SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सटीकनावकज्ञप्त्याख्यप्रकरणं। १४५ इत्वरपरिगृहीतागमनं स्तोककालपरिगृहीतागमनं भाटीप्रदानेन कियन्तमपि कालं स्ववशीकृतवेश्यामैथुनासेवनमित्यर्थः।१। अपरिगृहीतागमनं अपरिगृहीता नाम वेश्या अन्यसत्तागृहीतभाटी कुलाङ्गना वा अनाथेति तद्गमनं यथाक्रमं स्वदारसंतोषवत्परदारवर्जिनोरतीचारः ।२। अनङ्गक्रीडा नाम कुचकक्षोरुवदनांतरक्रीडा तीव्रकामाभिलाषेण वा परिसमाप्तसुरतस्याप्याहाः स्थूलकादिभिोषिदवाच्यप्रदेशासेवनमिति । ३। परविवाहकरणमन्यापत्यस्य कन्याफललिप्सया स्नेहसंबन्धेन वा विवाहकरणं स्वापत्येष्वपि सङ्खयाभिग्रहो न्याय्य इति ।४।कामे तीव्राभिलाषश्चेति सूचनात्कामभोगतीव्राभिलाषः कामा शब्दादयः भोगा रसादयः एतेषु तीब्राभिलाषः अत्यन्ततदध्यवसायित्वम्।५।एतानि समाचरन्नतिचरति चतुर्थमणुव्रतमिति ॥ वज्जिज्जा मोहकरं परजुवइदंसणाइ सवियारं एए खु मयणबाणा चरितपाणे विणासंति ॥ २७४ ॥ [ वर्जयेत् मोहकर परयुवतिदर्शनादि सविकारम् । एते खलु मदनबाणा: चारित्रप्राणान् विनाशयन्ति २७४] वर्जयेन्मोहकरं परयुवतिदर्शनं आदिशब्दात्संभाषणादिपरिग्रहः किंभूतं सविकारं सविभ्रमं । एते दर्शनादयो यस्मान्मदनबाणाश्चारित्रप्राणान् विनाशयन्तीति ॥ उक्तं च । अनिशमशुभसंज्ञाभावनासन्निहत्या कुरुत कुशलपक्षप्राणरक्षां नयज्ञाः। १०
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy