________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
न्यायागतानामिति, न्यायो द्विजक्षत्रियविशूद्राणां स्ववृत्त्यनुष्ठानं स्ववृत्तिश्च प्रसिद्धैव प्रायो लोकहेर्या तेनेशन्यायेनागतानां प्राप्तानामनेनान्यायागतानां प्रतिषेधमाह । अन्नादीनां द्रव्याणां आदिग्रहणात्पानवस्त्रपात्रौषधभेषजादिपरिग्रहः अनेनापि हिरण्यादिव्यवच्छेदमाह । कल्पनीयानामिति उद्गमादिदोषपरिवजितानां अनेनाकल्पनीयानां निषेधमाह । देशकालश्रद्धासत्कारक्रमयुक्तं नानाव्रीहिकोद्रवकङ्गगोधूमादिनिष्पत्तिभाग्देशः, सुभिक्षदुर्भिक्षादिः कालः, विशुद्धचित्तपरिणामः श्रद्धा, अभ्युस्थानासनदानवंदनाद्यनुव्रजनादिः सत्कारः, पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः, एभिर्देशादिभिर्युक्तं समन्वितं, अनेनापि विपक्षव्यवच्छेदमाह । परमया प्रधानया भत्तया इत्यनेन फलप्राप्तौ भक्तिकृतमतिशयमाहेति ॥
आयाणुग्गहबुद्धीइ संजयाणं जमित्थ दाणं तु । एवं जिणेहि भणियं गिहीण सिक्खावयं चरिमं३२६ [आत्मानुग्रहबुद्ध्या संयतेभ्यः यदन्न दानं तु। एतद् जिनः भणितं गृहिणांशिक्षापदं चरमम् ॥३२६]
आत्मानुग्रहबुद्ध्या न पुनर्यत्यनुग्रहबुद्ध्येति तथाहि आत्मपरानुग्रहपरा एव यतयः संयता मूलोत्तरगुणसंपन्नाः साधवस्तेभ्यो दानमिति एतन्जिनैस्तीर्थकरैर्भणितं गृहिणः श्रावकस्य शिक्षापदमिति शिक्षापदव्रतं चरमं अतिथिसंविभागाभिधानं इह भोजनार्थ भोजनकालोपस्थाय्यतिथिरुच्यते । आत्मार्थनिष्पादिताहारस्य गृहिणो व्रती साधुरेवातिथिः । यत उक्तं।