________________
.१२
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । तथा स्त्रीवेदादिनोकषायरूपेण यद्वेद्यते तन्नोकषायवेदनीयं । अस्यैव भेदानाह ॥ षोडश नवभेदं पुनर्यथासङ्खयेन मुणितव्यं । षोडशभेदं कषायवेदनीयं । नवभेदं नोकषायवेदनीयं । भेदाननन्तरं वक्ष्यत्येवेति ॥ तत्र कषायभेदानाह ।
अण अप्पच्चरकाणा पच्चरकाणावरणा य संजलणा।
कोहमणमायलोहा पत्तेयं चउवियप्पत्ति ॥ १७ ॥ • अनन्तानुबन्धिनो ऽप्रत्याख्यानाः प्रत्याख्यानावरणाः च
संज्वलनाः । क्रोधमानमायालोभाः प्रत्येकं चतुर्विकल्पा इति ॥ १७ ॥
अण इति सूचनात्सूत्रं इति कृत्वा अनन्तानुबन्धिनो गृह्यन्ते इह पारंपर्येणानन्तं भवमनुबडुं शीलं येषामिति अनन्तानुबन्धिनः उदयस्थाः सम्यक्त्वविघातिन इति कृत्वा॥ अविद्यमानप्रत्याख्याना अप्रत्याख्याना देशप्रत्याख्यानं सर्वप्रत्याख्यानं च नैषामुदये लभ्यते इत्यर्थः ॥ प्रत्याख्यानमावृण्वन्ति मर्यादया ईषदेति प्रत्याख्यानावरणाः आमर्यादायामीषदर्थे वा मर्यादायां सर्वविरतिमावृण्वन्ति न देशविरतिं ईषदर्थेऽपि ईषद्वण्वन्ति सर्वविरतिमेव न देशविरतिं देशविरतिश्च भूयसी स्तोकादपि विरतस्य देशविरतिभावात् ॥चा समुच्चये॥ईषत्परीषहादिसन्निपातज्वलनात्संज्वलनाः सम् शब्द ईषदर्थे इति ॥ एवं क्रोधमानमायालोभाः प्रतीतस्वरूपाः प्रत्येकं चतुर्विंकल्पा इति । क्रोधोऽनन्तानुबन्ध्यादिभेदाचतुर्विकल्पः ॥ एवं मानादयोऽपीति ॥ स्वरूपं चैतेषामित्थमाहुः