुर्विधः सोऽनर्थदण्डः चतुःप्रकारः । अपध्यान इति अपध्यानाचरितोऽप्रशस्तध्यानेनासेवितः अत्र देवदत्तश्श्रावककोङ्कणार्यक साधुप्रभृतयो ज्ञापकं । प्रमादाचरितो मद्यादिप्रमादेनासेवितः अनर्थदण्डत्वं चास्योक्तशब्दार्थद्वारेण स्वबुद्ध्या भाव
Page #168
--------------------------------------------------------------------------
________________
१५६
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
नीयं । हिंसाप्रदानं इह हिंसाहेतुत्वादायुधानलविषादयो हिंसो - च्यते कारणे कार्योपचारात् तेषां प्रदानं अन्यस्मै क्रोधाभिभूतायानभिभूताय वेति । पापोपदेशश्चेति सूचनात्सूत्रमिति न्यायात्पापकर्मोपदेशः पापं यत्कर्म कृष्यादि तदुपदेशो यथा कृष्यादि कुवित्यादि । अनर्थदण्डस्यैव बहुबन्धहेतुतां ख्यापयन्नाह ।
अट्ठेण तं न बंधइ जमणद्वेणं तु येवबहुभावा । अट्ठे कालाईया नियामगा न उ अणट्ठाए ॥ २९० ॥ [ अर्थेन तत् न बध्नाति यदनर्थेन स्तोकबहुभावात् । अर्थे कालादयो नियामकाः न त्वनर्थे ॥ २९० ॥ ] अर्थेन कुटुंबादिनिमित्तेन प्रवर्तमानस्तन्न बध्नाति तत्कर्म नादत्ते ( ग्रं. १५०० ) यदनर्थेन यद्विना प्रयोजनेन प्रवर्तमानः कुतः स्तोकबहुभावात् स्तोकभावेन स्तोकं प्रयोजनं परिमितत्वात् बहुप्रयोजनं प्रमादापरिमितत्वात् तथा चाह, अर्थे प्रयोजने कालादयों नियामकाः कालाद्यपेक्षं हि कृष्याद्यपि भवति न त्वनर्थाय प्रयोजनमन्तरेणापि प्रवृत्तौ सदा प्रवृत्तेरिति ।
इदमपि चातिचाररहितमेवानुपालनीयमिति अतः तानाह । कंदष्पं कुक्कुइयं मोहरियं संजुया हिगरणं च । उवभोगपरीभोगाइरेयगयं चित्थ वज्जइ ॥ २९१ ॥ [ कंदर्प कौत्कुच्यं मौखर्य संयुक्ताधिकरणं च । उपभोगपरिभोगातिरेकतां चैव वर्जयेत् ॥ २९९ ॥
Page #169
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
१५७ इति पदघटना॥पदार्थस्तु कंदर्पः कामस्तद्धेतुर्विशिष्टो वाक्प्रयोगोऽपि कंदर्प उच्यते रागोद्रेकात्प्रहासमिश्रो मोहोद्दीपको नर्मेति भावः।इह च सामाचारी। सावगस्स अट्टहासो न वदृइ जइ नाम हसियवंतउ इसिं चेव हसियवं ति॥१॥ कौत्कुच्यं कुत्सितसंकोचनादिक्रियायुक्तः कुत्कुचः तस्य भावः कौत्कुच्यं अनेकप्रकारमुखनयनौष्ठकरचरणभ्रूविकारपूर्विका परिहासादिजनिका भांडादीनामिव विडंबनक्रियेत्यर्थः एत्थ सामायारी "तारिसगाणि भासिउं न कप्पंति जांरिसेहिं लोगस्स हासो उप्पज्जइ एवं गतीए ठाणेण वा ठाइउंति" ॥२॥ मौखर्य धाष्टात्प्रायोऽसत्यासंबद्धप्रलापित्वमुच्यते "मुहेण वा अरिमाणेइ जहा कुमारामच्चेणं सो वारहडो विसजिओ रन्नो णिवेदियंताएजीवियाए वित्ती दिना अन्नदा रुटेण मारिओ कुमारामच्चो"॥३॥ संयुक्ताधिकरणं अधिक्रियते नरकादिध्वनेनेत्यधिकरणं वास्युदूखलशिलारपुत्रकं गोधूमयंत्रकादिषु संयुक्तमर्थक्रियाकरणयोग्यं संयुक्तं च तदधिकरणं चेति समासः एत्थ सामायारी "सावगेणं संजुत्ताणि चेव सगडाईणि न धरेयवाणि एवं वासीपरसुमाइ विभासा" ॥४॥ उवभोगपरिभोगाइरेगयत्ति ।। उपभोगपरिभोगशब्दार्थों निरूपित एव तदतिरेकस्तदधिकभावः, एत्थ वि सामायारी “उवभोगातिरित्तं जइ तेल्लामलए बहुए गेण्हइ तो बहुगा व्हायगा वच्चंति तस्स लोलियाए अन्ने वि व्हायगा ण्हायंति पच्छा पूयरगआउकायादिवहो होइ एवं पुष्फतंबोलादिसु विभासा एवं न वदृइ का विही सावगस्स उवभोगे पहाणे
Page #170
--------------------------------------------------------------------------
________________
१५८
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
घरे हाय नत्थि ताहे तेल्लामलएहिं सीसं घसित्ता सबै साडविऊण ताहे तलागाईणं तडे निविट्ठो अंजलीहिं हाइ एवं जेसु य पुष्फे पुण्फकुंथू ताणि परिहरइ " ॥ ५ ॥
उक्तं सातिचारं तृतीयगुणत्रतं गुणवतानन्तरं शिक्षापदत्रतान्याह तानि चत्वारि भवन्ति तद्यथा । सामायिक देशावकाशिकं पौषधोषवासः अतिथिसंविभागश्चेति तत्राद्यमाह ॥
सिकापयं च पढमं सामाइयमेव तं तु नायनं । सावज्जेयरजोगाण वज्जणासेवणारूवं ॥ २९२ ॥ [ शिक्षापदं च प्रथमं सामायिकमेव तत्तु ज्ञातव्यम् । सावद्येतरयोगानां वर्जनासेवनारूपम् ॥ २९२ ॥ ]
शिक्षा परमपदप्रापिका क्रिया तस्याः पदं शिक्षापदं तच्च प्रथममाद्यं सूत्रक्रमप्रामाण्यात्सामायिकमेव समो रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत्पश्यति आयो लाभः प्राप्तिरिति पर्यायाः समस्यायः समायः समो हि प्रतिक्षणमपूर्वैर्ज्ञानदर्शनचारित्रपर्यायैर्नि - रुपमसुखहेतुभिरधःकृतचिन्तामणिकल्पद्रुमोपमैर्युज्यते स एव समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकं समाय एववा भवं सामायिकमिति शब्दार्थः एतत्स्वरूपमाह । तत्तु सामायिकं ज्ञातव्यं विज्ञेयं स्वरूपतः कीदृगिति आह सावद्येतरयोगानां यथासंख्यं वर्जनासेवनरूपमिति तत्रावद्यं गर्हितं पापं सहावद्येन सावद्यं योगा व्यापाराः तेषां वर्जनारूपं परित्यागरूपमित्यर्थः कालावधिनैवेति गम्यते मा भूत्सावद्ययोगपरिवर्जनामात्रमपाप
Page #171
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञत्याख्यप्रकरणं ।
१५९
व्यापारासेवनाशून्यमेव सामायिकमिति अत आह इतरयोगासेवनारूपं निवरद्ययोगप्रति सेवनारूपं चेति सावद्ययोगपरिवर्जनवन्निरवद्ययोगपरिसेवनेऽपि अहर्निशं यत्तः कार्य इति दर्शनार्थमे - तदिति । एत्थ पुण सामायारी "सामाइयं सावगेणं कहं कायवंति इह सावो दुविहो इडिपत्तो अणिडिपत्तोय जो सो अणिडिपत्तो सो चेइयघरे साहुसमीवे घरे वा पोसहसालाए वा जत्थ वा वीसमइ अच्छइ वा निघावारो सवत्थ करेइ सबं चउसु ठाणेसु णियमा कायचं चेइयघरे साहुमूले पोसहसालाए घरे आवस्सगं करोति त्ति तत्थ जइ साहुसमासे करेइ तत्थ को विही जइ परंपरभयं णत्थि जइ विय केणइ समं विवाओ णत्थि जइ कस्सइ न धरेइ मा तेण अच्छविगच्छिंथि कड्डिहिइ य धारणगं दट्ठण गेण्हइ मा भज्जिहिइ जइ वावारं ण करेइ ताहे घरे चैव सामाइयें काऊण वच्चइ पंचसमिओ तिगुत्तो इरियाउवउत्तो जहा साहू भासाए सावज्जं परिहरंतो एसणाए कट्टे लेट्टं वा पडिलेहिउं पमज्जिडं एवं आयाणे निक्खिवणे खेल सिंघाणए न विगिंचइ विगिंचंतो वा पडिलेहेइ पमजिय जत्थ चिट्ठइ तत्थ तिगुत्तिणिरोहं करेइ, एयाए विहीए गंता तिविहेण नमिऊण साहुणो पच्छा सामाइयं करेइ, करेमि भंते सामाइयं सावज्जं जोगं पच्चक्खामि दुविहं तिविहेणं जाव साहुं पज्जुवासामित्ति काऊण पच्छा इरियावहियं पडिक्कमइ पच्छा आलोएत्ता वंदइ आयरियाइ जहारायणियाए पुणो वि गुरुं वंदित्ता पडिले हित्ता निविट्ठो पुच्छइ पढइ वा एवं चेइएस विजया
Page #172
--------------------------------------------------------------------------
________________
१६० सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । सगिहे पोसहसालाए वा तत्थ नवरि गमणं णत्थि । जो इडिपत्तो सो सव्विड्डीए एइ तेण जणस्स आढा होइ आढियाय साहुणो सुपुरिसपरिग्गहणं जइ सो कयसामाइओ एइ ताहे आसहत्थिमाइजणेणय अधिगरणं वडइ ताहेण करेइ कयसामाइएण य पाएहिं आगंतवं तेण ण करेइ आगओ साहुस मीवे करेइ जइ सोसावगो तो ण कोइ उठेइ अह अहाभद्दओ जइपूया कया होउत्ति भणंति ताहे पुवरइयं आसणं कीरइ आयरिया उहिया य अच्छंति तत्थ उहितमणुट्टिते दोसा विभासियव्वा पच्छा सो इड्रिपत्तो सामाइयं करेइ अणेण विहिणा करेमि भंते सामाइयं सावजं जोगं पच्चरकामि दुविहं तिविहेणं जाव णियमं पज्जुवासामित्ति एवं सामाइयं काउं पडिकतो वंदित्ता पुच्छइ सो य किर सामाइयं करेंतो मउडं अवणेइ कुंडलाणि णाममुदं पुप्फतंबोलं पावारगमाइ वा बोसिरइ एसो विही सामाइयस्स"
अत्राह. कयसामइओ सो साहुरेव ता इतरं न किं सव्वं । वजेइ य सावजं तिविहेण वि संभवाभावा ॥२९३॥ कृतसामायिकःअसौ साधुरेव तस्मादित्वरं न किं सर्वम् वर्जयति च सावधं त्रिविधेनापि संभवाभावात्॥२९३॥]
कृतसामायिक प्रतिपन्नसामायिकः सन्नसौ श्रावको वस्तुतः साधुरेव सावद्ययोगनिवृत्तेर्यस्मादेवं तस्मात्साधुवदेवत्वरमल्पकालं न किं किं न सर्व निरवशेष वर्जयति परिहरत्येव सावधं सपा
Page #173
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । योगमिति गम्यते त्रिविधेनापि मनसा वाचा कायेन चेति। अत्रोच्यते संभवाभावात् श्रावकमधिकृत्य त्रिविधेनापि सर्वसावधयोगवर्जनासंभवादिति । असंभवमेवाह ।। आरंभाणुमईओ कणगाइसु अग्गहाणिवित्तीओ। भुजो परिभोगाओ भेओ एसिं जओ भणिओ॥२९४॥ [आरंभानुमतेः कनकादिषु आग्रहानिवृत्तेः। भूयः परिभोगात् भेदः एतयोः यतः भणितः ॥२९४॥]
आरंभानुमतेः श्रावकस्यारंभेष्वनुमतिरव्यवच्छिन्नैव तथा तेषां प्रवर्तितत्वात् कनकादिषु द्रव्यजातेषु आग्रहानिवृत्तेरात्मीयाभिमानानिवृत्तेरनिवृत्तिश्च भूयः परिभोगादन्यथा सामायिकोत्तरकालमपि तदपरिभोगप्रसङ्गः सर्वथा त्यक्तत्वात् भेदश्चैतयोः साधुश्रावकयोः यतो भणित उक्तः परममुनिभिरिति ।भेदाभिधित्सयाह। सिक्खा दुविहा गाहा उववायहिइगईकसाया य ।
बंधता वेयंता पडिवजाइक्कमे पंच ॥ २९५॥ . [शिक्षा द्विविधा गाथा उपपातस्थितिगतिकषायाश्च।
बन्धः वेदना प्रतिपत्तिरतिक्रमाः पञ्च ॥ २९५ ॥] शिक्षाकृतः साधुश्रावकयोर्भेदः सा च द्विविधा ग्रहणासेवनारूपेति वक्ष्यति तथा गाथा भेदिका, सामाइयंमि उ कए इत्यादिरूपेति वक्ष्यत्येव तथोपपातो भेदकः स्थितिभैदिका गतिभैदिका कषायाश्च भेदका बन्धश्च भेदकः वेदना भेदिका प्रतिपत्ति
११
Page #174
--------------------------------------------------------------------------
________________
१६२ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । भैदिका अतिक्रमो भेदक इत्येतत् सर्वमेव प्रतिद्वारं स्वयमेव वश्यति ग्रन्थकारः पञ्चाथवा किं चेति पाठान्तरार्थसहितमपि इति द्वारगाथासमुदायार्थः।
अधुनाद्यद्वारावयवार्थप्रतिपादनायाह ॥ गहणासेवणरूवा सिक्खा भिन्ना य साहुसडाणं ।
पवयणमाईचउदसपुवंता पठमिया जइणो ॥२९६॥ [ग्रहणासेवनरूपा शिक्षा भिन्ना च साधुश्राद्धयोः। प्रवचनमात्रादिचतुर्दशपूर्वान्ता प्रथमा यतेः ॥ २९६ ॥]
ग्रहणासेवनरूपा शिक्षेति शिक्षाभ्यासः सा द्विप्रकारा ग्रहणरूपासवनरूपा च भिन्ना चेयं साधुश्रावकयोः अन्यथारूपा साधोरन्यथारूपा श्रावकस्येति । तथा चाष्टप्रवचनमात्रादिचतुर्दशपून्तिा प्रथमा यतेरिति ग्रहणशिक्षामधिकृत्य साधुः सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातरस्त्रिगुप्तिपञ्चसमितिरूपा उत्कृष्टतस्तु बिंदुसारपर्यन्तानि चतुर्दशपूर्वाणि गृह्णातीति ॥
