SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। ३५ तं उवसमसंवेगाइएहि लक्खिज्जई उवाएहि । आयपरिणामरूवं बज्झेहिं पसत्थजोगेहिं ॥ ५३॥ [तदुपशमसंवेगादिकैलक्ष्यते उपायैः।। आत्मपरिणामरूपं बाद्यैः प्रशस्तयोगैः ॥ ५३॥] तत्सम्यक्त्वमुपशमसंवेगादिभिरिति उपशान्तिरुपशमः संवेगो मोक्षाभिलाषः आदिशब्दान्निर्वेदानुकम्पास्तिक्यपरिग्रहः लक्ष्यते चियते एभिरुपशमादिभिर्बाःिप्रशस्तयोगैरिति संबन्धः बाह्यवस्तुविषयत्वाद्वाह्याः प्रशस्तयोगाः शोभनव्यापारास्तैः किं विशिष्टं तत्सम्यक्त्वं आत्मपरिणामरूपं जीवधर्मरूपमिति ॥ तथा चाह... इत्थ य परिणामःखलु जीवस्स सुहो उ होइ विनेओ। किं मलकलंकमुकं कणगं भुवि सामलं होइ ॥ ५४॥ [अत्र च परिणामः खलु जीवस्य शुभ एव भवति विज्ञेयः । किंमलकलङ्कमुक्तं कनकं भुविध्यामलं भवति॥५४॥] अत्र च सम्यक्त्वे सति किं, परिणामोऽध्यवसायः खलुशब्दो ऽवधारणार्थः जीवस्य शुभ एव भवति विज्ञेयो न त्वशुभः अथवा किमत्र चित्रमिति । प्रतिवस्तूपमामाह । किं मलकलङ्करहितं कनक भुवि ध्यामलं भवति न भवतीत्यर्थः । एवमत्रापि मलकलंकस्थानीयं प्रभूतं क्लिष्टं कर्म ध्यामलत्वतुल्यस्त्वशुभपरिणामः स प्रभूते क्लिष्ट कर्मणि क्षीणे जीवस्य न भवति ॥ .. प्रशमादीनामेव बाह्ययोगत्वमुपदर्शयन्नाह। .. १ जामलं,
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy