________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । श्रेयांसि बहुविघ्नानि भवन्ति महतामपि ।
अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः॥) इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्रेयोभूतं वर्तते अतो माभूद्विघ्न इति विघ्नविनायकोपशान्तये, तथा प्रेक्षापूर्वकारिणः प्रयोजनादिविरहेण न कचित्प्रवर्तन्त इत्यतःप्रयोजनादिप्रतिपादनार्थ च, तत्र अरहन्ते वंदित्ता इत्यनेनेष्टदेवतानमस्कारमाह अयमेव विघ्नविनायकोपशमहेतुः सावगधम्ममित्यादिना तु प्रयोजनादि त्रयं इति गाथासमुदायार्थः॥ ___ अवयवार्थस्तु अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यहन्तस्तीर्थकरास्तानहतः। वंदित्वा अभिवन्द्य । श्रावका वक्ष्यमाणशब्दार्थाः तेषां धर्मस्तं किंभूतं द्वादश विधाः प्रकारा अस्येति द्वादशविधस्तं द्वादशविधमपि संपूर्ण नाणुव्रतायेकदेशप्रतिबद्धमिति। वक्ष्येऽभिधास्ये ततश्च यथोदितश्रावकधर्माभिधानमेव प्रयोजनं, स एवाभिधीयमानो ऽभिधेयं, साध्यसाधनलक्षणश्च संबन्धः तत्र साध्यः प्रकरणार्थः साधनमिदमेव वचनरूपापन्नमिति ॥ आह यद्येवं नार्थोऽनेन पूर्वाचार्यैरेव यथोदितश्रावकधर्मस्य ग्रन्थान्तरेवभिहितत्वात् , उच्यते,सत्यमभिहितः प्रपञ्चेन,इह तु संक्षेपरुचिसत्त्वानुग्रहार्थं समासेण संक्षेपेन वक्ष्ये । किं स्वमनीषिकया, नेत्याह, गुरूपदेशानुसारेण गृणाति शास्त्रार्थमिति गुरुस्तस्मादुपदेशो गुरूपदेशस्तदनुसारेण तन्नीत्येत्यर्थः ॥ .. श्रावकधर्मस्य प्रक्रान्तत्वात्तस्य श्रावकानुष्ठातृकत्वाच्छ्रावकशब्दार्थमेव प्रतिपादयति ॥ १ श्रावकानुगतत्वात् ।