________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । ११ द्विविधं च मोहनीयं दर्शनमोहनीयं चारित्रमोहनीयंच। दर्शनमोहनीयं त्रिविधं सम्यक्त्वेतरमिश्रवेदनीयम् ॥१५॥
हे विधेऽस्य तद्विविधं द्विप्रकारं । चः समुच्चये । मोहनीयं प्राडिरूपितशब्दार्थ । द्वैविध्यमेवाह । दर्शनमोहनीयं चारित्रमोहनीयं च। तत्र दर्शनं सम्यग्दर्शनं तन्मोहयतीति दर्शनमोहनीयं । चारित्रं विरतिरूपं तन्मोहयतीति चारित्रमोहनीयं । तत्र दर्शनमोहनीयं त्रिविधं त्रिप्रकार सम्यक्त्वेतरमिश्रवेदनीयं । सम्यक्त्वरूपेण वेद्यते यत्तत्सम्यक्त्ववेदनीयं । इतरग्रहणान्मिथ्यात्वरूपेण वे. द्यते यत्तन्मिथ्यात्ववेदनीयं । मिश्रग्रहणात्सम्यग्मिथ्यात्वरूपेण वेद्यते यत्तत्सम्यक्त्वमिथ्यात्ववेदनीयं । एवमयं वेदनीयशब्दः प्र. त्येकमभिसंबध्यते । इदं च बन्धं प्रत्येकविधमेव सन्कर्मतया त्रिविधमिति ॥ आह । सम्यक्त्ववेदनीयं कथं दर्शनमोहनीयं न हि तदर्शनं मोहयति तस्यैव दर्शनत्वात् । उच्यते मिथ्यात्वप्रकृतित्वादतिचारसंभवादौपशमिकादिमोहनाच्च दर्शनमोहनीयमिति ।।
दुविहं चरितमोहं कसाय तह नोकसाय वेयणियं । सोलसनवभेयं पुण जहासंखं मुणेयत्वं ॥ १६ ॥ द्विविधं चारित्रमोहनीयं कषायवेदनीयं तथा नोकषायवेदनीयं । षोडशनवभेदं पुनर्यथासंख्यं मुणितव्यं ॥ १६ ॥
द्विविधं द्विप्रकारं चारित्रमोहनीयं प्राङ्गि-रूपितशब्दार्थ । कषायवेदनीयं तथा नोकषायवेदनीयं चेति । वेदनीयशब्दः प्रत्येकमभिसंबध्यते । तत्र क्रोधादिकषायरूपेण यद्वेद्यते तत्कषायवेदनीयं।