________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । रणरोगशोकायुपद्रवव्रातरहितापवर्गहेतव इति सारता । अतः श्रोतव्यं जिनवचनमिति ॥ अथवा
होइ दढं अणुराओ जिणवयणे परमनिव्वइकरम्मि । _सवणाइगोयरो तह सम्मदिहिस्स जीवस्स ॥ ५ ॥
भवति दृढमनुरागो जिनवचने परमनिवृतिकरे। श्रवणादिगोचरः तथा सम्यग्दृष्टेर्जीवस्य ॥५॥
यद्वा किमनेन निसर्गत एव भवति जायते दृढमत्यर्थमनुरागः प्रीतिविशेषः क जिनवचने तीर्थकरभाषिते किंविशिष्टे परमनिवृतिकरे उत्कृष्टसमाधिकरणशीले किंगोचरोऽनुरागो भवतीत्यत्राह । श्रवणादिगोचरः श्रवणश्रद्धानानुष्ठानविषय इत्यर्थः। तथा तेन प्रकारेण कस्येत्यत्राह सम्यग्दृष्टेजीवस्य प्रक्रान्तत्वाच्छ्रावकस्येत्यर्थः । अतोऽसौ श्रवणे प्रवर्तत एव ततश्च शृणोतीति श्रावक इति युक्तं इति गाथाभिप्रायः ॥
निरूपितः श्रावकशब्दार्थः । सांप्रतं द्वादशविधं श्रावकधर्ममुपन्यस्यन्नाह।
पञ्चेव अणुब्बयाई गुणवयाई च हुँति तिन्नेव। सिकावयाई चउरो सावगधम्मो दुवालसहा ॥६॥ पञ्चैवाणुव्रतानि गुणव्रतानि च भवन्ति त्रीण्येव। शिक्षाव्रतानि चत्वारि श्रावकधर्मो द्वादशधा ॥६॥
पञ्चेति सङ्ख्या । एवकारोऽवधारणे । पञ्चैव न चत्वारि षड्वा । अणूनि च तानि व्रतानि चाणुव्रतानि महाव्रतापेक्षया चाणुत्वमिति