SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । उपयुक्तोऽन्तःकरणेन समाहितो, गुरुमूले आचार्यसन्निधौ, संविग्नो मोक्षसुखाभिलाषी न तु रिद्धिकाम इत्वरं चातुर्मासादिकालावधिनां, इतरद्वा यावत्कथिकमेव, प्राणवधं वर्जयतीति वर्तते, एवं वर्जयित्वानुदिवसमनुस्मरन, स्मृतिमूलो धर्म इति कृत्वा, पालयति विशुद्धपरिणामः, न पुनस्तत्र चेतसापि प्रवर्तत इति ॥ .७० अत्राह देसविरइपरिणामे सइ किं गुरुणा फलस्त भावाओ । उभयलिमंथदोसो निरत्थओ मोहलिंगं तु ॥ १०९॥ [ देशविरतिपरिणामे सति किं गुरुणा फलस्याभावात् । उभयलिमन्थदोषः निरर्थको मोहलिंगं तु ॥ १०९ ॥ ] इह श्रावको यदाणुव्रतं प्रतिपद्यते तदास्य देशविरतिपरिणामः स्याद्वा न वा किं चात उभयथापि दोषः तमेवाह देशविरतिपरिणामे सति, स्वत एव तथाविधाणुत्रतरूपाध्यवसाये सति, किं गुरुणा, किमाचार्येण यत्संनिधौ तद्गृह्यते कुतः फलस्याभावात्तत्संनिधावपि प्रतिपत्तुः स एव फललाभः स च स्वत एव संजात इत्यफला गुरुमार्गणा किं च उभयपालिमन्यदोषः तथाविधाणुव्रत रूपाध्यवसाये सत्येव गुरुसंनिधौ तत्प्रतिपत्त्यभ्युपगमे उभयोराचार्यशिष्ययोर्मुधाव्यापारदोषः स च निरर्थको मोहलिंग एव न हि अमूढस्य प्रयोजनमन्तरेण प्रवृत्तिरिति ॥ द्वितीयं विकल्पमुररीकृत्याह । १ कालं विधिना
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy