________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। दुन्हवि य मुसावाओ तयभावे पालणस्स वि अभावो।
न य परिणामेण विणा इच्छिज्जइ पालणं समए११० [छयोरपि मृषावादः तदभावे पालनस्याप्यभावः।
न च परिणामेन विना इष्यते पालनं समये ॥ ११०॥] . यदि न देशविरतिपरिणाम एव तर्हि द्वयोरपि प्रतिपत्तृप्रतिपादकयोः शिष्याचार्ययोः मृषावादः शिष्यस्यासदभ्युपगमाद्गुरोश्चासदभिधानादिति किं च तदभावे देशविरतिपरिणामस्याभावे पालनस्यापि व्रतसंरक्षणस्याप्यभावः एतदेव स्पष्टयति न च नैव परिणामेनानन्तरोदितेन विना इष्यतेऽभ्युपगम्यते पालनं संरक्षणं, व्रतस्येति प्रक्रमाद्गम्यते, समये सिद्धान्ते, परमार्थेन तस्यैव व्रतत्वादिति। एवं पराभिप्रायमाशङ्कय, पक्षद्वयेऽप्यदोष इत्यावेदयन्नाह
संते विय परिणामे गुरुमूलपवज्जणंमि एस गुणो। दृढया आणाकरणं कम्मखओवसमवुड़ी य॥१११॥ [सत्यपि च परिणामे गुरुमूलप्रतिपादने एष गुणः। दृढता आज्ञाकरणं कर्मक्षयोपशमवृद्धिश्च ॥ १११॥]
सत्यपि च परिणामे देशविरतिरूपे, गुरुमूलप्रतिपादने आचायसन्निधौ प्रतिपत्तिकरणे, एष गुण एषोऽभ्युच्चयः, यदुत दृढता तस्मिन्नेव गुणे दाय; तथाज्ञाकरणं अहंदाज्ञासंपादनं, यतस्तस्यैष उपदेशो गुरुसन्निधौ व्रतग्रहणं कार्यमिति, तथा कर्मक्षयोपशमवृद्धिश्च तथाकरणे दायाज्ञासंपादनशुभपरिणामतः अधिकतरक्षयोपशमोपपत्तेरिति ॥