SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १३४ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। अस्थि च्चिय अभिसंधी अविसेसपवितिओ जहा तेसु । अपविती य विणिवित्तीजो उ तेसि वदोसो उ॥२५१॥ [अस्त्येवाभिसंधिरविशेषप्रवृत्तितः यथा तेषु । अप्रवृत्तावपि अनिवृत्तिज एव तेषां दोष एव ॥२५१॥] अस्त्येवाभिसंधिरनन्तरोदितलक्षणः सर्वेषु कुतो ऽविशेषप्रवृत्तितः सामान्येन वधप्रवृत्तेः यथा तेषु रिपुद्रंगनिवासिषु वैरवतः . ततश्चाप्रवृत्तावपि वधे अनिवृत्तिज एव तेषामिव वैरवतां दोष एवमनिवृत्तस्य गर्भार्थो भावित एवेति अदृष्टान्त एवायं सर्वसत्वैवैरासंभवादिति आशङ्कयाह सब्जेसि विराहणओ परिभोगाओ य हंत वेराई । सिद्धा अणाइनिहणो जं संसारो विचितो य ॥२५२॥ [सर्वेषां विराधनात् परिभोगाच हन्त वैरादयः । सिद्धाः अनादिनिधनो यत् संसारो विचित्रश्च॥२५२॥] सर्वेषां प्राणिनां विराधनात्तेन तेन प्रकारेण परिभोगाच्च स्रक्चन्दनोपकरणत्वेन हन्त वैरादयः सिद्धाः हंत संप्रेषणे स्थानान्तरप्रापणे सति वैरोन्माथकादयः कूटयन्त्रकादयः प्रतिष्ठिताः सर्वसत्त्वविषया इति । उपपत्त्यन्तरमाह । अनादिनिधनो यत्संसारो विचित्रश्चातो युज्यते सर्वमेतदिति उपसंहरन्नाह । ता बंधमणिच्छंतो कुजा सावज्जजोगविनिविति । अविसयअनिवित्तीए सुहभावा दढयरं सभवे॥२५३॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy