________________
स्वातिविरचितश्रावकप्रज्ञप्तौ तु अतिथिशब्देन साध्वादयश्चत्वारो गृहीताः। ततस्तेषां संविभागः कार्य इत्युक्तम् । तथा च तपाठः। “अतिथिसंविभागो नाम अतिथयः साधवः साध्व्यः श्रावकाः श्राविकाश्चैतेषु गृहमुपागतेषु भत्त्याभ्युत्थानासनदानपादप्रमार्जननमस्कारादिभिरर्चयित्वा यथाविभवशक्ति अन्नपानवस्त्रौषधालयादिप्रदानेन संविभागः कार्यः" इति । श्रीमुनिचन्द्रसूरिविरचितधर्मबिन्दुटीकायां द्वादशतमव्रतप्रस्तावे श्रीवादिदेवसूरिरप्येवमेवाह । अनेन च संस्कृतेऽपि श्रावकप्रज्ञप्ति मातिविस्तृतो. ग्रन्थः श्रीमदुमास्वातिविरचितोऽभूदित्यवगम्यते । अयं पुनः प्रस्तुतो ग्रन्थो मागध्यां मूलात्मको विद्यते । ततो निर्णीयते नायं भगवदुमास्वातिप्रणीतो भवेदिति ।
१श्रीमदुमास्वातिविरचिता श्रावकप्रज्ञप्तिरस्तीत्येतद्विचारामृतसंग्रहादिग्रन्थैरपि निश्चीयते ।
२ पञ्चाशकटीकायां श्रीमता नवाङ्गीवृत्तिकृताभयदेवसूरिणेदमभ्यधायि । तद्यथा-वाचकतिलकेन श्रीमतोमास्वातिवाचकेन श्रा- . वकप्रज्ञप्तौ सम्यक्त्वादिः श्रावकधर्मो विस्तरेणाभिहित इति । ततश्चेदमेवात्र जिज्ञास्यं यदेनमुमास्वाती रचयामास वा न वेति।
३ ग्रन्थस्यास्य मूलगाथान्ते प्रायः सर्वत्र 'उमास्वातिविरचिता सावयपन्नत्ती संमत्ता' इति लिखितं दरीदृश्यते । एतदपि चास्योमास्वातिवाचकः प्रणेतेति मनने मानम् ।