SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्याख्यप्रकरणं। चकसम्यक्त्वं पुनः रुचिमात्रकरं मुणितव्यं विहितानुष्ठाने तथाविधशुद्ध्यभावात्, रोचयतीति रोचकं ॥ सयमिह मिच्छद्दिट्ठी धम्मकहाईहि दीवइ परस्स। सम्मतमिणं दीवग कारणफलभावओ नेयं ॥ ५० ॥ [स्वयमिह मिथ्यादृष्टिः धर्मकथादिभिर्दीपयति परस्य । सम्यक्त्वमिदं दीपकं कारणफलभावतो ज्ञेयं ॥५०॥] स्वयमिह मिथ्यादृष्टिरभव्यो भव्यो वा कश्चिदङ्गारमर्दकवत् । अथ च धर्मकथादिभिर्धर्मकथया मातृस्थानानुष्ठानेनातिशयेन वा केनचिद्दीपयतीति प्रकाशयति परस्य श्रोतुः सम्यक्त्वमिदं व्यञ्जकं । आह मिथ्यादृष्टेः सम्यक्त्वमिति विरोधः सत्यं किन्तु कारणफलभावतो ज्ञेयं तस्य हि मिथ्यादृष्टेरपि यः परिणामः स खलु प्रतिपत्तसम्यक्त्वस्य कारणभावं प्रतिपद्यते तद्भावभावित्वात्तस्य, अतः कारणे एव कार्योपचारात्सम्यक्त्वाविरोधः यथायुघृतमिति ॥ समस्तस्यैव भावार्थमुपदर्शयति ॥ तविहखओवसमओ तेसिमणूणं अभावओ चेव । एवं विचितरूवं सनिबंधणमो मुणेयच्चं ॥ ५१॥ [तद्विधक्षयोपशमतस्तेषामणूनां अभावतश्चैव। एवं विचित्ररूपं सनिबन्धनमेव मुणितव्यं ॥५१॥] तद्विधक्षयोपशमतस्तेषामणूनां मिथ्यात्वाणूनामित्यर्थः अभावतश्चैव तेषामेवेति वर्तते एवं विचित्ररूपं क्षायोपशमिकादिभेदेनेति
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy