SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १७४ सटीकश्रावकमज्ञप्त्याख्यप्रकरणं । योगं चैव शब्दानुपातं रूपानुपातं च तथा बहिर्वा पुद्गलक्षेपं वर्जयेदिति पदघटना। भावार्थस्तु इह विशिष्टावधिके भूदेशाभिग्रहे परतः स्वयं गमनायोगाद्योऽन्यः सचित्तादिद्रव्यानयने प्रयुज्यते, संदेशकप्रदानादिना " त्वयेदमानेयम्" इति अयमानयनप्रयोगः ।। तथा प्रेष्यप्रयोगः बलाद्विनियोज्यः प्रेष्यस्तस्य प्रयोगो, यथाभिगृहीतप्रविचारदेशव्यतिक्रमभयात्"त्वयावश्यमेव गत्वा मम गवाद्यानेयमिदं वा तत्र कर्तव्यमेव" एवंभूतः।२। तथा शब्दानुपातः स्वगृहवृत्तिप्राकारादिव्यवच्छिन्नभूप्रदेशाभिग्रहे बहिः प्रयोजनोत्पत्तौ, तत्र स्वयंगमनायोगाद्वृत्तिप्राकारप्रत्यासन्नवर्तिनो बुद्धिपूर्वकमभ्युक्तासितादिकशब्दकरणेन समवसितकान्बोधयतः शब्दानुपातनमुच्चारणं तादृग्येन परकीयश्रवणविवरमनुपतत्यसाविति । ३ । तथा रूपानुपातो गृहीतदेशाद्वहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनार्थ स्वशरीररूपप्रदर्शनं रूपानुपातः । ४। तथा बहिः पुद्गलक्षेपोऽभिगृहीतदेशाद्वहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्ट्वादिक्षेपः पुद्गलप्रक्षेप इति भावना ।। देशावकाशिकमेतदर्थम-- भिगृह्यते मा भूद्वहिर्गमनागमनादिव्यापारजनितः प्राण्युपमर्द इति स च स्वयं कृतोऽन्येन वा कारितः इति न कश्चित्फले विशेषः प्रत्युत गुणः स्वयं गमन ईर्यापथविशुद्धेः परस्य पुनरनिपुणत्वातदशुद्धिरिति
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy