________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । नवनवसंवेगः खलु ज्ञानावरणक्षयोपशमभावः। तत्त्वाधिगमश्च तथा जिनवचनाकर्णनस्य गुणाः ॥३॥ नवनवसंवेगः प्रत्ययः प्रत्यग्रः संवेगः आद्रातःकरणता मोक्षसुखाभिलाष इत्यन्ये । खलुशब्दः पूरणार्थः संवेगस्य शेषगुणनिबंधनत्वेन प्राधान्यख्यापनार्थो वा। तथा ज्ञानावरणक्षयोपशमभावः ज्ञानावरणक्षयोपशमसत्ता संवेगादेव। तत्त्वाधिगमश्च तत्त्वातत्त्वपरिच्छेदश्च तथा जिनवचनाकर्णनस्य तीर्थकरभाषितश्रवणस्यैते गुणा इति ॥ तीर्थकरभाषिता चासौसामाचारीति ॥
किं च देहस्वजनवित्तप्रतिबद्धः कश्चिदहृदयो न शृणोतीत्येषामसारताख्यापनाय जिनवचनश्रवणस्य सारतामुपदर्शयन्नाह
न वितं करेइ देहो न य सयणो नेय वित्तसंघाओ। जिणवयणसवणजणिया जं संवेगाइया लोए ॥ ४॥ नापि तत्करोति देहो न च स्वजनो न च वित्तसंघातः । जिनवचनश्रवणजनिता यत्संवेगादयो लोके ॥४॥
नापि तत्करोति देहो न च स्वजनो न च वित्तसंघातः जिनवचनश्रवणजनिता यत्संवेगादयो लोके कुर्वन्ति । तथाह्यशा-. श्वतः प्रतिक्षणभङ्गुरो देहः शोकायासकारणं क्षणिकसंगमश्च स्वजनः अनिष्टितायासव्यवसायास्पदं च वित्तसंघात इत्यसारता । तीर्थकरभापिताकर्णनोद्भवाश्च संवेगादयो जातिजराम
१ अनिष्टितासद्वयवसायास्पदं ।