________________
५२
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। समितिगुप्त्यादिभितिव्यः । उक्तं च “स समितिगुप्तिधर्मानुप्रेक्षापरीषहजयचारित्रैः" इत्यादि (तत्त्वार्थाधिगमसूत्रम् ९-४) कर्मणामनुपादानं भावार्थो भवत्येतस्य संवरस्य । इह यावानेवांशः कर्मणामनुपादानहेतुर्धर्मादीनां तावानेवेह गृह्यते । शेषस्य तपस्येवान्तर्भावात् तस्य च प्रागुपात्तक्षयनिमित्तत्वादिति । अत्र बहु वक्तव्यं । तत्तु नोच्यते । गमनिकामात्रत्वादारंभस्येगि। - उक्तः संवरः सांप्रतं निर्जरोच्यते॥
तवसा उ निजरा इह निजरणं खवणनासमेगट्ठा।
कम्माभावापायणमिह निजरमो जिना बिति॥२॥ [तपसा तु निर्जरा इह निर्जरणं क्षपणं नाश एकार्थाः। कर्माभावापादानमिह निर्जरा जिना ब्रुवते ॥ ८२॥]
तपसा तु निर्जरा इह । अनशनादिभेदभिन्नं तपः तेन प्रागुपात्तस्य कर्मणो निर्जरा भवति । निर्जराशब्दार्थमेवाह । निर्जरणं क्षपणं नाश इत्येकार्थाः पर्यायशब्दा इति । नानादेशजविनेयगणप्रतिपत्त्यर्थ अज्ञातज्ञापनार्थ चैतेषामुपादानमदुष्टमेव । अस्या एव भावार्थमाहं । कर्माभावापादानमिह निर्जरा जिना ब्रुवते प्रकटार्थमेतदिति । उक्ता निर्जरा इदानीं मोक्षमाह। नीसेसकम्मविगमो मुक्खो जीवस्स सुद्धरूवस्स। साइ अपजवसाणं अव्वाबाहं अवत्थाणं ॥३॥