________________
भगवता श्रीहरिभद्रसूरिणास्योपरि टीका व्यरच्येतति ग्रन्थान्तलेखपालोचनया स्पष्टं प्रतीयते ।
इदं च प्रस्तुतसूरिविरचितस्य स्वोपज्ञटीकासंवलितस्य शास्त्रवार्तासमुच्चयस्यामुखपर्यालोचनया तथा जिनभद्रसूरेरन्तेवासितां. स्वयमेवायमुररीचकारेत्यादिकारणैश्चावसीयते । प्रान्ते विरहाङ्काभावान्नायं विरचितो भगवता हरिभद्रसूरिणेति नाशङ्कनीयम् । यतो योगबिन्दुप्रमुखा विरहाकविनाकृता अप्यनेके तद्रतिचा ग्रन्थाः समवलोक्यन्ते । चतुश्चत्वारिंशदधिकचतुर्दशशत(१४४४) ग्रन्थानां निर्मातेति भुवनप्रतीतोऽयं सूरिः पञ्चत्रिंशदधिकपञ्चश ते (५३५) वैक्रमेऽन्दे देवलोकं स्वप्रत्यासत्त्या मण्डयामास ।
उमास्वात्यपेक्षयास्याधिकाः सन्ति प्रचलिता ग्रन्था इति तच्चरितं तत एवावगन्तव्यम् ।।
श्रीमानुमास्वातिरपि पञ्चशतं ग्रन्थान्व्यरचयदित्यैतिह्यमात्रम् ।
बृहद्गच्छीयेन श्रीहरिभद्रसूरिणापि वैक्रमीयपञ्चाशीत्यधिकैकादशशत(११८५)प्रमिताब्दविरचितायां प्रशमरतिटीकायामेवमेवोकम्।
तत्त्वार्थाधिगमः प्रशमरतिर्जम्बूद्वीपसमासश्चेति ग्रन्थत्रयं श्रीमदुमास्वातिवाचकप्रणीतमुपलभ्यते । पूजाप्रकरणं नामैको ग्रन्थ एकोनविंशतिश्लोकात्मक एतद्विरचितो भवेदिति कथनमात्रम् । एतद्विरचिताप्यन्या श्रावकप्रज्ञप्तिभवेदिव्येतद्धर्मसङ्ग्रहादिग्रन्थैरपि निश्चीयते । एतद्विरचितजम्बूद्वीपसमासान्तलेखादवगम्यते । तद्यथा-कृतिरियं सिताम्बराचार्यस्य महकोवरुमास्वातिवाचकस्येति ।