________________
सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं ।
[ संशयकरणं शङ्का कांक्षान्योन्यदर्शनग्राहः । सत्यपि विचिकित्सा सिध्येत न मेऽयमर्थः ॥ ८७ ॥]
५५
संशयकरणं शङ्का भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिध्वत्यन्तगहनेषु मतिदौर्बल्यात्सम्यगनवधार्यमाणेषु संशय इत्यर्थः । किमेवं स्यान्नैवमिति । सा पुनर्द्धिभेदा | देशसर्वभेदात् । देशशङ्का देशविषया यथा किमयमात्मासङ्घयेयप्रदेशात्मकः स्यादथ निःप्रदेशो निरवयवः स्यादिति । सर्वशङ्का पुनः सकलास्तिकायन्त्रात एव किमेवं स्यान्नैवमिति ॥ कांक्षान्योन्यदर्शनग्राहः । सुगता - दिप्रणीतेषु दर्शनेषु ग्राहोऽभिलाष इति । सा पुनर्द्विभेदा देशसर्वभेदात् । देशविषया एकमेव सौगतं दर्शनमाकांक्षति चि
जयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरिति अतो घटमानकमिदं न दूरापेतमिति । सर्वकांक्षा तु सर्वदर्शनान्येव कांक्षति अहिंसाप्रतिपादनपराणि सर्वाण्येव कपिलकणभक्षाक्षपादमतानीह लोके च नात्यन्तक्लेशप्रतिपादनपराणि अतः शोभनान्येवेति ॥ सत्यपि विचिकित्सा सिध्येत न मेऽयमर्थ इति । अयम
भावार्थः । विचिकित्सा मतिविभ्रमो युक्तत्यागमोपपन्नेऽप्यर्थे फलं प्रति संमोहः । किमस्य महतस्तपः क्लेशायासस्य सिकताकण कवलकल्पस्य कनकावल्यादेरायत्यां मम फलसंपद्भविष्यति किं वा नेति । उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते कृषीबलानाम् । न चेयं शङ्कातो न भिद्यते इत्याशङ्कनीयं । शंका हि सकला सकलपदार्थभाक्त्वेन द्रव्यगुणविषया । इयं तु क्रियावि