पवयणमाईछज्जीवणियंता उभयओ वि इयरस्स । पिंडेसणा उ अत्थे इत्तो इयरं पवक्खामि ॥ २९७ ॥ [प्रवचनमातृषड्जीवनिकायान्ता उभयतोऽपि इतरस्य । पिण्डैषणा त्वर्थतः अतः इतरां प्रवक्ष्यामि ॥ २९७ ॥]
प्रवचनमातृषड्जीवनिकायान्ता उभयतोऽपि सूत्रतोऽर्थतश्चेतरस्य श्रावकस्य पिण्डैषणार्थतः न सूत्रत इति एतदुक्तं भवति श्रावकः सूत्रतोऽर्थतश्च जघन्येन ता एव प्रवचनमातर उत्कृष्ट
Page #175
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । १६३ तस्तु षड्जीवनिकायं यावदुभयतोऽर्थतस्तु पिण्डैषणां न तु तामपि सूत्रत इत्येतावद्हाति । उक्ता ग्रहणशिक्षा, अत ऊर्ध्वमित. रामासेवनशिक्षा प्रवक्ष्यामि यथासौ भेदिका एतयोरिति । '
संपुन्नं परिपालइ सामायारिं सदेव साहु ति ।
इयरो तकालम्मि वि अपरिनाणाइओ न तहा२९८ [संपूर्णी परिपालयति सामाचारी सदैव साधुरिति। इतरः तत्कालेऽपि अपरिज्ञानादेः न तथा ॥ २९८ ॥]
संपूर्णी निरवशेषां परिपालयत्यासेवते सामाचारी मुखवस्त्रिकाप्रत्युपेक्षणादिकां क्रियां सदैव सर्वकालमेव साधुरित्या जन्म तथाप्रवृत्तेः इतरः श्रावकस्तत्कालेऽपि सामायिकसमयेऽपि अपरिज्ञानादेरपरिज्ञानादभिष्वङ्गानिवृत्त्या असंभवादनभ्यासाच्च न तथा पालयत्येवमासेवनाशिक्षापि भिन्नैव तयोरिति द्वारं सूत्रप्रामाण्याच्च विशेष इति गाथेत्युपलक्षिता तामाह ॥ सामाइयम्मि उ कए समणो इव सावओ हवइ जम्हा। एएण कारणेणं बहुसो सामाइयं कुज्जा ॥ २९९ ॥ [सामायिके तु कृते श्रमण इव श्रावको भवति यस्मात् । एतेन कारणेन बहुशः सामायिकं कुर्यात् ॥ २९९ ॥]
सामायिके प्राङ्गिरूपितशब्दार्थे तुशब्दो ऽवधारणार्थः सामायिक एव कृते न शेषकालं श्रमण इव साधुरिव श्रावको भवति यस्मादेतेन कारणेन बहुशोऽनेकशः सामायिकं कुर्यादिति अत्र
Page #176
--------------------------------------------------------------------------
________________
१६४ सटीकश्रावकमज्ञप्त्याख्यप्रकरणं। श्रमण इवोक्तं न तु श्रमण एवेति यथा समुद्र इव तडागं न तु समुद्र एवेत्यभिप्राय इति । द्वारं उपपातो विशेषक इत्येतदाह ॥ अविराहियसामन्नस्स साहुणो सावगस्स य जहन्नो।
सोहंमे उववाओ भणिओ तेलुकदंसीहिं ॥ ३०० ॥ [अविराधितश्रामण्यस्य साधोः श्रावकस्य च जघन्यः ।
सौधर्मे उपपातो भणितः त्रैलोक्यदर्शिभिः ॥ ३०० ॥ - अविराधितश्रामण्यस्य प्रव्रज्यादिवसादारभ्याखण्डितश्रमणभावस्य साधोः श्रावकस्य च अविराधितश्रावकभावस्येति गम्यते जघन्यः सर्वस्तोकः सौधर्मे प्रथमदेवलोके उपपातो भवति जन्म भणित उक्तः त्रैलोक्यदर्शिभिः सर्वज्ञैरिति ॥
उक्कोसेण अणुतरअनुयकप्पेसु तत्थ तेसि ठिई। - तितीससागराई बावीसं चेव उक्कोसा ॥३०१॥ [उत्कृष्टतोऽनुत्तराच्युतकल्पयोः तत्र तयोः स्थितिः।
त्रयस्त्रिंशत्सागराणि द्वाविंशतिश्चोत्कृष्टा॥३०१॥] . उत्कृष्टतोऽनुत्तराच्युतकल्पयोरिति साधोरनुत्तरविमानेषु श्रावकस्याच्युतकल्प उपपात इति द्वारं तत्र तयोरिति तत्रानुत्तरविमानाच्च्युयोस्तयोःसाधुश्रावकयोःस्थितिविशिष्टप्राणसंधारणात्मिका यथासङ्ख्यं त्रयस्त्रिंशत्सागरोपमाणि द्वाविंशतिरित्युत्कृष्टा साधोस्त्रयस्त्रिंशदनुत्तरेषु श्रावकस्य तुद्वाविंशतिरच्युत इति गाथार्थः। पलिओवमप्पुहुतं तहेव पलिओवमं च इयरा उ। दुहुँ पि जहासंखं भणियं तेलुक्कदंसीहिं ॥ ३०२ ॥
Page #177
--------------------------------------------------------------------------
________________
सटीकश्रावकज्ञप्त्याख्यप्रकरणं । १६५ [पल्योपमपृथक्त्वं तथैव पल्योपमं चेतरा । दयोरपियथासंख्यं भणिता त्रैलोक्यदर्शिभिः॥३०२
पल्योपमपृथक्त्वं तथैव पल्योपमं चेतरा जघन्या सौधर्मे एव साधोः पल्योपमपृथक्त्वं स्थितिः द्विप्रभृतिरा नवभ्यः पृथक्त्वं श्रावकस्य तु पल्योपममिति अत एवाह द्वयोरपि साधुश्रावकयोभणिता त्रैलोक्यदर्शिभिः स्थितिर्गम्यते इति द्वार। तथा गतिर्भदिकेत्याह। पंचसु ववहारेणं जइणो सडस्स चउसु गमणं तु ।
गइसु चउपंचमासु चउसु य अन्ने जहाकमसो ३०३ [व्यवहारेण पञ्चसु यतेः श्राद्धस्य चतसृषु गमनमिति ।
गतिषु चतुःपंचमासु चतसृषु चान्ये यथाक्रमशः ।।३०३॥] · व्यवहारेण सामान्यतो लोकस्थितिमङ्गीकृत्य पञ्चसु यतेः साधोः श्रावकस्य चतसृषु गमनमिति। कासु गतिषु नारकतिर्यरामरसिद्धिरूपासु चउपंचमासु चउसु य अन्ने जहाकमसो अन्ये त्वभिदधति साधोः सुरगतौ मोक्षगतौ च श्रावकस्य चतसृष्वपि भवांतर्गतिष्विति द्वारं । कषायाश्च भेदका इत्याह ॥ .
चरमाण चउन्हें पि हु उदओऽणुदओ व हुज्ज साहुस्स। इयरस्स कसायाणं दुवालसट्ठाणमुदओ उ॥३०४ ॥ [चरमाणां चतुर्णामपि उदयोऽनुद्यो वा भवेत् साधोः । इतरस्य कषायाणां द्वादशानामष्टानामुद्यातु ॥३०४॥]
Page #178
--------------------------------------------------------------------------
________________
१६६ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं ।
संज्वलनानां चतुर्णामपि क्रोधादीनां कषायाणामुदयोऽनुदयो वा भवेत्साधोरुदयश्चतुस्त्रियेकभेदः, अनुदयोऽप्येवं छद्मस्थवीतरागादेर्भावनीयः । इतरस्य श्रावकस्य कषायाणां द्वादशानामष्टानां चोदय एवेति यदा द्वादशानांतदा अनंतानुबंधिवर्जा गृह्यन्ते एते चाविरतस्य विज्ञेया यदा त्वष्टानां तदानन्तानुबन्ध्यप्रत्याख्यानवर्जा एते च विरताविरतस्येति द्वारं । तथा बन्धश्च भेदक इत्येतदाह।
मूलपयडीस जइणो सतविहट्ठविहछविहिक्कविहं । बंधंति न बंधंति य इयरे उ सत्तविहबंधा ॥३०५॥ मूलप्रकृतिषु यतयः सप्तविधाष्टविधषधैिकविधबन्धकाः अबन्धकाश्च भवन्ति इतरे सप्तविधबन्धकाः तु॥३०५॥] मूलप्रकृतिषु ज्ञानावरणादिलक्षणासु विषयभूतासु तस्मिन्विषय इति के यतय इति साधवः सप्तविधाष्टविधषधैिकविधबंधकाबन्धकाश्च भवंति एतद्भावयिष्यति । इतरे श्रावकाः सप्तविधबन्धकाः तुशब्दादष्टविधबन्धकाश्चायुष्कबन्धकाल इति । एतदेव विवृण्वन्नाह ।
सतविहबंधगा हंति पाणिणो आउवज्जियाणं तु । तह सुहमसंपराया छविहबंधा विणिहिट्ठा ॥ ३०६॥ [ससविधबन्धका भवन्ति प्राणिनो आयुर्वर्जितानामेव । तथा सूक्ष्मसंपरायाः षड्डिधबन्धका विनिर्दिष्टाः॥३०६॥]
सप्तविधबन्धका भवन्ति प्राणिनो जीवा आयुर्वर्जितानामेव ज्ञानावरणीयादिप्रकृतीनां सप्तानामिति तथा सूक्ष्मसंपरायाः श्रेणि
Page #179
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १६७ द्वयमध्यवर्तिनः तथाविधलोभाणुवेदकाः षड्डिधबन्धका विनिर्दिष्टास्तीर्थकृद्भिरिति ॥
मोहाऊवजाणं पयडीणं ते उ बंधगा भणिया।
उवसंतखीणमोहा केवलिणो एगविहबंधा ॥३०७॥ [मोहायुर्वर्जानां प्रकृतीनां ते तु बन्धका भणिताः। उपशान्तक्षीणमोहाः केवलिन एकविधबन्धाः ॥३०७॥ मोहायुर्वर्जानां प्रकृतीनां ज्ञानावरणादिरूपाणां ते तु सूक्ष्मसंपराया बन्धका भणिता,मोहनीयं न बध्नन्ति निदानाभावात्तस्य किंचिच्छेषमात्रत्वावस्थितावप्यसमर्थत्वात् आयुष्कं न बध्नन्ति तथाविधपरिणामोपात्तस्य वेदनास्थानाभावात् । उपशान्तक्षीणमोहाः श्रेणिद्वयोपरिवर्तिनः उपशान्तक्षीणच्छद्मस्थवीतरागाः केवलिनश्च सयोगिभवस्था एकविधबन्धका इति ।
ते पण दुसमयठिइस्स बंधगा न उण संपरायस्स ।
सेलेसीपडिवन्ना अबंधगा हुंति नायव्वा ॥ ३० ॥ [ते पुनर्दिसमयस्थिते बन्धका न पुनःसांपरायिकस्य ।
शैलेशीप्रतिपन्ना अबन्धका भवन्ति ज्ञातव्याः॥३०८॥] ते पुनरुपशान्तमोहादयस्तस्यैकविधस्य द्विसमयस्थितेरी-पथस्य बन्धका न पुनः सांपरायिकस्य पुनर्भवहेतोरिति । शैलेशीप्रतिपन्ना अयोगिकेवलिनोऽबन्धका भवन्ति ज्ञातव्याः सर्वथा निदानाभावादिति द्वारं । तथा वेदना भेदिकेल्याह
Page #180
--------------------------------------------------------------------------
________________
१६८ सटीकश्नावकप्रज्ञप्त्याख्यप्रकरणं।
अट्ठण्हं सतण्हं चउण्ह वा वेयगो हवइ साहू ।
कम्मपयडीण इयरो नियमा अढण्ह विनेओ॥३०९॥ [ अष्टानां ससानां चतमृणां वा वेदको भवति साधुः। कर्मप्रकृतीनां इतरः नियमादृष्टानां विज्ञेयः ॥ ३०९॥]
अष्टानां सप्तानां चतसणां वा वेदको भवति साधः कासां कर्मप्रकृतीनामिति तत्राष्टानां यः कश्चित् सप्तानामुपशान्तक्षीणमोहच्छद्मस्थवीतरागो मोहनीयरहितानां चतसृणामुत्पन्नवलो वेदनीयनामगोत्रायूरूपाणां इतरः श्रावको देशविरतिपरिणामवर्ती नियमादष्टानां विज्ञेयो वेदक इति द्वारं । प्रतिपत्तिकृतो भेद इति अत्र आह · पंच महब्वय साहू इयरो इकाइणुब्बए अहवा। : .
सइ सामइयं साहू पडिवज्जइ इतरं इयरो ॥३१०॥ [पञ्चमहाव्रतानि साधुः इतर एकादीनि अनुव्रतानि अथवा
सकृत् सामायिकं साधुः प्रतिपद्यते इत्वरं इतरः॥३१०॥] - पञ्च महाव्रतानिप्राणातिपातादिविरमणादीनि संपूर्णान्येव साधुः प्रतिपद्यत इति योगः। इतरः श्रावकः एकादीनि अणुव्रतानि प्र'तिपद्यत इत्येकं द्वे त्रीणि चत्वारि पञ्च चेति ॥ अथवा सकृत्सा'मायिकं साधुः प्रतिपद्यते सर्वकालं च धारयति । इत्वरमितरः श्रावकोऽनेकशो न च सदा पालयतीति द्वारं । अतिक्रमो भेदक इति एतदाह
Page #181
--------------------------------------------------------------------------
________________
सटीकश्रावकज्ञप्त्याख्यप्रकरणं। १६९ .. इक्कस्सइक्कमे खलु वयस्स सवाणइक्कमो जइणो।
इयरस्स उ तस्सेव य पाठंतरमो हवा किंच ॥३११॥ [एकस्यातिक्रमे खलु सर्वेषामतिक्रमो यतेः। इतरस्य तु तस्यैव पाठान्तरमेवाथवा किंच ॥३११॥
एकस्यातिकमे केनचित्प्रकारेण व्रतस्य सर्वेषामतिक्रमो यतेस्तथाविधैकपरिणामत्वात् । इतरस्य तु श्रावकस्य तस्यैवाधिकृतस्याणुव्रतस्य न शेषाणां विचित्रविरतिपरिणामात् पाठान्तरमेवाथवा द्वारगाथायां तच्चेदं किं च "सव्वं ति भाणिऊणं" इत्यादिग्रन्थान्तरापेक्षमन्यत्रेति । • उक्तमानुषङ्गिकं प्रकृतं प्रस्तुम इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति। तानाह .. मणवयणकायदुप्पणिहाणं सामाइयम्मि वज्जिज्जा।
सइअकरणयं अणवट्ठियस्स तह करणयं चेव ॥३१२॥ [मनोवाकायदुःप्रणिधानं सामायिके वर्जयेत्।।
स्मृत्यकरणतां अनवस्थितस्य तथा करणं चैव ॥३१२॥] मनोवाकायदुःप्रणिधानं मनोदुष्टचिन्तनादि सामायिके कृते सति वर्जयेत् स्मृत्यकरणतां अनवस्थितस्य तथा करणं चैव वर्जयेत् । तत्र स्मृत्यकरणं नाम सामायिकविषया या स्मृतिस्तस्या अनासेवनमिति एतदुक्तं भवति प्रबलप्रमादान्नैव स्मरत्यस्यां वेलायां सामायिक कर्तव्यं कृतं न कृतमिति वा स्मृतिमूलं च . १ सव्वं ति भाणिऊणं विरई खलु जस्स सब्विया नत्थि । .. सो सव्वविरइवाई चुक्कइ देसं च सव्वं च ॥.
Page #182
--------------------------------------------------------------------------
________________
१७०
सटीकश्रावकप्रज्ञस्याख्यप्रकरणं।
मोक्षसाधनानुष्ठानमिति । सामायिकस्यानवस्थितस्य करणं अनवस्थितमल्पकालं करणानन्तरमेव त्यजति यथाकथञ्चिद्वानवस्थितं करोतीति । एतदेव अतिचारजातं विधिप्रतिषेधाभ्यां स्पष्टयति सामाइयं ति काउं परचितं जो उ चिंतई सडो।
अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥३१३॥ [सामायिकमिति कृत्वा परचिन्तां यस्तु चिन्तयति प्राड:
आर्तवशाहॊपगतः निरर्थकं तस्य सामायिकम्॥३१॥] सामायिकमित्येवं कृत्वा आत्मानं संयम्य परचिन्तां संसारे इतिकर्तव्यताविषयां यस्तु चिन्तयति श्रावकः, आर्तवशातेश्च स उपगतश्चेति समासः आतध्यानसामर्थनातेः उप सामीप्येन गतो भवस्येति भावार्थः निरर्थक तस्य सामायिकं अनात्मचिन्तावतो निःफलं सामायिकमित्यर्थः । आत्मचिन्ता च सध्यानरूपेति ।। उक्तो मनोदुःप्रणिधानविधिः सांप्रतं वाग्दुःप्रणिधानमाह कयसामइओ पुच्विं बुद्धीए पेहिऊण भासिज्जा।
सइ अणवजं वयणं अनह सामाइयं न भवे॥३१४॥ [कृतसामायिकः पूर्व बुद्ध्या प्रेक्ष्य भाषेत । सदा निरवयं वचनं अन्यथा सामायिकं न भवेत्॥३१४॥] कृतसामायिकः सन् श्रावकः पूर्वमाद्यं बुद्ध्या प्रेक्ष्यालोच्य भाषेत ब्रूयात् सदा निरवद्यवचनं प्रणालिकयापि न कस्यचित्पी
Page #183
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । १७१ डाजनकं, अन्यथानालोच्य भाषमाणस्य सामायिकं न भवेत् । वाग्दुःप्रणिहितत्वादिति । २।
भणितो वाग्दुःप्रणिधानातिचारः सांप्रतं कायप्रणिधानमुररीकृत्याह
अनिरिक्खियापमज्जिय थंडिल्ले ठाणमाइ सेवंतो। हिंसाभावेविन सोकडसामइओ पमायाओ॥३१५॥ [अनिरीक्ष्य अप्रमृज्य स्थण्डिले स्थानादि सेवमानः। हिंसाभावेऽपि नासौ कृतसामायिकः प्रमादतः ३१५]
अनिरीक्ष्य चक्षुषा अप्रमृज्य च मृदुवस्त्रान्तेन स्थण्डिले कल्पनीयभूभागे स्थानादि कायोत्सर्गनिषीदनादि सेवमानः सन् हिंसाभावेऽपि प्राण्यभावेन कथंचियापत्त्यभावेऽपि नासौ कृतसामायिकः । कुतः प्रमादात्काये दुःप्रणिधानादिति । ३।
प्रतिपादितः कायदुःप्रणिधानमार्गः सांप्रतं स्मृत्यकरणमधिकृत्याह
न सरइ पमायजुतो जो सामइयं कया उ कायच्वं । कयमकयं वा तस्स उकयं पि विफलं तयं नेयं ॥३१६॥ [न स्मरति प्रमादयुक्तः यः सामायिक कदा तु कर्तव्यम्। कृतमकृतं वा तस्य कृतमपि विफलं तकं ज्ञेयम् ॥३१६॥]
न स्मरति प्रमादयुक्तः सन् यः सामायिकं कदा तु कर्तव्यं कोऽस्य काल इति कृतमकृतं वा न स्मरति, तस्येत्थंभूतस्य कृत
Page #184
--------------------------------------------------------------------------
________________
१७२
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । मपि सद् विफलं तत् ज्ञेयं स्मृतिमूलत्वाद्धर्मानुष्ठानस्य, तदभावे तदभावात्।४। . व्याख्यातं स्मृत्यकरणमधुनानवस्थितकरणमाह
काऊण तक्खणं चिय पारेइ करेइ वा जहिच्छाए। ; अणवट्टियसामइयं अणायराओ न तं सुद्धं ॥३१७॥ [कृत्वा तत्क्षणमेव पारयति करोति वा यदृच्छया।
अनवस्थितसामायिकं अनादरान तच्छुद्धम् ॥३१७।।] । कृत्वा तत्क्षणमेव करणानन्तरमेव पारयति, करोति वा यदृच्छया यथाकथंचिदेवमनवस्थितं सामायिकमनादरादबहुमानान्नैतच्छुद्धं भवति न निरवद्यमिति ॥५॥ . उक्तं सातिचारं प्रथमं शिक्षापद्मधुना द्वितीयमाह दिसिवयगहियस्स दिसापरिमाणस्सेह पइदिणं जंतु।
परिमाणकरणमेयं बीयं सिक्खावयं भणियं ॥३१॥ [दिग्व्रतगृहीतस्य दिग्परिमाणस्य इह प्रतिदिनं यदेव ।
परिमाणकरणमेतद् द्वितीयं शिक्षापदं भणितम् ३१८ - दिग्व्रतं प्राडिरूपितस्वरूपं तद्गहीतस्य दिक्परिमाणस्य योजनशतादेर्दीर्घकालिकस्य इह लोके प्रतिदिनं यदेव परिमाणकरणमेतावदेव गन्तव्यं न परत इत्येतद्वितीयं शिक्षापदं भणितमिह प्रवचने इति।प्रतिदिवसग्रहणं प्रतिप्रहरायुपलक्षणं प्रतिप्रहरं प्रतिघटिकमिति ।।
Page #185
--------------------------------------------------------------------------
________________
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
१७३
देसावगासियं नाम सप्पविसनायओsपमायाओ । आससुद्धी हियं पालेयवं पयत्तेणं ॥ ३१९ ॥ [ देशावकासिकं नाम सर्पविषज्ञातात् अप्रमादात् । आशयशुद्ध्या हितं पालयितव्यं प्रयत्नेन ॥ ३१९ ॥ ] दिग्व्रतगृहीतदिक्परिमाणैकदेशो देशस्तस्मिन्नवकाशो गमनादिचेष्टास्थानं तेन निर्वृत्तं देशावकाशिकमिति । नामेति संज्ञा । एतच्च सर्पविषज्ञातात् सर्पोदाहरणेन विषोदाहरणेन च । जहा सपस्स पुर्व बारस जोययाणि विसओ आसी दिट्ठीए पच्छा विज्जावाइएण ओसारं तेण जोयणे ठविओ एवं सावगो दिसिवयाहिगारे बहुयं अवरज्झियाइओ पच्छा देसावगासिएणं तं पि ओसारइ, अहवा विसदितो अगएण एगाए अंगुलीए ठवियं एवं विभासा ॥ एवमप्रमादात्प्रतिदिनादिपरिमाणकरणे अप्रमादस्तथा चाशयशुद्धिः चित्तवैमल्यं, ततो हितमिदमिति पालयितव्यं प्रयत्नेनेति । इदमपि चातिचाररहितमनुपालनीयमिति ॥ अतस्तानाह
वज्जिज्जा आणयणप्पओगपेसप्पओगयं चेव । सद्दाणुरूववायं तह बहिया पुग्गलक्खेवं ॥ ३२० ॥ वर्जयेत् आनयनप्रयोगं प्रेष्यप्रयोगं चैव । शब्दानुपातं रूपानुपातं तथा बहिः पुद्गलक्षेपम् ॥ ३२० ॥] प्रतिपन्न देशावकाशिकः सन् वर्जयेत् किं आनयनप्रयोगं प्रेष्यप्र
Page #186
--------------------------------------------------------------------------
________________
१७४
सटीकश्रावकमज्ञप्त्याख्यप्रकरणं । योगं चैव शब्दानुपातं रूपानुपातं च तथा बहिर्वा पुद्गलक्षेपं वर्जयेदिति पदघटना। भावार्थस्तु इह विशिष्टावधिके भूदेशाभिग्रहे परतः स्वयं गमनायोगाद्योऽन्यः सचित्तादिद्रव्यानयने प्रयुज्यते, संदेशकप्रदानादिना " त्वयेदमानेयम्" इति अयमानयनप्रयोगः ।। तथा प्रेष्यप्रयोगः बलाद्विनियोज्यः प्रेष्यस्तस्य प्रयोगो, यथाभिगृहीतप्रविचारदेशव्यतिक्रमभयात्"त्वयावश्यमेव गत्वा मम गवाद्यानेयमिदं वा तत्र कर्तव्यमेव" एवंभूतः।२। तथा शब्दानुपातः स्वगृहवृत्तिप्राकारादिव्यवच्छिन्नभूप्रदेशाभिग्रहे बहिः प्रयोजनोत्पत्तौ, तत्र स्वयंगमनायोगाद्वृत्तिप्राकारप्रत्यासन्नवर्तिनो बुद्धिपूर्वकमभ्युक्तासितादिकशब्दकरणेन समवसितकान्बोधयतः शब्दानुपातनमुच्चारणं तादृग्येन परकीयश्रवणविवरमनुपतत्यसाविति । ३ । तथा रूपानुपातो गृहीतदेशाद्वहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनार्थ स्वशरीररूपप्रदर्शनं रूपानुपातः । ४। तथा बहिः पुद्गलक्षेपोऽभिगृहीतदेशाद्वहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्ट्वादिक्षेपः पुद्गलप्रक्षेप इति भावना ।। देशावकाशिकमेतदर्थम-- भिगृह्यते मा भूद्वहिर्गमनागमनादिव्यापारजनितः प्राण्युपमर्द इति स च स्वयं कृतोऽन्येन वा कारितः इति न कश्चित्फले विशेषः प्रत्युत गुणः स्वयं गमन ईर्यापथविशुद्धेः परस्य पुनरनिपुणत्वातदशुद्धिरिति
Page #187
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। व्याख्यातं सातिचारं द्वितीयंशिक्षापद्मधुना
तृतीयमुच्यते आहारपोसहो खलु सरीरसक्कारपोसहो चेव । बंभवावारेसु य तइयं सिक्खावयं नाम ॥ ३२१ ॥ [आहारपौषधः खलु शरीरसत्कारपौषधश्चैव । ब्रह्माव्यापारयोश्च तृतीयं शिक्षापदं नाम ॥ ३२१ ॥]
आहारपौषधः खलु शरीरसत्कारपौषधश्चैव ब्रह्माव्यापारयोश्चेति ब्रह्मचर्यपौषधो ऽव्यापारपौषधश्चेति । इह पौषधशब्दः रूढ्या पर्वसु वर्तते । पर्वाणि चाष्टम्यादितिथयः पूरणात्पर्व धर्मोपचयहेतुत्वादिति । तत्राहारः प्रतीतः तद्विषयस्तन्निमित्तो वा पौषधः आहारपौषधः आहारादिनिवृत्तिनिमित्तं धर्मपूरणं पतिभावना । एवं शरीरसत्कारपौषधः । ब्रह्मचर्यपौषधः अत्र चरणीयं चर्य अतो यदित्यस्मादधिकारात् गदमदचरयमश्चानुपसर्ग इति यत् ब्रह्म कुशलानुष्ठानं यथोक्तं । ब्रह्म वेदो ब्रह्म तपो ब्रह्म ज्ञानं च शाश्वतं । ब्रह्मवत् चर्य चेति समासः शेषं पूर्ववत् । तथाव्यापारपौषधः तृतीयं शिक्षाव्रतं नामेति सूचनात्सूत्रमिति न्यायात्तृतीयं शिक्षापदव्रतमिति एतदेव विशेषेणाह देसे सच्चे य दुहा इक्विको इत्थ होइ नायवो। सामाइए विभासा देसे इयरम्मि नियमेण ॥३२२॥
Page #188
--------------------------------------------------------------------------
________________
१७६
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [देशे सर्वस्मिन् च द्विधैव एकैकः अत्र भवति ज्ञातव्यः। सामायिके विभाषा देशे इतरस्मिन्नियमेन ॥ ३२२॥]
देश इति देशविषयः सर्व इति सर्वविषयश्च द्विधा द्विप्रकार एकैक आहारपौषधादिरत्र प्रवचने भवति ज्ञातव्यः सामायिके विभाषा कदाचित्क्रियते कदाचिन्नेति देशपौषधे, इतरस्मिन् सर्वपौषधे नियमेन सामायिकं अकरणात्मवंचनेति । - भावत्थो पुण इमो आहारपोसहो दुविहो देसे सबे य देसे अमुगा विगती आयंबिलं वा एकसि वा दो वा सवे चउविहो आहारो अहोरत्तं पञ्चक्खाओ । सरीरसक्कारपोसहो न्हाणुवट्टणवनगविलेवणपुप्फगन्धतंबोलाणं वत्थाहरणपरिच्चागो य,सो दुविहो देसे सबे य देसे अमुगं सरीरसकारं न करेमि सवे सव्वं न करेमि त्ति । बंभचेरपोसहो वि देसे सव्वे य देसे दिवारत्तिं वा एकसिं वा दो वारे त्ति सव्वे अहोरत्तं बंभचारी भवति । अघावारपोसहो वि दुविहो देसे सव्वे य देसे अमुगंमि वावारंमि सव्वे सव्वं वावारं चेव हलसगडघरकम्माइयं ण करेमि । एत्थ जो देसपोसहं करेइ सो सामायिक करेइ वा ण वा जो सबापोसहं करेइ सो नियमा कयसामाइओ जइ ण करे तो णियमा वंचिजइ कहिं चेइयघरे साहुमूले वा घरे वा पोसहसालाए वा उम्मुक्कमणिसुवन्नो पढंतो पोत्थगं वा वायंतो धम्मज्झाणं वा झायइ जहा एए साहुगुणा अहमसत्थो मंदभग्नो धारे विभासा । इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति । अत आह
Page #189
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १७७ अप्पडिदुप्पडिलेहियसिज्जासंथारयं विवज्जिज्जा।
अपमज्जियदुपमज्जिय तह उच्चाराइभूमि च॥३२३॥ [अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारको वर्जयेत् । अप्रमार्जितदुष्प्रमार्जितं तथा उच्चारादिभुवमपि॥३२३॥]
अप्रत्युपेक्षितदुःप्रत्युपेक्षितशय्यासंस्तारको वर्जयेत् । इह संस्तीयते यः प्रतिपन्नपौषधोपवासेन दर्भकुशकम्बलवस्त्रादिः स संस्तारकः शय्या प्रतीता अप्रत्युपेक्षणं गोचरापन्नस्य शय्यादेः चक्षुषानिरीक्षणं दुष्टमुद्रान्तचेतसः प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ च शय्यासंस्तारको चेति समासः शय्यैव वा संस्तारक इति । एवमन्यत्रापि अक्षरगमनिका कार्येति । उपलक्षणं च शय्यासंस्तारकावुपयोगिनः पीढफलकादेरपि । __ एत्थं सामायारी कडपोसहो णो अप्पडिलेहिय सेजं दुरुहइ संथारगं वा दुरुहइ पोसहसालं वा सेवइ दब्भवत्थं वा सुद्धवत्थं वा भूमीए संथारेइ काइयभूमीउ वा आगओ पुणरवि पडिलेहइ अन्नहातियारो एवं पीढफलगादिसु वि विभासा।।
