SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४४ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [परदारपरित्यागः खदारसंतोषो ऽपि च चतुर्थम् । द्विविधं परदारं खलु औदारिकवैक्रियभेदेन ॥२७०॥] परदारपरित्यागः परकलत्रपरिहारः न वेश्यापरित्यागः स्वदार-. संतोषश्च स्वकलत्रसेवनमेव न वेश्यागमनमपि चतुर्थमित्येतच्चतुर्थमणुव्रतं । परदारमपि द्विविधमौदारिकवैक्रियभेदेन औदारिक ख्यादिषु वैक्रियं विद्याधर्यादिष्विति ॥ वज्जणविह पुवुतं पावमिणं जिणवरेहिं पन्नतं । रागाईण नियाणं भवपायवबीयभूयाणं ॥ २७१ ॥ [वर्जनमिह पूर्वोक्तं पापमिदं जिनवरैः प्रज्ञप्तम्। . रागादीनां निदानं भवपादपबीजभूतानाम् ॥२७१॥ ] वर्जनमिह पूर्वोक्तं उपयुक्त इत्यादिना ग्रन्थेन (१०८ गाथा ) किमेतद्वय॑ते इत्याशङ्कयाह पापमिदं परदारासेवनं जिनवरैः प्रज्ञप्तं तीर्थकरगणधरैः प्ररूपितमिति किंविशिष्टं रागादीनां निदानं कारणं किंविशिष्टानां भवपादपबीजभूतानां रागादीनामिति॥ .. · पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं। संपुनपालणहा परिहरियव्वा पयतेणं ॥ २७२ ॥ पूर्ववत् (२५७), अतीचारानाह। इतरियपरिग्गहियापरिगहियागमणणंगकीडं च । परविवाह करणं कामे तिब्वाभिलासं च ॥ २७३ ॥ [इत्वरपरिगृहीतापरिगृहीतागमनानंगक्रीडाः च । परविवाहकरणं कामे तीव्राभिलाषः च ॥२७३॥ .
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy