________________
१२२
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। एतदपि न युक्तिक्षम यद्यस्मात्परिणामात्पापमिहोक्तं स च न नियतो बालवृद्धादिषु क्लिष्टेतररूपो द्रव्यादिभेदभिन्ना तथा हिंसा वर्णिता समये यथोक्तं “दव्वउ णामेगे हिंसा ण भावउ" इत्यादि प्रथमहिंसाभेदमाह ।
उच्चालियंमि पाए इरियासमियस्स संकमठाए। वावज्जिज कुलिंगी मरिज तं जोगमासज ॥ २२३॥ [उच्चालिते पादे ईर्यासमितस्य संक्रमार्थम् । व्यापद्येत कुलिङ्गी म्रियेत तं योगमासाद्य ॥ २२३ ॥]
उच्चालिते उत्क्षिप्ते पादे संक्रमार्थ गमनार्थमिति योगः ईर्यासमितस्योपयुक्तस्य साधोः किं व्यापद्येत महतीं वेदनां प्राप्नुयात् म्रियेत प्राणत्यागं कुर्यात् कुलिङ्गी कुत्सितलिङ्गवान् द्वीन्द्रियादिसत्त्वः तं योगमासाद्य तथोपयुक्तसाधुव्यापारं प्राप्येति॥ न य तस्स तन्निमितो बंधो सुहुमो विदेसिओ समए। जम्हा सो अपमतो सा उ पमाउ ति निद्दिहा॥२२४॥ [न च तस्य तन्निमित्तः बन्धः सूक्ष्मोऽपि देशितःसमये। यस्मात्सोऽप्रमत्तः सा च प्रमाद इति निर्दिष्टा २२४ ] न च तस्य साधोस्तन्निमित्तः कुलिङ्गिव्यापत्तिकारणो बन्धः सूक्ष्मोऽपि देशितः समये किमिति यस्मात्सोऽप्रमत्तः सूत्राज्ञया प्रवृत्तेः सा च हिंसा प्रमाद इत्येवं निर्दिष्टा तीर्थकरगणधरैरिति इयं द्रव्यतो हिंसा न भावतः।सांप्रतं भावतोन द्रव्यत इत्युच्यते॥