तथा अप्रमार्जितदुःप्रमार्जितशय्यासंस्तारकावेव ।इहाप्रमार्जन शय्यादेरासेवनकाले वस्त्रोपान्तादिनेति दुष्टमविधिना प्रमार्जनं शेषं भावितमेव । एवमुच्चारप्रस्रवणभुवमपि उच्चारप्रस्रवणं निष्ठयूतस्वे. दमलाद्युपलक्षणं शेष भावितमेव । गाहा तह चेव य उज्जतोविहीइ इह पोसहम्मि वज्जिज्जा। सम्मं च अणणुपालणमाहाराईसु सव्वेसु ॥ ३२४॥
१२
Page #190
--------------------------------------------------------------------------
________________
१७८ सटीकश्नावकमज्ञप्त्याख्यप्रकरणं। [तथैव च उद्युक्तः विधिना इह पौषधे वर्जयेत्। . . सम्यगननुपालनं च आहारादिषु सर्वेषु ।। ३२४॥]
तथैव च यथानन्तरोदितमुयुक्तो विधिना प्रवचनोक्तक्रियया निःप्रकम्पेन मनसा इह पौषधे पौषधविषयं वर्जयेत् किं सम्यगननुपालनं चेति व आहारादिषु सर्वेषु सर्वाहारादिविषयमिति गाथाक्षरार्थः।
एत्थ भावणा कयपोसहो अथिरचित्तो आहारे ताव सव्वं देसं वा पत्थेइ बीयदिवसे पारणगस्स वा अप्पणोढाए आढत्तिं करेइ कारवेइ वा इमं इमं वत्ति करेह । न वट्टइ सरीरसक्कारे सरीरमुबदेइ दाढियाउ केसे वा रोमाई वा सिंगाराभिप्पाएण संठवेइ दाहे वा सरीरं सिंचइ एवं सव्वाणि सरीरविभूसाकारणाणि परिहरइ । बंभचेरे इहलोइए वा परलोइए भोगे पत्थेइ संवाहेइ वा अहवा सद्दफरिसरसरूवगंधे वा अभिलसइ कइया बंभचेरपोसहो पूरिहिइ चझ्यामो बंभचेरेणंति।अव्वाबारे सावजाणि वावारेइ कयमकयं वा चिंतेइ एवं पंचातियारसुद्धो अणुपालेयव्योत्ति गाथाद्वयभावार्थः। उक्तं सातिचारं तृतीयं शिक्षापदव्रतमधुना
नायागयाण अन्नाइयाण तह चेव कप्पणिज्जाणं । देसद्धसद्धसकारकमजुयं परमभतीए ॥ ३२५ ॥ [न्यायागतानां अन्नादीनां तथा चैव कल्पनीयानाम् । देशकालश्रद्धासत्कारक्रमयुक्तं परमभत्त्या॥ ३२५ ॥]
Page #191
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
न्यायागतानामिति, न्यायो द्विजक्षत्रियविशूद्राणां स्ववृत्त्यनुष्ठानं स्ववृत्तिश्च प्रसिद्धैव प्रायो लोकहेर्या तेनेशन्यायेनागतानां प्राप्तानामनेनान्यायागतानां प्रतिषेधमाह । अन्नादीनां द्रव्याणां आदिग्रहणात्पानवस्त्रपात्रौषधभेषजादिपरिग्रहः अनेनापि हिरण्यादिव्यवच्छेदमाह । कल्पनीयानामिति उद्गमादिदोषपरिवजितानां अनेनाकल्पनीयानां निषेधमाह । देशकालश्रद्धासत्कारक्रमयुक्तं नानाव्रीहिकोद्रवकङ्गगोधूमादिनिष्पत्तिभाग्देशः, सुभिक्षदुर्भिक्षादिः कालः, विशुद्धचित्तपरिणामः श्रद्धा, अभ्युस्थानासनदानवंदनाद्यनुव्रजनादिः सत्कारः, पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः, एभिर्देशादिभिर्युक्तं समन्वितं, अनेनापि विपक्षव्यवच्छेदमाह । परमया प्रधानया भत्तया इत्यनेन फलप्राप्तौ भक्तिकृतमतिशयमाहेति ॥
आयाणुग्गहबुद्धीइ संजयाणं जमित्थ दाणं तु । एवं जिणेहि भणियं गिहीण सिक्खावयं चरिमं३२६ [आत्मानुग्रहबुद्ध्या संयतेभ्यः यदन्न दानं तु। एतद् जिनः भणितं गृहिणांशिक्षापदं चरमम् ॥३२६]
आत्मानुग्रहबुद्ध्या न पुनर्यत्यनुग्रहबुद्ध्येति तथाहि आत्मपरानुग्रहपरा एव यतयः संयता मूलोत्तरगुणसंपन्नाः साधवस्तेभ्यो दानमिति एतन्जिनैस्तीर्थकरैर्भणितं गृहिणः श्रावकस्य शिक्षापदमिति शिक्षापदव्रतं चरमं अतिथिसंविभागाभिधानं इह भोजनार्थ भोजनकालोपस्थाय्यतिथिरुच्यते । आत्मार्थनिष्पादिताहारस्य गृहिणो व्रती साधुरेवातिथिः । यत उक्तं।
Page #192
--------------------------------------------------------------------------
________________
१८० सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं ।
तिथिः पर्वोत्सवाः सर्वे त्यक्ता येन महात्मना।
अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः॥ तस्य संविभागो अतिथिसंविभागः संविभागग्रहणात्पश्चात्कर्मादिपरिहारमाहेति । ___ एत्थ सामायारी सावगेण पोसहं पारंतेण नियमा साधूणमदाउं न पारेयव्वं दारं पारेयव्वं । अन्नया पुण अनियमो दाउं वा पारेइ पारिए वा देइ त्ति तम्हा पुव्वं साहूणं दाउं पच्छा पारेयवं कहं जाहे देसकालो ताहे अप्पणो सरीरस्स विभूसं काउं साहुपडिस्सयं गंतुं णिमंतेइ भिरकं गेण्हह त्ति । साहूणं का पडिवत्ती ताहे अन्नो पडलयं अन्नो मुहणंतगं अन्नो भायणं पडिलेहेइ मा अंतराइयदोसा ठवणा दोसो य भविस्सन्ति । सो जइ पढमाए पोरिसीए णिमंतेइ अत्थि णमोकारसहियाइत्ता । तो गच्छइ अह नत्थि न गच्छइ तं ठवियव्वं होइ जइ घणं लगेजा ताहे गेण्हइ संविताविजइ जो व उग्घाडाए पोरसीए पारेइ पारणाइत्तो अन्नो वा तस्स दिजइ सामन्नेणं नाए कहिए पच्छा तेण सावगेण समं गम्मइ. संघाडगो वच्चइ एगो न वट्टइ पट्टवेडं साहू पुरओ सावगो मग्गओ घरं णेऊण आसणेण उवणिमंतिजइ जइ णिविट्ठो लट्ठयं अह ण णिविसति तहा वि विणओ पयत्तो ताहे भत्तपाणं देइ सयं चेव अहवा भाणं धरेइ भजा से देइ अहव ठिओ अच्छइ जहा दिन्नं साहुवि सावसेसं दव्वं गेलइ पच्छाकम्मपरिहरणट्ठा दाउं वंदिऊण विसजेइ विसजित्ता अणु१ एष पाठोऽशुद्ध इव प्रतिभाति परं दृष्टादशॆष्वेतादृश एव
Page #193
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । १८१ गच्छइ पच्छा सयं भुंजइ जं च किर साहुण ण दिन्नं तं सावगेण न भोत्तव्वं । जइ पुण साहू णत्थि ताहे देसकालवेलाए दिसालोओ कायव्वो विसुद्धभावेण चिंतियव्वं साहुणो जइ होता नाम नित्थारिओ होतोत्ति विभासा। इदमपि शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति एतदाह सच्चितनिक्खिवणयं वज्जे सचितपिहणयं चेव । कालाइक्कमदाणं परववएसं च मच्छरियं ॥ ३२७ ॥ सचित्तनिक्षेपणं वर्जयेत् सचित्तपिधानं चैव । कालातिक्रमदानं परव्यपदेशं मात्सर्य च ॥ विवर्जयेत् तत्र सचित्तनिक्षेपणं सचित्तेषु ब्रीह्यादिषु निक्षेपणमन्नादेरदेयबुद्ध्या मातृस्थानतः।१। एवं सचित्तपिधानं सचित्तेन फलादिना पिधानं स्थगनमिति समासः भावार्थः प्राग्वत् । २। कालातिक्रम इति कालस्यातिक्रमः कालातिक्रमः उचितो यो भिक्षाकालः साधूनां तमतिक्रम्य उलंघ्य भुंक्त तदा च किं तेन लब्धेनापि कालातिक्रांतत्वात्तस्य उक्तं च
काले दिन्नस्स पहेणयस्स अग्घो ण तीरए काउं ।
तस्सेवकाले परिणामियस्स गिण्हतया नत्थि । ३ । परव्यपदेश इति आत्मव्यतिरिक्तो योऽन्यः स परस्तव्यपदेश इति समासः साधोः पौषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्ते परकीयमिदमिति नात्मीयमतो न ददामि किंचिद्याचितो वाभिधत्ते विद्यमान एवामुकस्येदमस्ति तत्र गत्वा मार्गय तद्यूयमिति । ४मात्सर्य
Page #194
--------------------------------------------------------------------------
________________
१८२
सटीकश्रावकप्रज्ञस्याख्यप्रकरणं। मिति याचितः कुप्यते सदपि न ददाति परोन्नतिवैमनस्यं च मात्सर्यमिति “ तेन तावमकेण याचितेन दत्तं, किमहं ततोऽपि न्यूनः” इति मात्सर्याद्ददाति कषायकलुषितेन वा चित्तेन ददतो मात्सर्यमिति । ५।
उक्तं च सातिचारं चतुर्थ शिक्षापदव्रतं अधुनैषामणुव्रतादीनां यानि यावत्कथिकानि यानि चेत्वराणि तदेतदाह । .. इत्थ उ समणोवासगधम्मे अणुव्वयगुणव्वयाई च।
आवकहियाइ सिक्खावयाई पुण इतराई ति॥३२॥ [अत्र तु श्रमणोपासकधर्मे अनुव्रतानि गुणवतानि च। यावत्कथिकानि शिक्षात्रतानि पुनरित्वराणीति ३२८]
अत्र पुनः श्रमणोपासकधर्मे तुशब्दः पुनःशब्दार्थः स चावधारणे अत्रैव न शाक्याापासकधर्मे तत्र सम्यक्त्वाभावेन अणुव्रताधभावात् उपास्ते इत्युपासकः सेवकः इत्यर्थः श्रमणानामुपासकस्तस्यं धर्म इति समासः अणुव्रतानि गुणव्रतानि चेति पञ्चागुब्रतानि प्रतिपादितस्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव यावत्कथिकानीति सकृद्रहीतानि यावज्जीवमपि भावनीयानि न तु नियोगतो यावजीवमेवेति गुरवो व्याचक्षते प्रतिचातुर्मासकमपि तद्रहणं वृद्धपरंपरायाततया सामाचार्युपलब्धेः शिक्षापदव्रतानि पुनरित्वराणि शिक्षा अभ्यासस्तस्याः पदानि स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि इत्वराणीति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्येते इति भाव
Page #195
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञघ्याख्यप्रकरणं ।
१८३
ना पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति ।
श्रावकधर्मे च प्रत्याख्यानभेदानां सप्तचत्वारिंशदधिकं भङ्गशतं भवति चित्रत्वादेशविरतेः, तदाह
सीयालं भंगसयं गिहिपञ्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं भावेयव्वं पयतेणं ॥ ३२९ ॥ [ सप्तचत्वारिंशदधिकं भङ्गशतं गृहिप्रत्याख्यानभेदपरिमाणं ।
तच्च विधिना अनेन भावयितव्यं प्रयलेन ॥ ३२९ ॥ ] सप्तचत्वारिंशदधिकं शतं गृहिप्रत्याख्यानभेदानां परिमाण - मियत्ता तच्च विधिना अनेन वक्ष्यमाणेन भावयितव्यं प्रयत्नेनाव - हितचेतोभिरिति । विधिमाह । तिन्नि तिया तिन्नि दुया तिन्निकिका य हुंति जोगेसु । तिदु एक्कं ति दु एक्कं ति दु एक्कं चेव करणाई ॥ ३३० ॥ [ त्रयस्त्रिकाः त्रयो द्विकाः त्रय एककाश्च भवन्ति योगेषु । त्रीणि द्वयमेकं त्रीणि द्वयमेकं त्रीणि द्वयमेकं चैव करणानि ॥ ३३० ॥ ]१ त्रयस्त्रिास्त्रयो द्विकास्त्रय एककाश्च भवन्ति योगेषु कायवामनोव्यापारलक्षणेषु त्रीणि इयमेकं ३ चैव करणानि मनोवाक्कायलक्षणानीति पदघटना । भावार्थस्तु स्थापनया निर्दिश्यते सा चेयं
१ One MS. of the original text adds the following गाथा पढमे लब्भइ इक्को सेसेसु पएसु तिय तिय तियति । दो नव तिय दो नवगा तिगुणिय सीयालभंगसयं ॥
Page #196
--------------------------------------------------------------------------
________________
१८४
सटीकश्रावकप्रज्ञस्याख्यप्रकरणं।
योगाः|३|३३ २ २/२|१|१|१| करणानि ३ |२|१|३|२|१|३|२|१
| १ | ३ | ३ | ३ | ९ / ९/३/९/९ कात्र भावना न करेइ न कारवेइ करतंपि अन्नं न समणुजाणइ मणेणं वायाए काएणएको भेओ। इयाणि बिइओ ण करेइन कारवेइ करतंपिअन्नं न समणुजाणइ मणेणं वायाए एको, मणेणं काएण, तहा वायाए काएणबीओमूलभेओ गओ ।२। इयाणिं तइयओ, ण करेइ ण करावेइ करतं पि अन्नं न समणुजाणइ मणेणं, वायाए ?, काएणं ।।३। इदानीं चतुर्थः न करेइ न कारवेइ मणेणं वायाए काएणं, ण करेइ करतं पि नाणुजाणइ ३, ण कारवेइ करतं पि नाणुजाणइ तइओ, चउत्थो मूलभेओ।४। इदानीं पंचमो, न करेइ न कारवेइ मणेणं वायाए एक्को
न करेइ करतं नाणुजाणइ ३, ण कारवेइ करतं नाणुजाणइ ३, एए तिन्नि वि भंगा मणेणं वायाए लद्धा; अन्ने वि तिन्नि मणेणं काएण य एवमेव लभंति तहा अवरे वि वायाए कारण य लब्भंति १७६८१, एवमेव एते सवे नव, पंचमोऽप्युक्तो मूलभेदः।५।इयाणि छट्ठो,ण करेइण कारवेइ मणेणं एको, तहाण करेइ करतं पि नाणुजाणइ मणेणं ३, ण कारवेइ करतं नाणुजाणइ मनसैव तृतीयः। एवं वायाए ३४५४कारण
य स वे नव, उक्तो षष्ठो मूलभेदः।६। इदानीं सप्तमोऽभिधीयते, ण करेइ मणेणं वायाए कारण य एक्को ३१, एवं ण कारवेइ मणाईहिं ३, करतं णाणुजाणइइदानीमष्टमो भण्यते न करेइमणेण वा
Page #197
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
१८५
याए एक्को ३३, तहा मणेण काएण य ३, तहा वायाए कारण य एवं न करावेइ ३५.५३६ करतं नाणुजाणइ ३८३९ सव्वे विणव ।८। इदानीं नवमो भण्यते न करेइ मणेणं,न कारवेइ १करंतं नाणुजाणइ ३, एवं वायाए वि४ ५ ६ कारण वि
७४, सव्वे वि नव नवमो मूलभेदः।९। आगतगुणनेदानीं क्रियते ॥
लद्धफलमाणमेयं भंगाउ भवंति अउणपन्नासं । तीयाणागयसंपयगुणियं कालेण होइ इमं ॥ सीयालं भंगसयं कह कालतिएण होइ गुणणाउ। तीयस्स पडिक्कमणं पच्चुप्पन्नस्स संवरणम् ॥ पच्चरकाणं व तहा होइ य एस्सस्स एस गुणणाओ। । कालतिएण य भणियं जिणगणहरवायगेहिं च ॥ इति
उक्तभङ्गाकानामाद्यभङ्गस्वरूपाभिधित्सयाह । न करइ न करावेइ य करंतमन्नं पि नाणुजाणेइ । मणवयकाणिक्को एवं सेसा वि जाणिज्जा ॥३३१॥ [न करोति न कारयति कुर्वन्तमन्यमपि नानुजानाति मनोवाकायैः एकः एवं शेषानपि जानीयात्॥३३१॥]
न करोति स्वयं न कारयत्यन्यैः कुर्वन्तमन्यमपि स्वनिमित्तं स्वयमेव नानुजानाति कथं मनोवाकायैर्मनसा वाचा कायेन चेत्येवमेको विकल्पः, एवं शेषानपि व्यादीन् जानीयात् यथोक्तान प्रागिति । अत्राह
Page #198
--------------------------------------------------------------------------
________________
१८६
सटीकनावकप्रज्ञप्ट्याख्यप्रकरणं। न करेईञ्चाइतियं गिहिणो कह होइ देसविरयस्स । ___ भनइ विसयस्स बहिं पडिसेहो अणुमईए वि॥३३२॥ [न करोति इत्यादित्रिकं गृहिणः कथं भवति देशविरतस्य।
भण्यतेविषयावहिःप्रतिषेधो अनुमतेरपि ॥३३२॥]
न करोतीत्यादित्रिकं अनन्तरोक्तं गृहिणः श्रावकस्य कथं भवति देशविरतस्य विरताविरतस्य सावधयोगेष्वनुमतेरव्यवच्छिन्नत्वात् , नैव भवतीत्यभिप्रायः, एवं चोदकाभिप्रायमाशङ्कय गुरुराह, भण्यते तत्र प्रतिवचनं विषयावहिः प्रतिषेधोऽनुमतेरपि, यत आगतं भाण्डाद्यपि न गृह्णातीत्यादाविति, अत्रैवं व्यवस्थिते सति केई भणंति गिहिणो तिविहं तिविहेण नत्थि संवरणं।
तं न जओ निदिई पन्नतीए विससेउं ॥३३३॥ [केचन भणन्ति गृहिणः त्रिविधं त्रिविधेन नास्ति संवरणम्
तन्न यतो निर्दिष्टं प्रज्ञप्तौ विशिष्य ॥ ३३३ ॥] केचनाहन्मतानुसारिण एवापरिणतसिद्धान्ता भणन्ति, किं गृहिणः त्रिविधं न करोतीत्यादि त्रिविधेन मनसेत्यादिना नास्ति संवरणं न विद्यते प्रत्याख्यानं तन्न तदेतदयुक्तं, किमिति यतो निर्दिष्टं प्रज्ञप्तौ भगवत्यां विशेषः (विशिष्य!) अविषये “तिविहं पि" इत्यादिनेत्याह ता कह निज्जुत्तीए णुमतिनिसेहु ति से सविसयम्मि। सामन्ने वान्नाथ उ तिविहं तिविहेण को दोसो॥३३४॥
Page #199
--------------------------------------------------------------------------
________________
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
१८७
[ तत्कथं नियुक्तौ अनुमतिनिषेध इति स स्वविषये । सामान्ये वा अन्यत्र तु त्रिविधं त्रिविधेन को दोषः ३३४ ] यद्येवं तत्कथं निर्युक्तौ प्रत्याख्यानसंज्ञितायां अनुमतिनिषेध इति " दुविहं तिविहेण पढमउ" इत्यादिवचनेन । अत्रोच्यते । स स्वविषये यत्रानुमतिरस्ति तत्र तन्निषेधः सामान्ये वा प्रत्याख्याने स इति, अन्यत्र तु विशेषे स्वयंभूरमणजलधिमत्स्यादौ त्रिविधं त्रिविधेन कुर्वतः को दोषो, न कश्चिदिति । परिहारान्तरमाह
पुत्ताइसंत इनिमित्तमितमेगारसिं पवन्नस्स ।
जंपंति केइ गिहिणो दिकाभिमुहस्स तिविहं पि ३३५ [ पुत्रादिसन्ततिनिमित्तमात्रम् एकादशीं प्रपन्नस्य । जल्पन्ति केचन गृहिणो दीक्षाभिमुखस्य त्रिविधमपि ३३५
पुत्रादिसन्ततिनिमित्तमात्रं प्रव्रजितोऽस्य पितेत्येवं विज्ञाय परिभवन्ति केचन तत्सुतं अप्रव्रजिते तु न एतावद्भिश्चाहोभिरसौ मानुषी भवत्येवेति तत ऊर्ध्वं गुणमुपलभ्य एतन्निमित्तं प्रवित्रजिषुरपि कश्चित्पर्यन्तवर्तिनीमुपासकप्रतिमां प्रतिपद्यत इति तदाह एकादशीं प्रपन्नस्य श्रवणभूताभिधानामुपासकप्रतिमामाश्रितस्य जल्पन्ति केचन गृहिणो दीक्षाभिमुखस्य त्रिविधमपि प्रत्याख्यानमिति
आह कहं पुण मणसा करणं कारावणं अणुमई य । जह वइतणुजोगेहिं करणाई तह भवे मणसा ॥ ३३६ ॥ [ आह कथं पुनर्मनसा करणं कारणं अनुमतिश्च । यथा वाक्तनुयोगाभ्यां करणाद्यः तथा भवेत् मनसा ३३६ ]
Page #200
--------------------------------------------------------------------------
________________
१८८
सटीकश्रावकप्रज्ञघ्याख्यप्रकरणं ।
आह चोदकः कथं पुनर्मनसा करणं कारणमनुमतिश्चान्तर्व्यापारत्वेन परैरनुपलक्ष्यमाणत्वादनुपपत्तिरित्यभिप्रायः । गुरुराह । यथा वाक्तनुयोगाभ्यां करणादयः करणकारणानुमोदनानि तथा भवेद मनसापीति कथमित्याह ।
तयहीणता वयतणुकरणाईण अहवा उ मणकरणं । सावज्जजोगमणणं पन्नत्तं वीयरागेहिं ॥ ३३७ ॥ [ तद्धीनत्वात् वाक्तनुकरणादीनां अथवा तु मनःकरणं । सावद्ययोगमननं प्रज्ञप्तं वीतरागैः ॥ ३३७ ॥ ]
तदधीनत्वादिति मनोयोगाधीनत्वात् वाक्तनुकरणादीनां तेन ह्यालोच्य वाचा कायेन वा करोति कारयति चेत्यादि अभिसंधिमन्तरेण प्रायस्तदनुपपत्तेः । प्रकारान्तरं चाह । अथवा मनःकरणं किं सावद्ययोगमननं करोम्यहं एतदिति सपापव्यापारचिन्तनं प्रज्ञप्तं वीतरागैरिति ॥
कारवणं पुण मणसा चिंतेइ करेउ एस सावज्जं । चिंतेई य कए पुण सुट्ठकथं अणुमई होइ ॥ ३३४ ॥ [ कारवणं पुनर्मनसा चिन्तयति करोतु एष सावद्यम् । चिन्तयति च कृते पुनः सुष्ठुकृतमनुमतिर्भवति ॥ ३३८ ॥ ]
कारवणं पुनर्मनसा चिन्तयति करोतु एष सावद्यं असावपि चेङ्गितज्ञोऽभिप्रायात्प्रवर्तत एव, चिन्तयति च कृते पुनः सुष्ठुकृतमनुमतिर्भवति मानसी अभिप्रायज्ञो विजानात्यपीति ।
उक्तः प्रत्याख्यानविधिरधुना श्रावकस्यैव निवासादिविषयां सामाचारीं प्रतिपादयन्नाह ॥
Page #201
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञध्याख्यप्रकरणं ।
१८९
निवसिज्ज तत्थ सडो साहूणं जत्थ होइ संपाओ । चेइयघराइ जन्य य तयन्नसाहम्मिया चैव ॥ ३३९॥ [ निवसेत्तत्र श्राद्धः साधूनां यत्र भवति संपातः । चैत्यगृहाणि च यस्मिन् तदन्यसाधर्मिकाचैव ॥ ३३९ ॥ ] निवसेत्तत्र नगरादौ श्रावकः साधूनां यत्र भवति संपात : - संपतनं संपातः आगमनमित्यर्थः । चैत्यगृहाणि च यस्मिंस्तदन्य । साधर्मिकाचैव श्रावकादय इति गाथासमासार्थः
• अधुना प्रतिद्वारं गुणा उच्यन्ते तत्र साधुसंपाते गुणानाह साहूण वंदणेणं नासइ पावं असंकिया भावा । फासु दाणे निज्जर उवग्गहो नाणमाईणं ॥ ३४० ॥ [ साधूनां वन्दनेन नश्यति पापं अशंकिता भावाः । प्रासुकदाने निर्जरा उपग्रहो ज्ञानादीनाम् ॥ ३४० ॥ ] साधूनां वन्दनेन करणभूतेन किं नश्यति पापं गुणेषु बहुमानात्तथा अशङ्किता भावास्तत्समीपे श्रवणात् प्रासुकदाने निर्जरा कुतः उपग्रहो ज्ञानादीनां ज्ञानादिमन्त एव साधव इति । उक्ताः साधुसंपाते गुणाः चैत्यगृहे गुणानाह
मिच्छादंसण महणं सम्म हंसणविसुद्धिहेउं च । चिइवंदणाइ विहिणा पन्नत्तं वीयरागेहिं ॥ ३४१ ॥ [ मिथ्यादर्शनमथनं सम्यग्दर्शनविशुद्धिहेतु च । चैत्यवन्दनादि विधिना प्रज्ञप्तं वीतरागैः ॥ ३४९ ॥ ] मिथ्यादर्शनमथनं मिथ्यादर्शनं विपरीतपदार्थश्रद्धानरूपं
Page #202
--------------------------------------------------------------------------
________________
१९०
सटीकश्श्रावकप्रज्ञत्याख्यप्रकरणं ।
मथ्यते विलोज्यते येन तत्तथा न केवलमपायनिबन्धन कदर्थनमेव किन्तु कल्याणकारणोपकारि चेत्याह सम्यग्दर्शन विशुद्धिहेतुच सम्यगविपरीतं तत्त्वार्थश्रद्धानलक्षणं दर्शनं सम्यग्दर्शनं मोक्षादिसोपानं तद्विशुद्धिकरणं च किं तच्चैत्यवन्दनादि आदिशब्दात्पूजादिपरिग्रहः विधिना सूत्रोक्तेन प्रज्ञप्तं प्ररूपितं वीतरागैरर्हद्भिः स्थाने शुभाध्यवसायप्रवृत्तेरेतच्च चैत्यगृहे सति भवतीति गाथार्थः उक्ताश्चैत्यगृहगुणाः सांप्रतं समानधार्मिक गुणानाह
साहम्मियथिरकरणं वच्छले सासणस्स सारो ति । मग्गसहायत्तणओ तहा अणासो य धम्माओ ३४२ [ साधर्मिकस्थिरीकरणं वात्सल्ये शासनस्य सार इति । मार्गसहायत्वात्तथा अनाशश्च धर्मात् ॥ ३४२ ॥ ] समानधार्मिक स्थिरीकरणमिति यदि कश्चित्कथंचिद्धर्मात् प्रच्यव ततस्तं स्थिरीकरोति महांश्चायं गुणः तथा वात्सल्ये क्रियमाणे शासनस्य सार इति सार आसेवितो भवति उक्तं च "जिणसासणस्स सारो" इत्यादि सति च तस्मिन् वात्सल्यमिति तथा तेन तेनोपबृंहणादिना प्रकारेण सम्यग्दर्शनादिलक्षणमार्गसहायत्वादनाशश्च भवति कुतो धर्मात्तत एवेति गाथार्थः
उक्ताः समानधर्मिक गुणाः सांप्रतं तत्र निवसतो विधिरुच्यते तत्रापि च प्रायो भावसुप्ताः श्रावकाः ये प्राप्यापि जिनमतं गाईस्थमनुपालयन्त्यतो निद्रावबोधद्वारेणाह
१ असार आसेवितो भवति उक्तजिणसासणस्स सारो इत्यादि ।
व सारश्च सेवेतो भवता उत्तापगागण भासण सरो इत्यादि ।
Page #203
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १९१ नवकारेण विबोहो अणुसरणं सावओ वयाइंमि । जोगो चिइवंदणमो पञ्चक्खाणं च विहिपुव्वं ३४३ [नवकारेण विबोधः अनुस्मरणं श्रावकः ब्र योगः चैत्यवन्दनं प्रत्याख्यानं च विधिपूर्वकम् ॥३४३॥] नमस्कारेण विबोध इति सुप्तोत्थितेन नमस्कारः पठितव्यः तथानुस्मरणं कर्तव्यं श्रावकोऽहमिति व्रतादौ विषये ततो योगः कायिकादिः चैत्यवन्दनमिति प्रयत्नेन चैत्यवन्दनं कर्तव्यं ततो गुर्वादीनभिवन्द्य प्रत्याख्यानं च विधिपूर्वकं सम्यगाकारशुद्धं ग्राह्यमिति । गोसे सयमेव इमं काउं तो चेइयाण पूयाई । .. साहुसगासे कुज्जा पञ्चक्खाणं अहागहियं ॥३४४॥ [प्रत्युषसि स्वयमेव इदं कृत्वा ततःचैत्यानां पूजादीनि । साधुसकाशे कुयोत्प्रत्याख्यानं यथागृहीतम् ॥३४४॥ गोसे प्रत्युषसि स्वयमेवेदं कृत्वा गृहादौ ततश्चैत्यानां पूजादीनि संमार्जनोपलेपयुष्पधूपादिसंपादनादि कुर्यात्ततः साधुसकाशे कुत्किं प्रत्याख्यानं यथागृहीतमिति ___ अत्र केचिदनधिगतसम्यगागमा ब्रुवत इति चोदकमुखेन तदभिप्रायमाह
पूयाए कायवहो पडिकुट्ठो सो अ नेव पुजाणं।
उवगारिणिति तो सानो कायव्व ति चोएइ ३४५ [पूजायां कायवधः, प्रतिक्रुष्टः स च, नैव पूज्यानां । उपकारिणी इति तत् सा न कर्तव्या इति चोदयति३४५]
Page #204
--------------------------------------------------------------------------
________________
१९२
सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं ।
पूजायां भगवतोऽपि किल क्रियमाणायां कायवधो भवति पृथिव्याद्युपमर्दमन्तरेण तदनुपपत्तेः, प्रतिक्रुष्टः स च कायवधः "सब्वे जीवा न हंतव्वे" त्यादि वचनात् किं च न च पूज्यानामर्हतां तच्चै - · त्यानां वा उपकारिणी पूजा अर्हतां कृतकृत्यत्वात् तच्चैत्यानामचेतनत्वात् इतिशब्दो यस्मादर्थे यस्मादेवं ततस्तस्मादेव पूजा न कर्तव्येति चोदक इति अत्राह
आह गुरू पूया काय हो होइ जइ वि हुं जिणाणं । तह वि तई कायव्वा परिणामविसुद्धिहेऊओ ३४६ [ आह गुरुः पूजायां कायवधः भवत्येव यद्यपि जिनानाम् - तथापि सा कर्तव्या परिणामविशुद्धिहेतुत्वात् ३४६ ] आह गुरुरित्युक्तवानाचार्यः पूजायां क्रियमाणायां कायवधः पृथिव्याद्युपमर्दो यद्यपि भवत्येव जिनानां रागादिजेतॄणामित्यनेन तस्याः सम्यग्विषयमाह । तथाप्यसौ पूजा कर्तव्यैव कुतः परिणा। मविशुद्धिहेतुत्वादिति न चायं हेतुरसिद्ध इति परिहरति
