________________
सटीकश्रावकमज्ञप्याख्यप्रकरणं । युक्तः संबद्धो ज्ञानावरणादिकर्मसंयुक्तः । मिथ्यात्वादिनिमित्तं मिथ्यात्वादिकारणं मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतव इति वचनात् (तत्त्वार्थाधिगमसूत्रम् ८-१) कर्म पुनर्तानावरणादि भवत्यष्टविधमष्टप्रकारमिति ॥ तथा चाह
पढमं नाणावरणं बीयं पुण होइ दंसणावरणं। तइयं च वेयणीयं तहा चउत्थं च मोहणियं ॥१०॥ प्रथमं ज्ञानावरणं द्वितीयं पुनर्भवति दर्शनावरणम् । तृतीयं च वेदनीयं तथा चतुर्थ च मोहनीयम् ॥१०॥ प्रथममायं ज्ञानावरणं आब्रियतेऽनेनावृणोतीति वावरणं ज्ञानस्यावरणं ज्ञानावरणं ज्ञानं मतिज्ञानादि । द्वितीयं पुनर्भवति दर्शनावरणं पुनःशब्दो विशेषणार्थः सामान्यावबोधावारकत्वात् दर्शनं चक्षुर्दर्शनादि । तृतीयं च वेदनीयं सातासातरूपेण वेद्यत इति वेदनीयं रूढशब्दात्पङ्कजादिवत् । तथा चतुर्थ कर्म किं अत आह मोहनीयं मोहयतीति मोहनीयं मिथ्यात्वादिरूपत्वादिति । .
आजअ नाम गोयं चरमं पुण अंतराइयं होइ। मूलपयडीउ एया उत्तरपयडी अओ वुच्छं ॥११॥ आयुष्कं नाम गोत्रं चरमं पुनरन्तरायिक भवति । मूलप्रकृतय एता उत्तरप्रकृतीरतो वक्ष्ये ॥११॥
आयुष्कं नाम गोत्रं । तत्रैति याति वेत्यायुरननुभूतमेत्यनुभूतं च यातीत्यर्थः सर्वमपि कमैवंभूतं तथापि प्रक्रान्तभवप्रबन्धावि