________________
आमुखम्। श्रावकप्रज्ञप्तिनामधेयो ऽयमेकाधिकचतुःशत(४०१)पद्यात्मको ग्रन्थः पुरा मागध्यां प्रणीतो ऽस्ति । एनं च सुगृहीतनामधेयः श्रीहरिभद्रसूरिष्टीकया समलंचकार । ग्रन्थस्यास्य प्रणेता कदा को वा समभूदित्येतन्न शक्यते सम्यनिर्णेतुम् । भगवतोः सूरिवाचकवर्ययोः श्रीहरिभद्रोमास्वात्योरन्यतरः को वास्य रचयितेत्येतदा संदेहदोलारूढमेव ।
भगवता श्रीहरिभद्रसूरिणवायं स्वोपज्ञटीकासटीको निरमायीति वक्ष्यमाणप्रमाणैरवगम्यते । तथाहि
१ चतुःसप्तत्यधिकसप्तदशशत(१७७४)प्रमिते विक्रमाब्दे श्रीमता लावण्यविजयेन स्वोपज्ञटीकासनाथो द्रव्यसप्ततिनाम ग्रन्थो व्यरच्यत । तत्र च षट्पञ्चाशत्तमगाथायाष्टीकायाम् “यदाहुः श्रावकप्रज्ञप्तौ श्रीहरिभद्रसूरिपादाः" एवमलिख्यत । तदनन्तरमस्यामेव टीकायां प्रस्तुतग्रन्थस्यैव चतुर्दशोत्तरशत (११४) प्रमिता गाथा प्रमाणत्वेनावतारिता । ततः स ग्रन्थरचयितामुं भगवान्हरिभद्रसूरिरेव रचयामासेति मनुत इति भाति।
२ नवाङ्गीवृत्तिकृद्भगवान् सूरिरभयदेवः श्रीहरिभद्रसूरिसंहब्धं पञ्चाशकं व्यवृणोत् । तत्र च स पूज्यैरेवोक्तमित्यभिधाय 'संपत्तदंसणाई" इत्येतामेव गाथामवातारयत् । तेन च मूलात्मकोऽप्ययं ग्रन्थो भगवता श्रीहरिभद्रसूरिणैव व्यरच्यतेति निश्चीयते।
३ श्रीमानविजयप्रणीते श्रीयशोविजयसंशोधिते धर्मसंग्रहाभिधानप्रकरणे द्वादशतमव्रतप्रसङ्गेनेदमभ्यधायि । तद्यथा-उमा