भणियं च कूवनायं दव्वत्थवगोयरं इहं सुत्ते । निययारंभपवत्ता जं च गिही तेण कायव्वा ॥३४७॥ [ भणितं च कूपज्ञातं द्रव्यस्तवगोचरं इह सूत्रे | नियतारम्भप्रवृत्ता यच्च गृहिणः तेन कर्तव्या ॥३४७॥ ] भणितं च प्रतिपादितं च कूपज्ञातं कूपोदाहरणं किं विषयमित्याह द्रव्यस्तवगोचरं द्रव्यस्तवविषयं इह सूत्रे जिनागमे "दव्व
१ कायवहो जइ वि होइ उ जिणाणं ।
Page #205
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं। स्थए कूवदिहतो" इति वचनात्, तृडपनोदार्थ कूपखननेऽधिकतरपिपासाश्रमादिसंभवेऽप्युद्भवति तत एव काचिच्छिरा यदुदकाच्छेषकालमपि तृडाद्यपगम इति एवं द्रव्यस्तवप्रवृत्तौ सत्यपि पृथिव्याद्युपमर्दे पूज्यत्वाद्भगवत उपायत्वात्तत्पूजाकरणस्य श्रद्धावतः समुपजायते तथाविधः शुभः परिणामो यतोऽशेषकर्मक्षपणमपीति । उपपत्त्यन्तरमाह । नियतारम्भप्रवृत्ता यच्च गृहिण इत्यनवरतमेव प्रायस्तेषु तेषु परलोकप्रतिकूलेष्वारम्भेषु प्रवृत्तिदर्शनातू तेन कर्तव्या पूजा कायवधेऽपि उक्तवदुपकारसम्भवात् तावन्ती वेलामधिकतराधिकरणाभावादिति। यदुक्तं न च पूज्यानामुपकारिणीत्येतत्परिजिहीर्षयाह ।
उवगाराभावंमि वि पुजाणं पूयगस्स उवगारो। मंताइसरणजलणाइसेवणे जह तहेहं पि ॥ ३४४ ॥ [उपकाराभावेऽपि पूज्यानां पूजकस्य उपकारः।। मंत्रादिस्मरणज्वलनादिसेवने यथा तथेहापि ॥३४८॥]
उक्तन्यायादुपकाराभावेऽपि पूज्यानामर्हदादीनां पूजकस्य पूजाकतुरुपकारः। दृष्टान्तमाह । मन्त्रादिस्मरणज्वलनादिसेवने यथेति तथाहि मन्त्रे स्मर्यमाणे न कश्चित्तस्योपकारोऽथ च स्मर्तुर्भवत्येवं ज्वलने सेव्यमाने न कश्चित्तस्योपकारोऽथ च तत्सेवकस्य भवति शीतापनोदादिदर्शनात् आदिशब्दाचिन्तामण्यादिपरिग्रहः तथेहापीति यद्यप्यहंदादीनां नोपकारः तथापि पूजकस्य शुभाध्यवसायादिर्भवति तथोपलब्धेरिति किं च ।
Page #206
--------------------------------------------------------------------------
________________
१९४ सटीकश्रावकज्ञप्याख्यप्रकरणं ।
देहाइनिमित्तं पि हु जे कायवहंमि तह पयद॒ति । जिणपूयाकायवहमि तेसिं पडिसेहणं मोहो ॥३४९॥ [ देहादिनिमित्तमपि ये खलु कायवधे तथा प्रवर्तन्ते। जिनपूजाकायवधे तेषां प्रतिषेधनं मोहः ॥ ३४९॥]
देहादिनिमित्तमप्यसारशरीरहेतोरपीत्यर्थः ये कायवधे पृ. थिव्याधुपमर्दै तथा प्रवर्तते तथेति झटिति कृत्वा जिनपूजाकायवधे तेषां प्रतिषेधनं मोहो अज्ञानं न हि ततो भगवत्पूजा न शोभनेति निगमयन्नाह ।
सुत्तभणिएण विहिणा गिहिणा निवाणमिच्छमाणेण। लोगुतमाण पूया निच्चं चिय होइ कायवा ॥३५०॥ [ सूत्रभणितेन विधिना गृहिणा निर्वाणमिच्छता।। लोकोत्तमानां पूजा नित्यमेव भवति कर्तव्या ॥३५०॥]
सूत्रभणितेनागमोक्तेन विधिना यतनालक्षणेन गृहिणा श्रावकेन निर्वाणमिच्छता मोक्षमभिलपता लोकोत्तमानामहदादीनां पूजा अभ्यर्थनादिरूपा नित्यमेव भवति कर्तव्या ततश्च न युक्तः. प्रतिषेध इति ।
अवसितमानुषङ्गिक सांप्रतं यदुक्तं साधुसकाशे कुर्यात्प्रत्या. ख्यानं यथागृहीतमित्यत्र तत्करणे गुणमाह
गुरुसक्खिओ उ धम्मो संपुन्नविही कयाइ य विसेसो। तित्थयराण य आणा साहुसमीवंमि वोसिरउ॥३५१॥ १ शरीरार्थमपि
Page #207
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञयाख्यप्रकरणं! १९५ [गुरुसाक्षिक एव धर्मः संपूर्णविधिः कदाचिच्च विशेषः। तीर्थकराणां च आज्ञा साधुसमीपे व्युत्सृजतः॥३५॥
गुरुसाक्षिक एव धर्म इत्यतः स्वयं गृहीतमपि तत्सकाशे ग्राह्यमिति तथा संपूर्णविधिरित्थमेव भवतीत्यभिप्रायः कदाचिच्च विशेषः प्रागप्रत्याख्यातमपि किंचित्साधुसकाशे संवेगे प्रत्याख्यातीति तीर्थकराणां चाज्ञा संपादिता भवतीत्येते गुणाः साधुसमीपे व्युत्सृजतः प्रत्याख्यानं कुर्वत इति सामाचारीशेषमाह
सुणिऊण तओ धम्मं अहाविहारं च पुच्छिउमिसीणं। काऊण य करणिज्जं भावम्मि तहा ससतीए॥३५२॥ [ श्रुत्वा ततो धर्म यथाविहारं च पृष्ट्वा ऋषीणाम्। कृत्वा च करणीयं भावे तथा खशक्त्या ॥ ३५२॥]
श्रुत्वा ततो धर्म क्षान्त्यादिलक्षणं साधुसकाशे इति गम्यते यथाविहारं च तथाविधचेष्टारूपं पृष्टा ऋषीणां संबन्धिनं, कृत्वा च करणीयं ऋषीणामेव संबन्धि भाव इत्यस्तितायां करणीयस्य स्वशक्त्या स्वविभवाद्यौचित्येनेति ।
ततो अणिंदियं खलु काऊण जहोचियं अणुहाणं । भुतूण जहा विहिणा पच्चक्खाणं च काऊण॥३५३॥ [ततः अनिंद्यं खलु कृत्वा यथोचितमनुष्ठानम्। भुक्त्वा यथाविधिना प्रत्याख्यानं च कृत्वा ॥ ३५३ ॥]
ततस्तदनन्तरमनिन्द्यं खलु इहलोकपरलोकानिन्द्यमेव कृत्वा यथोचितमनुष्ठानं यथा वाणिज्यादि तथा भुक्त्वा यथाविधिना
Page #208
--------------------------------------------------------------------------
________________
१९६
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
अतिथिसंविभागसंपादनादिना प्रत्याख्यानं च कृत्वा तदनन्तरमेव पुनर्भोगेऽपि ग्रन्थिसहितादीनि ।
सेविज तओ साहू करिज पूयं च वीयरागाणं । चिइवंदण सगिहागम पइरिकंमि य तुयट्टिजा३५४ [सेवेत ततः साधून कुर्यात्पूजां च वीतरागाणाम् ।
चैत्यवन्दनं खगृहागमनं तथा एकान्ते त्वग्वर्तनम् ३५४ सेवेत ततः साधून पर्युपासनविधिना कुर्यात् पूजां च वीतरागाणां स्वविभवौचित्येन ततश्चैत्यवन्दनं कुर्यात् ततः स्वगृहागमनं तथैकान्ते तु त्वग्वर्तनं कुर्यात्स्वपेदिति कथमित्याह
उस्सग्गबंभयारी परिमाणकडो उ नियमओ चेव ।
सरिऊण वीयरागे सुतविबुद्धो विचिंतिजा ॥३५॥ [उत्सर्गतः ब्रह्मचारी कृतपरिमाणस्तु नियमादेव च । स्मृत्वा वीतरागान सुप्तविबुद्धः विचिन्तयेत् ॥ ३५५॥] उत्सर्गतः प्रथमकल्पेन ब्रह्मचारी आसेवनं प्रति कृतपरिमाणस्तु नियमादेव आसेवनपरिमाणाकरणे महामोहदोषात् तथा स्मृत्वा वीतरागान् सुप्तविबुद्धः सन् विचिन्तयेद्वक्ष्यमाणमिति
भूएसु जंगमतं तेसु वि पंचेन्दियतमुक्कोसं ।
तेसु वि अ माणुसतं मणुयत्ते आरिओदेसो॥३५६॥ [भूतेषु जंगमत्वं तेष्वपि पञ्चेन्द्रियत्वमुत्कृष्टम् । तेष्वपि च मानुषत्वं मनुजत्वे आर्यों देशः ॥ ३५६ ॥:
Page #209
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १९७ भूतेषु प्राणिषु जंगमत्वं द्वीन्द्रियादित्वं तेष्वपि पञ्चेन्द्रियत्वमुस्कृष्टं प्रधानं तेष्वपि पञ्चेन्द्रियेषु मानुषत्वमुत्कृष्टमिति वर्तते मनुजत्वे आर्यों देश उत्कृष्ट इति देसे कुलं पहाणं कुले पहाणे य जाइ उक्कोसा ।
तीइवि रूवसमिद्धी रूवे य बलं पहाणयरं ॥३५७॥ [देशे कुलं प्रधानं कुले प्रधाने च जातिरुत्कृष्टा।. तस्यामपि रूपसमृद्विः रूपे च बलं प्रधानतरम् ॥३५॥]
देशे आर्ये कुलं प्रधानं उग्रादि, कुले प्रधाने च जातिरुत्कृष्टा मातृसमुत्था तस्यामपि जातौ रूपसमृद्धिरुत्कृष्टा सकलाङ्गनिष्पत्तिरित्यर्थः रूपे च सति बलं प्रधानतरं सामर्थ्य मिति
होइ बले वि य जीयं जीए वि पहाणयं तु विन्नाणं । विनाणे सम्मतं सम्मते सीलसंपत्ती ॥३५॥
भवति बलेऽपि च जीवितं प्रधानतरमिति योगः, जीवितेऽपि च प्रधानतरं विज्ञानं विज्ञाने सम्यक्त्वं क्रिया पूर्ववत् सम्यक्त्वे शीलसंप्राप्तिः प्रधानतरेति सीले खाइयभावो खाइयभावे य केवलं नाणं। केवलिए पडिपुन्ने पते परमरकरे मुक्खो ॥ ३५९ ॥
शीले क्षायिकभावः प्रधानः क्षायिकभावे च केवलज्ञानं, प्रतिपक्षयोजना सर्वत्र कार्येति कैवल्ये प्रतिपूर्णे प्राप्ते परमाक्षरे मोक्ष इति ।
Page #210
--------------------------------------------------------------------------
________________
१९८ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं ।
न य संसारम्मि सुहं जाइजरामरणदुक्खगहियस्स । जीवस्स अस्थि जम्हा तम्हा मुक्खो उवादेओ३६० न च संसारे सुखं जातिजरामरणदुःखगृहीतस्य । जीवस्यास्ति यस्मादेवं तस्मान्मोक्ष उपादेयः। किंविशिष्ट इत्याह जच्चाइदोसरहिओ अब्बाबाहसहसंगओ इत्थ । तस्साहणसामग्गी पता य भए बहू इन्हि ॥३६१॥ जात्यादिदोषरहितोऽव्याबाधसुखसंगतोऽत्र ( संसारे ) तत्साधनसामग्री प्राप्ता च मया बह्वीदानीम् ॥ ता इत्थ जं न पतं तयत्थमेवुज्जमं करेमिति । विबुहजणनिदिएणं किं संसाराणुबंधेणं ॥३६२ ॥ तदत्र ( सामग्र्यां ) यन्न प्राप्तं तदर्थमेवोद्यमं करोमीति । विबुधजननिन्दितेन किं संसारानुबन्धेन ॥ इति निगद सिद्धो गाथात्रयार्थः इत्थं चिन्तनफलमाह । वैररग कम्मक्खय विसद्धनाणं च चरणपरिणामो। थिरया आउ य बोही इय चिंताए गुणा हुंति ३६३ [वैराग्यं कर्मक्षयः विशुद्धज्ञानं च चरणपरिणामः। स्थिरता आयुः च बोधिःइत्थं चिन्तायां गुणा भवन्ति३६३]
इत्थं चिन्तयतो वैराग्यं भवत्यनुभवसिद्धमेवैतत् तथा कर्मक्षयः तत्त्वचिन्तनेन प्रतिपक्षत्वात् विशुद्धज्ञानं च निबन्धनहाने चरणपरिणामः प्रशस्ताध्यवसायत्वात् स्थिरता धर्मे प्रतिपक्षासा
Page #211
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
रदर्शनात् आयुरिति कदाचित्परभवायुष्कबन्धस्ततस्तच्छुभत्वात्सर्व कल्याणं बोधिरित्थं तत्त्वभावनाभ्यासादेवं चिन्तायां क्रियमाणायां गुणा भवन्त्येवं चिन्तया वेति गोसम्मि पुब्वभणिओ नवकारेणं विबोहमाईओ। इत्थ विही गमणम्मिय समासओसंपवक्खामि३६४ गोसे (प्रत्युषसि) पूर्वभणितो नमस्कारेण विबोधादिः अत्र विधिः (इति) गमने च समासतः संप्रवक्ष्यामि ॥ विधिमिति
अहिगरणखामणं खलु चेइयसाहूण वंदणं चेव। संदेसम्मि विभासा जइगिहिगुणदोसविक्खाए ३६५ [अधिकरणक्षामणं खलु चैत्यसाधूनां वन्दनमेव च। संदेशे विभाषा यतिगृहिगुणदोषापेक्षया ॥ ३६५ ॥] अधिकरणक्षामणं खलु माभूत्तत्र मरणादौ वैरानुबन्ध इति, तथा चैत्यसाधूनामेव च वन्दनं नियमतः कुर्यात् गुणदर्शनातू, संदेशे विभाषा यतिगृहिगुणदोषापेक्षयेति यतेः संदेशको नीयते न सावधो गृहस्थस्य इति चैत्यसाधूनां वन्दनं चेति यदुक्तं तद्विस्फारयति
साहूण सावगाण य सामायारी विहारकालंमि ।
जत्यत्थि चेझ्याइं वंदावंती तहिं संघ ॥ ३६६॥ [साधूनां श्रावकानां च सामाचारी विहरणकाले । यत्र सन्ति चैत्यानि वन्दयन्ति तत्र संघम् ।। ३६६ ॥] साधूनां श्रावकाणां चोक्तशब्दार्थानां (२,) सामाचारी व्यव
Page #212
--------------------------------------------------------------------------
________________
२००
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । स्था कदा विहरणकाले विहरणसमये किंविशिष्टेत्याह यत्र स्थाने सन्ति चैत्यानि वन्दयन्ति तत्र संघ चतुर्विधमपि प्रणिधानं कृत्वा स्वयमेव वन्दत इति
पढमं तओ य पच्छा वंदंति सयं सिया ण वेल ति ।
पठमं चिय पणिहाणं करंति संघमि उवउत्ता॥३६७॥ [प्रथमं ततश्च पश्चात् वन्दन्ते स्वयं स्यान्न वेला इति । प्रथममेव प्रणिधानं कुर्वन्ति संघे उपयुक्ताः ॥ ३६७॥]
प्रथममिति पूर्वमेव सङ्घ वन्दयन्ति ततः पच्छात्सङ्घवन्दनोत्तरकालं वंदन्ते स्वयमात्मना आत्मनिमित्तमिति स्यान्न वेलेति स्तेनादिभयसार्थगमनादौ तत्रापि प्रथममेव वन्दने प्रणिधानं कुर्वन्ति संघविषयमुपयुक्ताः संघं प्रत्येतद्वन्दनं संघोऽयं वन्दत इति
पच्छा कयपणिहाणा विहरंता साहूमाइ दळूण । जंपंति अमुगठाणे देवे वंदाविया तुब्भे ॥३६॥ [ पश्चात् कृतप्रणिधाना विहरन्तः साध्वादीन्दृष्ट्वा । जल्पन्ति अमुकस्थाने देवान् वंदिता यूयम् ॥ ३६८ ॥]
पश्चात्तदुत्तरकालं कृतप्रणिधानाः सन्तस्तदर्थस्य संपादितत्वाद्विहरन्तः सन्तः साध्वादीन् दृष्ट्वा साधु साध्वी श्रावक श्राविकां वा जल्पन्ति व्यक्तं च भणन्ति किं अमुकस्थाने मथुरादौ देवान्वन्दिता यूयमिति
ते वि य कयंजलिउडा सद्धासंवेगपुलइयसरीरा। अवणामिउत्तमंगा तं बहु मन्नंति सुहझाणा ॥३६९॥
Page #213
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञस्याख्यप्रकरणं।
२०१ [तेऽपि च कृताञ्जलिपुटाः श्रद्धासंवेगपुलकितशरीराः। अवनामित्तोत्तमांगाः तद् बहु मन्यन्ते शुभध्यानाः३६९ तेऽपि च साध्वादयः कृताञ्जलिपुटा रचितकरपुटाञ्जलयः श्रद्धासंवेगपुलकितशरीराः श्रद्धाप्रधानसंवेगतो रोमाञ्चितवपुषो ऽवनामितोत्तमाङ्गाः सन्तस्तद्वन्दनं बहु मन्यन्ते शुभध्यानाः प्रशस्ताध्यवसाया इत्युभयोः फलमाह
तेसिं पणिहाणाओ इयरेसि पि य सुभाउ झाणाओ।
पुन्नं जिणेहिं भणियं लो संकमउ ति ते मेरा ३७० [तेषां प्रणिधानात् इतरेषामपि च शुभाद्ध्यानात् ।। पुण्यं जिनैणितं न संक्रमतः इति अतो मर्यादा ३७०
तेषामाद्यानां वन्दननिवेदकानां प्रणिधानात्तथाविधकुशलचित्तादितरेषामपि च वन्द्यमानानां शुभध्यानात्तच्छ्रवणप्रवृत्त्या पुण्यं जिनर्भणितं अर्हद्भिक्तं न च संक्रमत इति न निवेदकपुण्यं निवेद्यसंक्रमेण यतश्चैवमतो मर्यादेयमवश्यं कार्येति । विपयये दोषमाह।
जे पुणऽकयपणिहाणा वंदिता नेव वा निवेयंति ।
पच्चक्खमुसावाई पावा हु जिणेहिं ते भणिया ३७१ [ये पुनरकृतप्रणिधाना वंदित्वा नैव वा निवेदयन्ति । प्रत्यक्षमृषावादिनः पापा एव जिनैः ते भणिताः ३७१
ये पुनरनाभोगादितो अकृतप्रणिधाना वंदित्वा नैव वा वन्दित्वा निवेदयन्ति अमुकस्थाने देवान्वन्दिता यूयमिति प्रत्यक्ष
Page #214
--------------------------------------------------------------------------
________________
२०२ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । मृषावादिनोऽकृतनिवेदनात्पापा एव जिनैस्ते भणिता मृषावादित्वादेवेति ।
जे वि य कयंजलिउडा सद्धासंवेगपुलइयसरीरा। बहु मन्नंति न सम्मं वंदणगं ते वि पाव ति ॥३७२॥ [येऽपि च कृताञ्जलिपुटाः श्रद्धासंवेगपुलकितशरीराः। बहु मन्यन्ते न सम्यग्वन्दनकं तेऽपि पापा इति ३७२
येऽपि च साध्वादयो निवेदिते सति कृताञ्जलिपुटाः श्रद्धासंवेगपुलकितशरीरा इति पूर्ववन्न बहु मन्यन्ते न सम्यक् वन्दनकं कुर्वन्ति तेऽपि पापा गुणवति स्थानेऽवज्ञाकरणादिति । क्वचिद्वेलाभावेऽपि विधिमाह
जइ वि न वंदणवेला तेणाइभएण चेइए तहवि । द₹णं पणिहाणं नवकारेणावि संघमि ॥ ३७३॥ [यद्यपि न वन्दनवेला स्तेनादिभयेषु चैत्यानि तथापि । दृष्ट्वा प्रणिधानं नमस्कारेणापि संघे ॥ ३७३ ॥] यद्यपि क्वचिच्छ्न्यादौ न वन्दनवेला स्तेनश्वापदादिभयेषु चैत्यानि तथापि दृष्ट्वा अवलोकननिबन्धनमपि प्रणिधानं नमस्कारेणापि संघ इति सङ्कविषयं कार्यमिति । तमि य कए समाणे वंदावणगं निवेइयत्वं ति।
तयभावंमि पमादा दोसो भणिओ जिणिंदेहिं ३७४ [तस्मिन्नपि कृते सति वन्दनं निवेदयितव्यमिति । तद्भाचे प्रमादात् दोषः भणितः जिनेन्द्रैः ॥ ३७४ ॥]
Page #215
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । २०३ तस्मिन्नपि एवंभूते प्रणिधाने कृते सति वन्दनं निवेदयितव्यमेव वस्तुतः संपादितत्वात्तदभाव तथाविधप्रणिधानाकरणे प्रमादा तोर्दोषो भणितो जिनेन्द्रविभागायातशक्यकुशलाप्रवृत्तेरिति उपसंहरन्नाह
एवं सामायारिं नाऊण विहीइ जे पउंजंति ।
ते हुंति इन्थ कुसला सेसा सब्जे अकुसला उ ३७५ [एतां सामाचारी ज्ञात्वा विधिना ये प्रयुंजते । ते भवन्त्यत्र कुशलाः शेषाः सर्वे अकुशला एव ३७६]
एतामनन्तरोदितां सामाचारी व्यवस्थां ज्ञात्वा विधिना ये प्रयुंजते यथावये कुर्वन्तीत्यर्थः ते भवन्त्यत्र विहरणविधौ कुशलाः शेषा अकुशला एवानिपुणा एव न चेयमयुक्ता संदिष्टवन्दनकथनतीर्थस्नपनादिदर्शनादिति श्रावकस्यैव विधिशेषमाह
अन्ने अभिग्गहा खलु निरईयारेण हुंति कायञ्चा। घडिमादओवियतहाविसेसकरणिज्जजोगाओ३७६ [अन्ये चाभिग्रहाः खलु निरतिचारेण भवन्ति कर्तव्याः। प्रतिमायोऽपि च तथा विशेषकरणीययोगात् ॥३७६॥
अन्ये चाभिग्रहाः खलु अनेकरूपालोचकृतघृतप्रदानादयःनिरतिचारेण सम्यक् भवंति कर्तव्या आसेवनीया इति प्रतिमादयोऽपि च तथा शेषकरणीययोगा इति प्रतिमा दर्शनादिरूपा यथोकं “दसणवये"त्यादि आदिशब्दादनित्यादिभावनापरिग्रह इति ।
Page #216
--------------------------------------------------------------------------
________________
२०४
सटीकश्रावकप्रज्ञघ्याख्यप्रकरणं ।
एवं च विहरिऊणं दिक्खाभावंमि चरणमोहाओ । पत्तंमि चरमकाले करिज्ज कालं अहाकमसो ३७७ [ एवं च विहृत्य दीक्षाभावे चरणमोहात् ।
प्राप्ते चरमकाले कुर्यात्कालं यथाक्रमशः ॥ ३७७ ॥ ] एवं यथोक्तविधिना विहृत्य नियतानियतेषु क्षेत्रेषु कालं नीत्वा दीक्षाभाव इति प्रव्रज्याभावे सति चरणमोहादिति चारित्र - मोहनीयात्कर्मणः प्राप्ते चरमकाले क्षीणप्राये आयुषि सतीत्यर्थः कुर्यात्कालं यथाक्रमशो यथाक्रमेण परिकर्मादिनेति
भणिया अपच्छिमा मारणंतिया वीयरागदोसेहिं । संलेहणाझोसणमो आराहणयं पवक्खामि ॥ ३७८ ॥ [ भणिता अपश्चिमा मारणान्तिकी वीतरागदोषैः । संलेखनाजोषणा आराधना तां प्रवक्ष्यामि ॥ ३७८ ॥
भणिता. चोक्ता च कैवीतरागद्वेषैरर्हद्भिरिति योगः का अपच्छिमा मारणान्तिकी संलेखना जोषणाराधनेति । पश्चिमवानिष्टाशयपरिहारायापश्चिमा मरणं प्राणपरित्यागलक्षणं इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथापि न तद्गृह्यते किं तर्हि सर्वायुष्कक्षयलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बहुच - इति ठञ, संलिख्यतेऽनया शरीरकषायादीति संलेखना तपोविशेषलक्षणा तस्या जोषणं सेवनं मो इति निपातस्तत्कालश्लाध्यत्वप्रदर्शनार्थः तस्या आराधना अखण्डना कालस्य करणमित्यर्थः तां प्रवक्ष्यामीति । एत्थ सामायारी
Page #217
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। आसेवियगिहिधम्मेण किल सावगेण पच्छा णिकमियचं एवं सावगधम्मो उज्जमिओ होइ ण सक्कइ ताहे भत्तपच्चरकाणकाले संथारगसमणेण होयवं ति ण सक्कइ ताहे अणसणं कायबंति विभासा । अत्राह।
काऊण विगिट्टतवंजहासमाहीइ वियडणं दाउं ।
उज्जालियं अणव्वय तिचउद्धाहारवोसिरणं ॥३७९॥ [कृत्वा विकृष्टतपः यथासमाधि विकटनां दत्वा । उज्वाल्य अणुव्रतानि त्रिविधचतुर्विधाहारव्युत्सर्जनम्]
कृत्वा विकृष्टतपः षष्ठाष्टमादि यथासमाधिना शुभपरिणामपातविरहेण तथा विकटनामालोचनां दत्वा उज्वाल्य पुनःप्रतिपत्या निर्मलतराणि कृत्वा अणुव्रतानि प्रसिद्धान्यणुव्रतग्रहणं गुणव्रताद्युपलक्षणमिति त्रिविधचतुर्विधाहारव्युत्सर्जनमिति कदाचित्रिविधाहारपरित्यागं करोति कदाचिच्चतुर्विधाहारमिति । अत्र प्रागुक्तमेव लेशतः सम्यगनवगच्छन्नाह । चरमावस्थाइ तहा सवारंभकिरियानिवितीए । पव्वजा चेव तओ न पवजइ केण कजेण ॥३०॥ [चरमावस्थायां तथा सर्वारम्भक्रियानिवृत्तेः। प्रवज्यामेव चासौ न प्रतिपद्यते केन कार्येण ॥ ३८०॥]
चरमावस्थायां मरणावस्थायामित्यर्थः तथा तेन प्रकारेणाहारपरित्यागादिनापि सर्वारम्भक्रियानिवृत्तेः कारणात्प्रवज्यामेवासौ श्रावको न प्रतिपद्यते केन कार्येण केन हेतुना इत्यत्रोच्यते
Page #218
--------------------------------------------------------------------------
________________
२०६ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं ।
चरणपरिणामविरहा नारंभादप्पवित्तिमितो सो। तज्जुतुवसग्गसहाण जं न भणिओतिरिक्खाणं३.१ [चरणपरिणामविरहात् नारम्भाद्यप्रवृत्तिमात्रोऽसौ। तद्युक्तोपसर्गसहानां यन्न भाणितस्तिरश्चामिति ॥३८१॥
चरणपरिणामविरहादित्युक्तमेव स एव तथानिवृत्तस्य किं न भवतीत्याशङ्कयाह नारम्भाद्यप्रवृत्तिमात्रोऽसौ चरणपरिणाम इति कुतस्तद्युक्तोपसर्गसहानां यन्न भणितस्तिरश्चामिति तथाह्यारंभाद्यप्रवृत्तियुक्तानामपि पिपीलिकाद्युपसर्गसहानां चण्डकौशिकादीनां न चारित्रपरिणामः अतोऽयमन्य एवात्यन्तप्रशस्तोऽचि न्त्यचिन्तामणिकल्प इति पुनरपि केषांचिन्मतमाशंक्यते
केई भणंति एसा संलेहणा मो दुवालसविहंमि ।
भणिया गिहत्थधम्मे न जओ तो संजए तीए ३.२ [केचन भणन्ति एषा संलेखना द्वादशविधे ।
भणिता गृहस्थधर्मे न यतः ततःसंयतः तस्याम्॥३८२॥ . केचनागीतार्था भणन्ति एषा अनन्तरोदिता संलेखना द्वादशविधे पंचाणुव्रतादिरूपे भणिता गृहस्थधर्मे श्रावकधर्म इत्यर्थः न यतस्ततस्तस्मात्कारणात्संयतः प्रवजित एव तस्यामिति । अत्रो. च्यते न भणितेत्यसिद्धम् ।
भणिया तयणंतरमो जीवंतस्सेस बारसविहो उ। एसा य चरमकाले इत्तरिया चेव ता ण पुढो ३.३
Page #219
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञत्याख्यप्रकरणं। २०७ [भणिता तदनन्तरमेव जीवत एष द्वादशविधः।। एषा च चरमकाले इत्वरा चेयमेवं तस्मान्न पृथक ३८३
भणिता तदनन्तरमेव द्वादशविधश्रावकधर्मानन्तरमेव तन्म. ध्य एवाभणने कारणमाह । जीवत एष द्वादशविधः प्रदीर्घकालपरिपालनीयः, एषा संलेखना चरमकाले क्षीणप्राये आयुषि सति क्रियते इत्वरा चेयमल्पकालावस्थायिनी यस्मादेवं तस्मान्न पृथगियं श्रावकधर्मादिति । उपपत्त्यन्तरमाह
जं चाइयारसुतं समणोवासगपुरस्सरं भणियं । तम्हा नइमीइ जई परिणामा चेव अवि य गिही३.४ [यचातिचारसूत्रं श्रमणोपासकपुरस्सरं भणितम् । तस्मान्नास्यां यतिः परिणामादेव अपिच गृही॥ ३८४॥
यच्च यस्माच्च अतिचारसूत्रमस्याः श्रमणोपासकपुरःसरं भणितमागमे तच्चेदं “इमीए समणोवासएणं इमे पंचइयारा जा. णियवा न समायरियवा तं जहा इहलोगासंसप्पओगेत्यादि" तस्मान्नास्यां संलेखनायां यतिरसौ श्रावकः अपि च गृहीति संबन्धः किं तु श्रावक एवेत्यर्थः कुत इत्याह परिणामादेव तस्यामपि देशविरतिपरिणामसंभवादनशनप्रतिपत्तावपीषन्ममत्वापरित्यागोपलब्धेः सर्वविरतिपरिणामस्य दुरापत्वात्सति तु तस्मिन् स्यात् यतिरिति सूत्रान्तरतश्च यत उक्तं सूत्रकृतांगे इत्यादीति । इयमपि चातिचाररहिता सम्यक्पालनीयेति तानाह
१ सुत्तंतरयो अ
Page #220
--------------------------------------------------------------------------
________________
२०८ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । इहपरलोगासंसप्पओग तह जीयमरणभोगेसु ।
वजिजा भाविज य असुहं संसारपरिणामं ॥३५॥ [इहपरलोकाशंसाप्रयोगौ तथा जीवितमरणभोगेषु । वर्जयेत् भावयेचाशुभं संसारपरिणामम् ॥ ३८५ ॥
इह लोको मनुष्यलोकः तस्मिन्नाशंसाभिलाषः तस्याः प्रयोग इति समासः श्रेष्ठी स्याममात्यो वेति । एवं परलोकाशंसाप्रयोगः परलोको देवलोकः । एवं जीविताशंसाप्रयोगः जीवितं प्राणधारणं तत्राभिलाषप्रयोगः “यदि बहुकालं जीवेयम्” इति । इयं च वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनाद्बहुपरिवारदर्शनाच्च लोकश्लाघाश्रवणाच्चैवं मन्यते "जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्तते । ३ । मरणाशंसाप्रयोगः न कश्चित्तं प्रतिपन्नानशनं गवेषते न सपर्यायामाद्रियते न कश्चिच्छाघते ततस्तस्यैवंविधचित्तपरिणामो भवति "यदि शीघ्रं म्रियेऽहंअपुण्यकर्मेति मरणाशंसा।४।कामभोगाशंसाप्रयोगः जन्मान्तरे चक्रवर्ती स्याम् वासुदेवो महामण्डलिकः सुभगो रूपवानित्यादि एतद्वर्जयेद्भावयेच्चाशुभं जन्मपरिणामादिरूपं संसारपंरिणाममिति तथा ।५। . जिणभासियधम्मगुणे अव्वाबाहं च तप्फलं परमं ।
एवं उ भावणाओ जायइ पिच्चा वि बोहि ति॥३६॥ [जिनभाषितधर्मगुणान् अव्याबाधं च तत्फलं परमं । एवं तु भावनातो जायते प्रेत्यापि बोधिरिति ॥३८६॥]
Page #221
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। २०९ जिनभाषितधर्मगुणानिति क्षान्त्यादिगुणान् भावयेदव्याबाधं च मोक्षसुखं च तत्फलं क्षान्त्यादिकार्यं परमं प्रधानं भावयेदेवमेव भावनातः चेतोन्यासातिशयेन जायते प्रेत्यापि जन्मान्तरेऽपि बोधिधर्मप्राप्तिरिति
कुसुमेहि वासियाणं तिलाण तिलं पि जायइ सुयंधं । __ एतोवमा हु बोही पन्नता वीयरागेहिं ॥ ३७॥ [कुसुमैः वासितानां तिलानां तैलमपि जायते सुगन्धि। एतदुपमैव बोधिः प्रज्ञप्ता वीतरागैः ॥ ३८७ ॥] . कुसुमैर्मालतीकुसुमादिभिर्वासितानां भावितानां तिलानां तैलमपि जायते सुगन्धि तद्गन्धवदित्यर्थः एतदुपमैव बोधिरिति अनेनोक्तप्रकारेणोपमा यस्याः सा तथा प्रज्ञप्ता वीतरागैरर्हद्भिरिति
कुसुमसमा अब्भासा जिणधम्मस्सेह हुंति नायवा । तिलतुल्ला पुण जीवा तिल्लसमो पिच्च तब्भावो ३९ [कुसुमसमा अभ्यासा जिनधर्मस्य इह भवन्ति ज्ञातव्याः तिलतुल्याः पुनर्जीवाः तैलसमः प्रेत्य तद्भावः ॥३८८॥]
कुसुमसमाः कुसुमतुल्या अभ्यासा जिनधर्मस्य क्षान्त्यादेरिह जन्मनि भवन्ति ज्ञातव्याः तिलतुल्याः पुनर्जीवा भाव्यमानत्वात् तैलसमः प्रेत्य तद्भावो जन्मान्तरे बोधिभाव इति बोधिफलमाह
इय अप्परिवडियगुणाणुभावओ बंधहासभावाओ। पुबिल्लस्स य खयओ सासयसुक्खो धुव्वो मुक्खो३०९
१४
Page #222
--------------------------------------------------------------------------
________________
२१०
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । [एवं अप्रतिपतितगुणानुभावतः बन्धहासभावात् । प्राक्तनस्य च क्षयात् शाश्वतसौख्यो ध्रुवो मोक्षः ३८९
एवमुक्तेन प्रकारेण अप्रतिपतितगुणानुभावतः सततसमवस्थितगुणसामर्थ्येन बन्धहासात्प्रायो बन्धाभावादित्यर्थः प्राक्तनस्य च बन्धस्य क्षयात्तेनैव सामर्थ्येन एवमुभयथा बन्धाभावे शाश्वतसौख्यो ध्रुवो मोक्षोऽवश्यंभावीति एतदेव सूत्रान्तरेण भावयन्नाह
समतमि य लद्धे पलियपहुतेण सावओ हुज्जा।
चरणोवसमखयाणं सागरसंखंतरा हुंति ॥ ३९०॥ [सम्यक्त्वे च लब्धे पल्योपमपृथक्त्वेन श्रावको भवति । चरणोपशमक्षयाणां सागराणि संख्येयान्यन्तरं भवन्ति
सम्यक्त्वे च लब्धे तत्वतः पल्योपमपृथक्त्वेन श्रावको भवति एतदुक्तं भवति यावति कर्मण्यपगते सम्यक्त्वं लभ्यते तावतो भूयः पल्योपमपृथक्त्वेऽपगते देशविरतो भवति पृथक्त्वं द्विःप्रभृतिरानवभ्य इति क्लिष्टेतरविशेषाच्च व्यादिभेद इति चरणोपशमक्षयाणामिति चारित्रोपशमश्रेणिक्षपकश्रेणीनां सागराणीति सागरोपमाणि संख्येयान्यन्तरं भवन्ति एतदुक्तं भवति यावति कर्मणि क्षीणे देशविरतिरवाप्यते तावतः पुनरपि संख्येयेषु सागरोपमेष्वपगतेषु चारित्रं सर्वविरतिरूपमवाप्यते एवं श्रेणिद्वये भावनीयमिति एवं अप्परिवडिए संमते देवमणुयजमेसु । , अन्नयरसेढिवजं एगभवेणं च सवाई ॥ ३९१ ॥
Page #223
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [एवमप्रतिते सम्यक्त्वे देवमनुजजन्मसु।
अन्यतरश्रेणिवर्जमेकभवेनैव सर्वाणि ॥ ३९१ ॥] - एवमप्रतिपतिते सम्यक्त्वे सति देवमनुजजन्मसु चारित्रादेलाभः उक्तपरिणामविशेषतः पुनस्तथाविधकर्मविरहादन्यतर)णिवर्जमेकभवेनैव सर्वाण्यवाप्नोति सम्यक्त्वादीनीति । यदुक्तं शाश्वतसौख्यो मोक्ष इति तत्प्रतिपादयन्नाह
रागाईणमभावा जम्माईणं असंभवाओ य । अब्बाबाहाओ खलु सासयसुक्खं तु सिद्धाणं ॥३९२॥ रागादीनामभावाजन्मादीनामसंभवाच्च । तथा अव्याबाधातः खलु शाश्वतसौख्यमेव सिद्धानां इति गाथाक्षरार्थः भावार्थमाह
रागो दोसो मोहो दोसाभिस्संगमाइलिंग ति।
अइसंकिलेसरूवा हेऊ वि य संकिलेसस्स ॥३९३॥ [रागो द्वेषो मोहो दोषा अभिष्वङ्गादिलिङ्गा इति ।
अतिसंक्लेशरूपा हेतवोऽपि च संक्लेशस्य ॥ ३९३ ॥] रागो द्वेषो मोहो दोषा अभिष्वङ्गादिलिङ्गा इति अभिष्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेषः अज्ञानलक्षणो मोह इति । अति संक्लेशरूपास्तथानुभवोपलब्धेः हेतवोऽपि च संक्लेशस्य क्लिष्टकर्मबन्धनिबन्धनत्वादिति : - एएहभिभूआणं संसारीणं कुओ सुहं किंचि ।
जम्मजरामरणजलं भवजलहिं परियडताणं ॥३९४॥
Page #224
--------------------------------------------------------------------------
________________
२१२ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [एभिः अभिभूतानां संसारिणां कुतः सौख्यं किंचित्।
जन्मजरामरणजलं भवजलधि पर्यटताम् ॥ ३९४ ॥] 'एभी रागादिभिरभिभूतानामस्वतन्त्रीकृतानां संसारिणां सत्त्वानां कुतः सुखं किंचिन्न किंचिदित्यर्थः किंविशिष्टानां जन्मजरामरणजलं भवजलधि संसारार्णवं पर्यटतां भ्रमतामिति एतदभावे सुखमाह।
रागाइविरहओ जे सुक्खं जीवस्स तं जिणो मुणइ । न हि सन्निवायगहिओ जाणइ तदभावजं सातं३९५ [रागादिविरहतो यत्सौख्यं जीवस्य तजिनो मुणति । नहि सन्निपातगृहीतः जानाति तदभावज सातम् ३९५]
रागादिविरहतो रागद्वेषमोहाभावेन यत्सौख्यं जीवस्य संक्केशवर्जितं तजिनो मुणति अर्हन्नेव सम्यग्विजानाति नान्यः किमिति चेन्न हि यस्मात्सन्निपातगृहीतः सत्येव तस्मिन् जानाति तदभावजं सन्निपाताभावोत्पन्नं सातं सौख्यमिति अतो रागादिविरहात्सिद्धानां सौख्यमिति स्थितं जन्मादीनामभावाच्चेति यथोक्तं तथावस्थाप्यते तत्रापि जन्माद्यभावमेवाह
दबँमि जहा बीए न होइ पुण अंकुरस्स उप्पती । तह चेव कम्मबीए भवंकुरस्सावि पडिकुट्टा ॥३९६॥ 'दग्धे यथा बीजे शाल्यादौ न भवति पुनरङ्करस्योत्पत्तिः शाल्यादिरूपस्य तथैव कर्मबीजे दग्धे सति भवांकुरस्याप्युत्पत्तिः प्रतिकुष्टा निमित्ताभावादिति
Page #225
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । २१३ जंमाभावे न जरा न य मरणं न य भयं न संसारो।
एएसिमभावाओ कहं न सुक्खं परं तसिं ॥ ३९७॥ [जन्माभावे नजरा न च मरणं न च भयं न संसारः। एतेषामभावात्कथं न सौख्यं परं तेषाम् ॥ ३९७ ॥]
जन्माभावे न जरा वयोहानिलक्षणा आश्रयाभावान्न च मरणं प्राणत्यागरूपं तदभावादेव न च भयमिहलोकादिभेदं निबन्धनाभावान्न च संसारः कारणाभावादेव एतेषां जन्मादीनामभावात्कथं न सौख्यं परं तेषां सिद्धानां किन्तु सौख्यमेव जन्मादीनामेव दुःखरूपत्वादिति अव्याबाधमिति यदुक्तं तदाह
अवाबाहाउ च्चिय सयलिंदियविसयभोगपजते ।
उस्सुक्कविणिवतीइ संसारसुहं व सद्धेयं ॥ ३९ ॥ [अव्यावाधत एव सकलेन्द्रियविषयभोगपर्यन्ते ।
औत्सुक्यविनिवृत्तेः संसारसुखमिव श्रद्धेयम् ॥३९८॥]
अव्याबाधत एव अव्याबाधादेव सकलेन्द्रियविषयभो. गपर्यन्ते अशेषचक्षुरादीन्द्रियप्रकृष्टरूपादिविषयानुभवचरमकाले औत्सुक्यविनिवृत्तेरभिलाषव्यावृत्तेः कारणात्संसारसुखमिव श्रद्धेयं तस्यापि तत्त्वतो विषयोपभोगतस्तदौत्सुक्यविनिवृत्तिरूपत्वात्तदर्थ भोगक्रियाप्रवृत्तेरिति । उक्तं च .
वेणुवीणामृदंगादिनादयुक्तेन हारिणा। श्लाघ्यस्मरकथाबद्धगीतेन स्तिमितं सदा ॥१॥
Page #226
--------------------------------------------------------------------------
________________
२१४
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
कुट्टिमादी विचित्राणि दृष्ट्वा रूपाण्यनुत्सुकः। लोचनानन्ददायीनि लीलावन्ति स्वकानि हि ॥२॥ अंबरागुरुकर्पूरधूपगन्धान्वितस्ततः । पटवासादिगन्धांश्च व्यक्तमाघ्राय निस्पृहः ॥ ३ ॥ नानारससमायुक्तं भुक्त्वान्नमिह मात्रया । पीत्वोदकं च तृप्तात्मा स्वादयन् स्वादिमं शुभम् ॥ ४ ॥ मृदुतूलीसमाक्रान्तदिव्यपर्यकसंस्थितः। सहसांभोदसंशब्दं श्रुतेर्भयधनं भृशं ॥५॥ इष्टभार्यापरिष्वक्तः तद्रतान्तेऽथवा नरः।। सर्वेन्द्रियार्थसंप्राप्त्या सर्वबाधानिवृत्तिजं ॥६॥ यद्वेदयति संहृद्यं प्रशान्तेनान्तरात्मना ।
मुक्तात्मनस्ततोऽनन्तं सुखमाहुर्मनीषिणः ॥७॥ इत्यादीति संसारसुखमप्यौत्सुक्यविनिवृत्तिरूपमेवेत्युक्तमिह विशेषमाह इयमितरा निविती सा पुण आवकहिया मुणेयवा। भावा पुणो वि नेयं एगंतेणं तई नियमा ॥३९९ ॥ [इयं इत्वरा निवृत्तिः सा पुनः यावत्काथका मुणितव्या।
भावाः पुनरपि नेयं एकान्तेन असौ नियमात्॥३९९॥] - इयमिन्द्रियविषयभोगपर्यन्तकालभाविनी इत्वरा अल्पकालावस्थायिनी निवृत्तिरौत्सुक्यव्यावृत्तिः सा पुनः सिद्धानां संबन्धिनी औत्सुक्यविनिवृत्तिावत्कथिका सार्वकालिकी मुणितव्या शेया पुनरप्रवृत्तेस्तथाभावात्पुनरपि प्रवृत्तेः भूयोऽपि नेयमिन्द्रिय
Page #227
--------------------------------------------------------------------------
________________
सटीकश्रावकप्रज्ञस्याख्यप्रकरणं। २१५ विषयभोगपर्यन्तकालभाविनी एकान्तेन सर्वथा निवृत्तिरेवौत्सुक्यस्य वीजाभावेन पुनस्तत्प्रवृत्त्यभावात् असौ सिद्धानां संबधिनी औत्सुक्यविनिवृत्तिः नियमादेकान्तेन निवृत्तिरेव ततश्च महदेतत्सुखमिति । उपसंहरन्नाह
इय अणुहवजुतीहेउसंगयं हंदि निडियट्ठाणं । ___ अस्थि सुहं सद्धेयं तह जिणचंदागमाओ य ॥४०॥ [एवं अनुभवयुक्तिहेतुसंगतं हंदि निष्ठितार्थानाम् । अस्ति सुखं श्रद्धेयं तथा जिनचन्द्रागमाच ॥४००॥]
इय एवमुक्तेन प्रकारेणानुभवयुक्तिहेतुसंगतमिति अत्रानुभव: संवेदनं युक्तिरुपपत्तिहेतुरन्वयव्यतिरेकलक्षणः एभिर्घटमानक हंदीत्युपप्रदर्शने एवं गृहाण नानिष्ठितार्थानां सिद्धानामस्ति सुखं विद्यते सातं श्रद्धेयं प्रतिपत्तव्यं तथा जिनचन्द्रागमाच्चाहेद्वचना
द्वेति ।
अधुना आचार्योऽनुद्धतत्वमात्मनो दर्शयन्नाह अथवा प्रकरणविहितार्थं विशिष्टश्रमणपर्यायप्राप्यं सक्रियया सर्वेषामासन्नीकृत्यात्मनोऽपराधस्थानमाशंक्याह
जं उद्धियं सुयाओ पुवाचरियकयमहव समईए।
खमियच्चं सुयहरेहि तहेव सुयदेवयाए य ॥ ४०१॥' [ यदुद्धृतं सूत्रात् पूर्वाचार्यकृतं अथवा स्वमत्या ।
क्षतव्यं श्रुतधरैः तथैव श्रुतदेवतया च ॥ ४०१॥] 1 All Mss of the origiual text end thus, "श्रीउमास्वातिवाचककृता सावयपनत्ती सम्मत्ता"॥
Page #228
--------------------------------------------------------------------------
________________ 216 सटीकश्नावकप्रज्ञप्त्याख्यप्रकरणं। यदुद्भुतं सूत्रात्सूत्रकृतादेः कालान्तरप्राप्यं पूर्वाचार्यकृतं वा यदुद्धृतं अथवा स्वमत्या तत्क्षन्तव्यं श्रुतधेरैस्तथैव श्रुतदेवतया च क्षन्तव्यमिति वर्तते। इति दिक्प्रदा नाम श्रावकप्रज्ञप्तिटीका समाप्ता। कृतिरियं सिताम्बराचार्यस्य जिनभट्टपादसत्कस्याचार्यहरिभद्रस्येति / इति सटीकश्रावकमज्ञस्याख्यप्रकरणम् //