________________
५४ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। . विवरीयसदहाणे मिच्छाभावाओ नत्थि केइ गुणा।
अणभिनिवेसो उ कयाइ होइ सम्मतहेऊ वि॥५॥ [विपरीतश्रद्दधाने मिथ्याभावान्न सन्ति केचन गुणाः ।
अनभिनिवेशस्तु कदाचिद्भवति सम्यक्त्वहेतुरपि॥८॥] विपरीतश्रद्धाने उक्तलक्षणानां जीवादिपदार्थानामन्यथा श्रद्धाने मिथ्याभावान्न सन्ति केचन गुणाः सर्वत्रैव विपर्ययादिति भावः। विपरीतश्रद्धानेऽप्यनभिनिवेशस्तु एवमेवैतदित्यनध्यवसायस्तु कदाचित्कस्मिंश्चित्काले यद्वा कदाचित् न नियमेनैव भवति सम्यक्त्वहेतुरपि जायते सम्यक्त्वकारणमपि । यथेन्द्रनागादीनामिति।
इदं च सम्यक्त्वमतिचाररहितमनुपालनीयमिति । अतस्तानाह सम्मतस्सइयारा संका कंखा तहेव वितिगिच्छा।
परपासंडपसंसा संथवमाई य नायव्वा ॥६॥ [सम्यक्त्वस्यातिचाराःशङ्का कांक्षा तथैव विचिकित्सा। परपाषण्डप्रशंसा संस्तवादयश्च ज्ञातव्याः॥८६॥]
सम्यक्त्वस्य प्रानिरूपितशब्दार्थस्यातिचारा अतिचरणानि अतिचारा असदनुष्ठानविशेषाः यैः सम्यक्त्वमतिचरति विराधयति वा । ते च शंकादयः। तथा चाह । शंका कांक्षा तथैव विचिकित्सा परपाषण्डप्रशंसा संस्तवादयश्च ज्ञातव्याः । आदिशब्दादनुपर्बु हणास्थिरीकरणादिपरिग्रहः । शंकादीनां स्वरूपं वक्ष्यत्येवेति ।
संसयकरणं संका कंखा अन्नन्नदंसणग्गाहो। संतंमिवि वितिगिच्छा सिज्झिज्ज नमे अयं अट्ठो ६७