SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १०४ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । [अत एव व्यवहारो गमनागमनादिर्लोकसंसिद्धः । न घटते यत् परिणामी तस्मात् असौभवति ज्ञातव्यः१८३] अत एवानन्तरोदितादेकान्तनित्यत्वादेर्हेतोर्व्यवहारो गमनागमनादिर्न घटते एकत्रैकस्वभावस्याध्यासितदेशव्यतिरेकेण देशान्तराध्यासायोगात् अन्यत्र च तस्यैवाभावेनापरानुत्पत्तेरिति । आदिशब्दात्स्थानशयनासनभोजनादिपरिग्रहः यद्यस्मादेवं तस्मात्परिणाम्यसावात्मा भवति ज्ञातव्यः, परिणामलक्षणं चेदं । परिणामो ह्यर्थान्तरगमनं न तु सर्वथा व्यवस्थानं । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥१॥ इति । एतदेव भावयति जह कंचणस्स कंचणभावेण अवडियरस कडगाई। उप्पज्जति विणस्संति चेव भावा अणेगविहा॥१४॥ [ यथा कांचनस्य कांचनभावन अवस्थितस्य कटकादयः। उत्पद्यन्ते विनश्यन्ति चैव भावा अनेकविधाः॥१८४॥] यथा काञ्चनस्य सुवर्णस्य काञ्चनभावेन सर्वभावानुयायिन्या सुवर्णसत्तया अवस्थितस्य कटकादत कटककेयूरकर्णालंकारादयः उत्पद्यन्ते आविर्भवन्ति विनश्यति च तिरोभवन्ति च भावाः पर्यायाः अनेकविधा अन्वयव्यतिरेकवन्तः स्वसंवेदनसिद्धा अनेकप्रकारा इति एवं च जीवदवस्स दवपज्जवविसेसभइयस्स। निच्चतमणिञ्चतं च होइ णाओवलभंतं ॥ १५ ॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy