________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । ३ संपत्तदंसणाई पइदियहं जइजणा सुणेई य। । सामायारिं परमं जो खलु तं सावगं बिन्ति ॥ २॥ संप्राप्तदर्शनादिः प्रतिदिवसं यतिजनाच्छृणोत्येव । सामाचारी परमां यः खलु तं श्रावकं ब्रुवते ॥२॥ .
संप्राप्तं दर्शनादि येनासौ संप्राप्तदर्शनादिः। दर्शनग्रहणात्सम्यरदृष्टिरादिशब्दादणुव्रतादिपरिग्रहः । अनेन मिथ्यादृष्टेय॒दासः। स इत्थंभूतः प्रतिदिवसं प्रत्यहं यतिजनात्साधुलोकात् शृणोत्येव किं सामाचारी परमां। तत्र समाचरणं समाचारः शिष्टाचरितः क्रियाकलापः तस्य भावो गुणवचनब्राह्मणादिभ्यः कर्मणि व्यञ् सामाचार्य पुनः स्त्रीविवक्षायां षिगौरादिभ्यश्चेति डीप ( टापू ) यस्येत्यकारलोपः यस्य हल इत्यनेन तद्धितयकारलोपः परगमनं सामाचारी तां सामाचारी परमां प्रधानां साधुश्रावकसंबद्धामित्यर्थः। यः खलु य एव शृणोति तं श्रावकं ब्रुवते तं श्रावकं प्रतिपादयन्ति भगवन्तस्तीर्थकरगणधराः ॥ .. __ ततश्चायं पिण्डार्थः। अभ्युपेतसम्यक्तः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात्साधूनामगारिणां च सामाचारी शृणोतीति श्रावकः इति । सांप्रतं श्रवणगुणान् प्रतिपादयति । नवनवसंवेगो खलु नाणावरणखओवसमभावो। तताहिगमो य तहा जिणवयणायन्नणस्स गुणा ॥३॥