________________
३४
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
भावः । सनिबन्धनमेव सकारणं मुणितव्यं । तथाहि त एव मिथ्यात्व परमाणवस्तथाविधात्मपरिणामेन क्वचित्तथा शुद्धिमापद्यंते यथा क्षायोपशमिकं सम्यक्त्वं भवति तत्रापि कचित्सातिचारं कालापेक्षया क्वचिन्निरतिचारं, अपरे तथा यथौपशमिकं, क्षयादेव क्षायिकमिति ॥
अपरेऽप्यस्य भेदाः संभवन्तीति कृत्वा तानपि सूचयन्नाह ॥ किं चेहुवाहिभेया दसहावीमं परूवियं समए । ओहेण तपिमेसि भेयाणमभिन्नरूवं तु ॥ ५२ ॥ [ किं चेहोपाधिभेदात् दशधापीदं प्ररूपितं समये । ओघेन तदपि अमीषां भेदानामभिन्नरूपं तु ॥ ५२ ॥ ] किं चेहोपाधिभेदादाज्ञादिविशेषणभेदादित्यर्थः दशधापीदं द शप्रकारमप्येतत्सम्यक्त्वं प्ररूपितं समये आगमे । यथोक्तं प्रज्ञापनायां
निसंग्गुवएस रुई आणरुई सुत्तवीयरुइमेव । अभिगमवित्थाररुई किरियासंखेवधम्मरुई ॥ १ ॥
आह तदेवेह कस्मान्नोक्तमिति उच्यते ओघेन सामान्येन तदपि दशप्रकारममीषां भेदानां क्षायोपशमिकादीनामभिन्नरूपमेव एतेषामेव केनचिद्भेदेन भेदात् । संक्षेपारम्भश्चायं अतो न तेषामभिधानमिति ॥
इदं च सम्यक्त्वमात्मपरिणामरूपत्वाच्छद्मस्थेन दुर्लक्ष्यमि - ति लक्षणमाह ।