________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । स्थूरप्राणातिपातादिविनिवृत्तिरूपाणीत्यर्थः ॥ गुणव्रतानि च भकन्ति त्रीण्येव न न्यूनाधिकानि वा। अणुव्रतानामेवोत्तरगुणभूतानि व्रतानि गुणव्रतानि दिग्वतभोगोपभोगपरिमाणकरणानर्थदण्डविरतिलक्षणानि एतानि च भवन्ति त्रीण्येव । शिक्षापदानि च शिक्षाव्रतानि वा तत्र शिक्षा अभ्यासः स च चारित्रनिबन्धनविशिष्टक्रियाकलापविषयस्तस्य पदानि स्थानानि तद्विषयाणि वा ब्रतानि शिक्षाव्रतानि एतानि च चत्वारि सामायिकदेशावकाशिकपौपधोपवासातिथिसंविभागाख्यानि । एवं श्रावकधर्मों द्वादशधा द्वादशप्रकार इति गाथासमासार्थः । अवयवार्थ तु महता प्रपञ्चेन ग्रन्थकार एव वक्ष्यति ॥ तथा चाहएयस्स मूलवत्थू सम्मतं तं च गंठिभेयम्मि। खयउवसमाइ तिविहं सुहायपरिणामरुवं तु ॥ ७॥ एतस्य मूलवस्तु सम्यक्त्वं तच्च ग्रन्थिभेदे । क्षायोपशमिकादि त्रिविधं शुभात्मपरिणामरूपंतु ॥७॥
एतस्यानन्तरोपन्यस्तस्य श्रावकधर्मस्य मूलवस्तु सम्यक्त्वं । वसन्त्यस्मिन्नणुव्रतादयो गुणास्तद्भावभावित्वेनेति वस्तु । मूलभूतं च तद्वस्तु च मूलवस्तु किं तत्सम्यक्त्वम् । उक्तं च .. मूलं द्वारं प्रतिष्ठानमाधारो भाजनं निधिः।
द्विषट्स्यास्य धर्मस्य सम्यक्त्वं परिकीर्तितम् ॥१॥ ; तच्च सम्यक्त्वं ग्रन्थिभेदे वक्ष्यमाणलक्षणकर्मग्रन्थिभेदे(३१-३३) सति भवति नान्यथेति भावः । तच्च क्षायोपशमिकादिभेदात्रिविधं