SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । १८१ गच्छइ पच्छा सयं भुंजइ जं च किर साहुण ण दिन्नं तं सावगेण न भोत्तव्वं । जइ पुण साहू णत्थि ताहे देसकालवेलाए दिसालोओ कायव्वो विसुद्धभावेण चिंतियव्वं साहुणो जइ होता नाम नित्थारिओ होतोत्ति विभासा। इदमपि शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति एतदाह सच्चितनिक्खिवणयं वज्जे सचितपिहणयं चेव । कालाइक्कमदाणं परववएसं च मच्छरियं ॥ ३२७ ॥ सचित्तनिक्षेपणं वर्जयेत् सचित्तपिधानं चैव । कालातिक्रमदानं परव्यपदेशं मात्सर्य च ॥ विवर्जयेत् तत्र सचित्तनिक्षेपणं सचित्तेषु ब्रीह्यादिषु निक्षेपणमन्नादेरदेयबुद्ध्या मातृस्थानतः।१। एवं सचित्तपिधानं सचित्तेन फलादिना पिधानं स्थगनमिति समासः भावार्थः प्राग्वत् । २। कालातिक्रम इति कालस्यातिक्रमः कालातिक्रमः उचितो यो भिक्षाकालः साधूनां तमतिक्रम्य उलंघ्य भुंक्त तदा च किं तेन लब्धेनापि कालातिक्रांतत्वात्तस्य उक्तं च काले दिन्नस्स पहेणयस्स अग्घो ण तीरए काउं । तस्सेवकाले परिणामियस्स गिण्हतया नत्थि । ३ । परव्यपदेश इति आत्मव्यतिरिक्तो योऽन्यः स परस्तव्यपदेश इति समासः साधोः पौषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्ते परकीयमिदमिति नात्मीयमतो न ददामि किंचिद्याचितो वाभिधत्ते विद्यमान एवामुकस्येदमस्ति तत्र गत्वा मार्गय तद्यूयमिति । ४मात्सर्य
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy