SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। व्याख्यातं सातिचारं द्वितीयंशिक्षापद्मधुना तृतीयमुच्यते आहारपोसहो खलु सरीरसक्कारपोसहो चेव । बंभवावारेसु य तइयं सिक्खावयं नाम ॥ ३२१ ॥ [आहारपौषधः खलु शरीरसत्कारपौषधश्चैव । ब्रह्माव्यापारयोश्च तृतीयं शिक्षापदं नाम ॥ ३२१ ॥] आहारपौषधः खलु शरीरसत्कारपौषधश्चैव ब्रह्माव्यापारयोश्चेति ब्रह्मचर्यपौषधो ऽव्यापारपौषधश्चेति । इह पौषधशब्दः रूढ्या पर्वसु वर्तते । पर्वाणि चाष्टम्यादितिथयः पूरणात्पर्व धर्मोपचयहेतुत्वादिति । तत्राहारः प्रतीतः तद्विषयस्तन्निमित्तो वा पौषधः आहारपौषधः आहारादिनिवृत्तिनिमित्तं धर्मपूरणं पतिभावना । एवं शरीरसत्कारपौषधः । ब्रह्मचर्यपौषधः अत्र चरणीयं चर्य अतो यदित्यस्मादधिकारात् गदमदचरयमश्चानुपसर्ग इति यत् ब्रह्म कुशलानुष्ठानं यथोक्तं । ब्रह्म वेदो ब्रह्म तपो ब्रह्म ज्ञानं च शाश्वतं । ब्रह्मवत् चर्य चेति समासः शेषं पूर्ववत् । तथाव्यापारपौषधः तृतीयं शिक्षाव्रतं नामेति सूचनात्सूत्रमिति न्यायात्तृतीयं शिक्षापदव्रतमिति एतदेव विशेषेणाह देसे सच्चे य दुहा इक्विको इत्थ होइ नायवो। सामाइए विभासा देसे इयरम्मि नियमेण ॥३२२॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy