SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७८ सटीकश्रावकप्रज्ञत्याख्यप्रकरणं । निवृत्तिरत्र प्राणातिपाते भवति कर्तव्या अन्यथा भङ्गप्रसङ्गात् । इति पूर्वपक्षः । अत्रोत्तरमाह । अभ्याख्यानं तद्गुणशून्यत्वेऽपि तद्गुणाभ्युपगमलक्षणं द्वयोरपि प्रत्याख्यातृप्रत्याख्यापयित्रोराचाश्रावकयोः इयकरणे भूतशब्दसमन्वितप्रत्याख्यानासेवने नाव - गच्छन्ति नावबुध्यन्ते पूर्वपक्षवादिन इति ॥ तथा चाह ॥ ( ओवंमे तादत्थे व हुज्ज एसित्य भूयसहो ति । उभओ ओगकरणं न संगयं समयनीईए ॥ १२४ ॥ [ औपम्ये तायै वा भवेदेषो ऽत्र भूतशब्द इति । उभयथा प्रयोगकरणं न संगतं समयनीत्या ॥ १२४ ॥] औपम्ये तादर्थे वा भवेदेषोऽत्र प्रत्याख्यानविधौ भूतशब्द इति । उभयथापि प्रयोगकरणमस्य न संगतं समयनीत्या सिद्धान्तव्यवस्थयेतिं गाथाक्षरार्थः ॥ भावार्थमाह । ओ मे देसो खलु एसो सुरलोयभूय मो एत्थ । देसु च्चिय सुरलोगो न होइ एवं तसा तेवि ॥१२५॥ [ औपम्ये देशः खल्वेष सूरलोकभूत एव अत्र । देश एव सूरलोको न भवति एवं सास्तेऽपि ॥ १२५ ॥ ] औपम्ये उपमाभावे भूतशब्दप्रयोगो यथा देशः खल्वेष लाटदेशादिः ऋध्यादिगुणोपेतत्वात्सुरलोकोपमः मो इत्यवधारणार्थो निपातः सूरलोकभूत एव अत्रास्मिन् पक्षे देश एव सुरलोको न १ व्यवस्थित्येति
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy