SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। ५३ [निःशेषकर्मविगमो मोक्षो जीवस्य शुद्धस्वरूपस्य । साद्यपर्यवसानमव्याबाधमवस्थानम् ॥ ८३ ॥ ] निःशेषकर्मविगमो मोक्षः । कृत्स्नकर्मक्षयान्मोक्ष इति वचनात् (तत्त्वार्थाधिगमसूत्रम् १०-१) जीवस्य शुद्धस्वरूपस्य कर्मसंयोगापादितरूपरहितस्येत्यर्थः। साद्यपर्यवसानं अव्याबाधं व्याबाधावर्जितमवस्थानमवस्थितिः जीवस्यासौ मोक्ष इति । साद्यपर्यवसानता चेह व्यक्त्यपेक्षया न तु सामान्येन । मोक्षस्यापि अनादिमत्वमिति । उक्तं तत्त्वं, अधुना प्रकृतं योजयति ॥ एयमिह सद्दहंतो सम्मट्ठिी तओ अ नियमेण। भवनिव्वेयगुणाओ पसमाइगुणासओ होइ ॥ ४ ॥ [एतदिह श्रद्दधानः सम्यग्दृष्टिः तकश्च नियमेन । भवनिर्वेदगुणात् प्रशमादिगुणाश्रयो भवति ॥ ८४॥] एतदनन्तरोदितं जीवाजीवादीह लोके प्रवचने वा श्रद्दधानः एवमेवेदमित्यान्तिःकरणतया प्रतिपद्यमानः सम्यग्दृष्टिरभिधीयते, अविपरीतदर्शनादिति, तकश्च नियमेनासाववश्यंतया भवनिर्वेदगुणात् संसारनिर्वेदगुणेन प्रशमादिगुणाश्रयो भवति उक्तलक्षणानां (५३) प्रशमादिगुणानामाधारो भवति । भवति चेत्थंज्ञाने संसारनिर्वेदगुणः। तस्माच्च प्रशमादयः। प्रतीतमेतदिति अस्यैव व्यतिरेकमाह ॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy