SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञघ्याख्यप्रकरणं । १८३ ना पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति । श्रावकधर्मे च प्रत्याख्यानभेदानां सप्तचत्वारिंशदधिकं भङ्गशतं भवति चित्रत्वादेशविरतेः, तदाह सीयालं भंगसयं गिहिपञ्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं भावेयव्वं पयतेणं ॥ ३२९ ॥ [ सप्तचत्वारिंशदधिकं भङ्गशतं गृहिप्रत्याख्यानभेदपरिमाणं । तच्च विधिना अनेन भावयितव्यं प्रयलेन ॥ ३२९ ॥ ] सप्तचत्वारिंशदधिकं शतं गृहिप्रत्याख्यानभेदानां परिमाण - मियत्ता तच्च विधिना अनेन वक्ष्यमाणेन भावयितव्यं प्रयत्नेनाव - हितचेतोभिरिति । विधिमाह । तिन्नि तिया तिन्नि दुया तिन्निकिका य हुंति जोगेसु । तिदु एक्कं ति दु एक्कं ति दु एक्कं चेव करणाई ॥ ३३० ॥ [ त्रयस्त्रिकाः त्रयो द्विकाः त्रय एककाश्च भवन्ति योगेषु । त्रीणि द्वयमेकं त्रीणि द्वयमेकं त्रीणि द्वयमेकं चैव करणानि ॥ ३३० ॥ ]१ त्रयस्त्रिास्त्रयो द्विकास्त्रय एककाश्च भवन्ति योगेषु कायवामनोव्यापारलक्षणेषु त्रीणि इयमेकं ३ चैव करणानि मनोवाक्कायलक्षणानीति पदघटना । भावार्थस्तु स्थापनया निर्दिश्यते सा चेयं १ One MS. of the original text adds the following गाथा पढमे लब्भइ इक्को सेसेसु पएसु तिय तिय तियति । दो नव तिय दो नवगा तिगुणिय सीयालभंगसयं ॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy