SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२८ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । [ यदि तावत्तवध एव अलं निवृत्त्या अविषययैव । कालान्तरहननेऽपि किं तया नियमभंगात् ॥ २३८॥] यदि तावत्तद्वध एव तेषां व्यापाद्यमानवधक्रियैव संभव इति अत्र दोषमाह अलं निवृत्त्या न किंचिद्वधनिवृत्त्याविषययेति हेतुः निमित्तकारणहेतुषु सर्वासां प्रायो दर्शनमिति वचनात् अविषयत्वं च वधक्रियाया एव संभवत्वात्संभवे च सति निवृत्त्यभ्युपगमात् ततश्च वधक्रियानियमभावे अविषया वधनिवृत्तिरिति । कालान्तरहननेऽपि नियमतः संभवेऽभ्युपगम्यमाने किं तया निवृत्त्या न किंचिदित्यर्थः कुत इत्याह नियमभङ्गात् संभव एव सति निवृत्यभ्युपगमः संभवश्च कालान्तरहननमेवेति नियमभङ्ग इति। चरमविकल्पद्वयाभिधित्सयाह अवहे वि नो पमाणं सुद्द्यरं अविसओ य विसओ से। सती उ कज्जगम्मा सइ तंमि किं पुणो तीए॥२३९॥ [अवधेऽपिनप्रमाणंसुष्टुतरं अविषयश्च विषयः तस्याः । शक्तिस्तु कार्यगम्या सति तस्मिन् किं पुनस्तया २३९] अवधेऽपि न प्रमाणं यद्यवधः संभवः इत्यत्रापि प्रमाणं न ज्ञायते एतेषामस्मादवध इति सुष्ठुतरं अतितरां अविषयश्च विषय से तस्या निवृत्तेः अविषयत्वं तु तेषां वधासंभवात् अवधस्यैव संभवत्वात् अस्मिंश्च सति निवृत्त्यभ्युपगमादिति । शक्तिस्तु कार्यगम्या वधशक्तिरपि संभवो न युज्यते यतोऽसौ कार्यगम्यैवेति
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy